०३८ हनुमता सीताचूडामणियाचना

सीतावचनश्रवणानन्तरकालिकां सीतां प्रति हनुमदुक्तिमाह– तत इत्यादिभिः । तेन सीतोक्तेन वाक्येन तोषितः कपिशार्दूलः तत् सीतोक्तं वाक्यं श्रुत्वा उवाच ॥ ५।३८।१ ॥

युक्तेति । स्त्रीस्वभावस्य भीरुत्वादेः साध्वीनां पतिव्रतानां च विनयस्य विनीतेश्च सदृशं योग्यं यत्त्वया भाषितं तत् युक्तरूपं तवातीव योग्यम् ॥ ५।३८।२ ॥

युक्तत्वमेव स्फुटयन्नाह– स्त्रीत्वादिति । स्त्रीत्वाद्धेतोः मामधिष्ठाय ममोपरि स्थित्वापि सागरं व्यतिवर्तितुं न समर्थासि ॥ ५।३८।३ ॥

द्वितीयमिति । रामात् अन्यस्य संसर्गं नार्हामि एतत् द्वितीयं कारणं यद्ब्रवीषि तत् महात्मनः तस्य रामस्य पत्न्याः ते सदृशं हि यतः ईदृशं वचनं त्वामृते का ब्रूयात् न कापीत्यर्थः । श्लोकद्वयमेकान्वयि ॥ ५।३८।४,५ ॥

श्रोष्यते इति । यत्त्वया चेष्टितं रोदनादि कृतं भाषितं च तत्सर्वं काकुत्स्थो रामः निरवशेषतः श्रोष्यते ॥ ५।३८।६ ॥

नन्वस्यैवोचितत्वे त्वया कथं सह गमनं प्रार्थितमित्यत आह– कारणैरिति । हे देवि रामप्रियचिकीर्षया शीघ्रं रामप्रीतिवाञ्छ्या बहुभिः कारणैः कारणान्तरैश्च स्नेहेन प्रस्कन्नं द्रवीभूतं मनो यस्य तेन मया एतत्समुदीरितम् ॥ ५।३८।७ ॥

कारणान्येव स्फुटयन्नाह– लङ्काया इति । लङ्कायाः दुष्प्रवेशत्वाद्धेतोः मया एतत्समुदीरितम् । एतेन रामस्यागमने श्रमो भविष्यतीति सूचितम् ॥ ५।३८।८ ॥

इच्छामीति । रघुनन्दिना रामेण त्वां समानेतुं संयोजयितुम् अद्यैव इच्छामि । अत एव एतत् उदाहृतं कथितम् ॥ ५।३८।९ ॥

यदीति । मया सार्धं यातुं यदि नोत्सहसे तर्हि यत् यतः राघवो जानीयात् मत्कर्तृकत्वाद्दर्शनं बुध्येत तदभिज्ञानं चिह्नं त्वं प्रयच्छ ॥ ५।३८।१० ॥

एवमिति । हनुमता एवमुक्ता सीता बाष्पैः प्रग्रथितानि अक्षराणि यस्मिन् तद्वचनं मन्दं शनैरुवाच ॥ ५।३८।११ ॥

तद्वचनाकारमाह इदमित्यादिभिः । इदं वक्ष्यमाणम् अभिज्ञानं मम प्रियं यथा भवति तथा त्वं ब्रूयाः । अर्द्धं पृथक् अभिज्ञानमेवाह शैलस्येत्यादिभिः । चित्रकूटस्य शैलस्य पूर्वोत्तरे ईशानकोणे विद्यमाने पादे विभूतिप्रापके प्राज्यानि अधिकानि मूलफलोदकानि यस्मिन् सिद्धाश्रिते मन्दाकिन्या अदूरतः समीपे तस्मिन् प्रसिद्धे अदेशे कृतदेशभिन्ने पदे स्थानि विद्यमानाया ममाङ्के नानापुष्पसुगन्धिषु तस्य चित्रकूटस्य उपवनखण्डेषु विहृत्य सलिले क्लिन्नस्त्वं समुपाविशः । सार्धश्लोकद्वयमेकान्वयि ॥ ५।३८।१२१४ ॥

तत इति । ततो ऽनन्तरं मांससमायुक्तः मांसेन विशिष्टो वायसः मां पर्यतुण्डयत् । गृहीतमांसेन मामताडयदित्यर्थः । तं वायसं लोष्टमुद्यस्य वारयामि स्म ॥ ५।३८।१५ ॥

दारयन्निति । बलिभोजनः स काकः भक्षार्थी मन्मांसभक्षणकाम इव चइवार्थे मां दारयन् दारयितुं तत्रैव परिलीयते पर्यलीयत् मांसान्मांसप्रक्षेपात्तु नोपारमत् उपारमत् ॥ ५।३८।१६ ॥

उत्कर्षन्त्यामिति । पक्षिणे वायसाय क्रुद्धायाम् अत एव रशनामुत्कर्षन्त्यां मयि वसने स्रंसमाने सति त्वया ऽहं दृष्टा ॥ ५।३८।१७ ॥

त्वयेति । भक्ष्यगृध्रेण भक्षणीयमांसाभिकाङ्क्षिणा च काकेन दारिता विदारितेव त्वामुपागता प्राप्ता ऽहं तदा वसनस्रंसनकाले त्वया विहसिता अत एव संल्लज्जिता अतः क्रुद्धा अभवमिति शेषः ॥ ५।३८।१८ ॥

तत इति । ततो ऽनन्तरं त्वया परिसान्त्विता क्रुद्ध्यन्तीवाहम् आसीनस्य तवोत्संगमविशम् ॥ ५।३८।१९ ॥

बाष्पेति । वायसेन प्रकोपिता अत एव बाष्पपूर्णमुखी अत एव चक्षुषी परिमार्जती अहं त्वया लक्षिता अभवमिति शेषः ॥ ५।३८।२० ॥

परीति । परिश्रमात् हेतोः पर्यायेण क्रमेण हे राघव तवाङ्के ऽहं चिरं प्रसुप्तास्मि ममाङ्के भरताग्रजश्च प्रसुप्तः ॥ ५।३८।२१ ॥

स इति । स वायसः काकः पुनः समुपागमत् । अर्ध पृथक् । तत इति । सुप्तप्रबुद्धाम् अत एव राघवाङ्कात्समुत्थितां मां वायस आगम्य स्तनान्तरे विरराद भेदनानुकूलव्यापारं चकार । सार्द्धश्लोक एकान्वयी ॥ ५।३८।२२ ॥

पुनरिति । पुनरुत्पत्य मां पुनर्विददार । अथ अनन्तरं ततः पुनः पुनर्विदारणात् हेतोः समुत्थितो रामः स्तनयोर्वितुन्नां रुधिरमयमांसयुक्ततुण्डेन ताडिताम् अत एव मुक्तैः मांसात् च्युतैः शोणितबिन्दुभिरुपलक्षितां मां दृष्ट्वा क्रुद्ध आशीविष इव श्वसन् सन् अभाषत । अर्धचतुष्टयमेकान्वयि ॥ ५।३८।२३,२४ ॥

भाषणाकारमाह केनेति । हे नागनासोरु शुण्डादण्डसदृशोरुविशिष्टे ते स्तनान्तरं केन विक्षतं ताडितम् अत एव पञ्चवक्त्रेण भोगिना सर्पेण कः क्रीडति ॥ ५।३८।२५ ॥

वीक्षमाण इति । वीक्षमाणः इतस्ततो लोकयन् रामः सरुधिरैदारितपश्वादिरुधिरविशिष्टैर्नखैरुपलक्षितं मामभि मत्समीये सुखं संमुखमेव स्थितं वायसं समवैक्षत ॥ ५।३८।२६ ॥

ननु सावधानजनशरीरस्य काककर्तृकविदारणं लोके न दृष्टमिति को ऽयमीदृशः काक इति हनुमतः शङ्कां दूरीकुर्वती आह– पुत्र इति । गतौ पवनस्य समः अत एव शीघ्रं धरान्तरं गतो वायसः शक्रस्य पुत्रः । एतेन रामपराक्रमपरीक्षार्थं शक्रप्रेरणयैवायमागत इति ध्वनितम् ॥ ५।३८।२७ ॥

तत इति । महाबाहुः रामस्तस्मिन् वायसे क्रूरां क्रूरात्वेन प्रतीयमानां मतिं कृतवान् ॥ ५।३८।२८ ॥

स इति । स रामः दर्भसंस्तरात् दर्भमयास्तरणतः कोपेन सीताङ्गस्पर्शहेतुकपरमकल्याणप्राकट्यकारकस्वीकृतक्रोधाभासेन संवर्तिते ईक्षणे यस्य स महाबाहुः रामः तस्मिन् वायसे वायसकल्याणार्थं क्रूरां भयकारिणीं कठिनामनिवार्थामित्यर्थो वा मतिं कृतवान् क्रूरौ कठिनभीषणावित्यनेकार्थः ॥ [स इति । स रामः दर्भसंस्तरात् दर्भमयास्तरणात् गृह्य गृहीत्वा एकं दर्भमिति शेषः । ब्रह्मणो ऽस्त्रेण अस्त्रत्वसंपादकेन दृष्टिविशेषादिना अयोजयत् स योजितो दर्भः द्विजं वायसमभिमुखः सन् कालाग्निरिव जज्वाल] ॥ ५।३८।२९ ॥

स इति । स रामः वायसं प्रति दर्भं चिक्षेप । ततो ऽनन्तरं स दर्भः वायसमुद्दिश्य अम्बरे ऽनुजगाम ॥ ५।३८।३० ॥

अनुसृष्ट इति । अनुसृष्टः बाणेनानुगतः अत एव त्राणकामः काकः विविधां गतिम् आश्रयं जगाम चिन्तयामास । अत एव सर्वं लोकं विचचार ॥ ५।३८।३१ ॥

स इति । सः स्पपित्रादिसमीपं गतः पित्रा महर्षिभिश्च परित्यक्तः रामबाणभिया अरक्षितः वायसः शरणं सर्वरक्षकं रामं गतः प्राप्तः ॥ ५।३८।३२ ॥

स इति । शरण्यः शरणहितः स रामः शरणागतम् अत एव भूमौ पतितं वधार्हमपि तं वायसं कृपया पर्यपालयत् सीताङ्गस्पर्शमात्रेण तत्कल्याणप्रकटनमपहाय कोपप्रकटनद्वारा किमर्थं कृतमिति तु न भ्रमितव्यं प्रार्थनयैव परमकल्याणं क्रियत इति स्वाभाविकपरमात्मरीतेः । करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् । अप्रार्थितो न गोपायेत् इति तत्प्रार्थनामतिरिति पुराणम् ॥ ५।३८।३३ ॥

परिद्यूनमिति । परिद्यूनं क्षीणसामर्थ्यम् अत एव विवर्णं विकृतवर्णविशिष्टं पतमानं तं वायसं ब्राह्ममस्त्रं मोघं सर्वथा मिथ्या कर्तुं न शक्यं तत्तस्माद्धेतोः उच्यतां तन्मिथ्यात्वाभावोपायः कथ्यतामिति रामो ऽब्रवीत् ॥ ५।३८।३४ ॥

तत इति । ततो ऽनन्तरं तस्य अपराधिनः काकस्य मम दक्षिणमक्षि स शरः अस्त्रं हिनस्तिस्म इति दक्षिणं नेत्रं दत्वा अस्त्रायेति शेषः । प्राणेभ्यः परिरक्षितः । एतेन ममाक्षि गृह्यतमिति तत्प्रार्थना सूचिता ॥ ५।३८।३५ ॥

स इति । तेन रामेण विसृष्टः त्यक्तः स वायसः रामाय नमस्कृत्वा स्वः स्वर्गे दशरथाय दशरथमनुकूलयितुं नमस्कृत्वा स्वमालयं प्रतिपेदे । दशरथाय नमस्कत्वेत्यनेन पलायनसमये दशरथोपदेशादेव रामशरणमागत इति ध्वनितं तेन तस्मिन्काले आखेटाद्यन्यतमार्थं तस्यापि साकेतात्त्रिलोकीमध्ये आगमनं जातमिति ध्वनितम् । तेन शक्रादिभिरयमुपदेशो न कृत इति ध्वनितं तेन दशरथस्य सार्वकालिकयाथार्थ्यज्ञानवत्वेन व्यतिरेकालंकारो ध्वनितः । तेन शरणागतरक्षकत्वस्य परंपरयास्मिन्नपि सिद्धत्वमिति सूचितं परंपरया रक्षकत्वं त्वस्मिन्मर्यादापालनायेति बोध्यम् ॥ ५।३८।३६ ॥

मदिति । मत्कृते मत्परितोषार्थं काकमात्रे निखिलकाके ब्रह्मास्त्रं ब्रह्मास्त्रनिष्पाद्यत्वं दक्षिणाक्षिहीनत्वमित्यर्थः । येन त्वया समुदीरितं प्रापितं स त्वं त्वत्तो यो प्रां हरत् अहरत् तं कस्मात् क्षमसे ॥ ५।३८।३७ ॥

स इति । सः सदा मत्परतोषकस्त्वं महोत्साही अत्युत्साहविशिष्टां मयि कृपां कुरुष्व । तत्र हेतुः त्वयैव नाथवती अनाथा इव दृश्यते मम तनुरिति शेषः ॥ ५।३८।३८ ॥

ननु तव रक्षणे मम न किंचित्प्रयोजनमित्यतः आह आनृशंस्यमिति । आनृशंस्यमिति । आनृशंस्यं निर्हेतुककृपापरो धर्मः इति त्वत्त एव मया श्रुतम् । एतेन प्रयोजनाभावे ऽपि स्वकृपया पालयेति सूचितम् । ननु बलवन्तो राक्षसाः मया कथं निरसनीयाः इत्यत आह महावीर्यत्वादिविशिष्टम् अपारवारं पारवाररहितं स्वतेजसा सर्वत्र परिपूर्णमित्यर्थः । गाम्भीर्याद्धेतोः सागरोपमं ससमुद्रायाः धरण्याः निखिलब्रह्माण्डभूमेः भर्तारम् अत एव वासवः इन्द्र उपमा यस्य तं त्वामहं जानामि अर्धचतुष्टमेकान्वयि ॥ ५।३८।३९,४० ॥

एवमिति । हे राघव रक्षस्सु अस्त्रं किमर्थं न मोचयसि ॥ ५।३८।४१ ॥

नेति । नागादयः समरे रामस्य वेगं प्रतिसमीहितुं निरोद्धुं न शक्ताः ॥ ५।३८।४२ ॥

तस्येति । वीर्यवतः तस्य रामस्य यदि मयि संभ्रमः आदरः तर्हि राक्षसान् क्षयं कुतो न नयति प्रापयति संभ्रमं त्रयमिच्छन्ति भयमुद्वेगमादरम्, इति कोशः ॥ ५।३८।४३ ॥

भ्रातुरिति । भ्रातुरादेशमाज्ञामादाय लक्ष्मण एव कस्य हेतोर्न परित्राति ॥ ५।३८।४४ ॥

यदीति । पुरुषव्याघ्रौ तौ रामलक्ष्मणौ यदि सुराणामपि दुर्धषौ तर्हि मां किमर्थमुपेक्षतः ॥ ५।३८।४५ ॥

ममेति । समर्थौ अपि यद्यस्मात् मां नावेक्षेते अतः ममैव किञ्चिद्दुष्कृतमस्ति अत्र संशयो न ॥ ५।३८।४६ ॥

वैदेह्या इति । वैदेह्या वचनं श्रुत्वा हनूमान् अब्रवीत् ॥ ५।३८।४७ ॥

तद्वचनाकारमाह त्वदिति । हे देवि हे सत्ये सत्यवादिनि रामः त्वच्छोकविमुखस्त्वच्छोकेन रामे दुःखाभिपन्ने सति लक्ष्मणः परितप्यते ते तुभ्यं शपे । अत्र विश्वासार्थे शपथं करोमि ॥ ५।३८।४८ ॥

कथञ्चिदिति । यस्मात् कथञ्चित् भवती दृष्टा मयेति शेषः । अतः इमं मुहूर्तम् आरभ्येति शेषः । दुःखानामन्तं द्रक्ष्यसि । किंच दुःखानामन्तं विध्वंसकमिममागामिनं मुहूर्तं द्रक्ष्यसि अतः परिशोचितुं कालः समयो न ॥ ५।३८।४९ ॥

ताविति । तौ रामलक्ष्मणौ लोकान् राक्षसजनान् भस्मीकरिष्यतः ॥ ५।३८।५० ॥

हत्वेति । राघवः रावणं हत्वा त्वां स्वां पुरीं प्रति नेष्यति ॥ ५।३८।५१ ॥

ब्रूहीति । राघवप्रभृतिः यद्वाच्यः तत् समागताः रामसमीपं प्राप्ताः हरयश्च यद्वाच्याः तच्च त्वं ब्रूहि ॥ ५।३८।५२ ॥

इतीति । तस्मिन् हनुमति इति उक्तवति सति सीता ऽब्रवीत् अर्द्धं पृथक् । तद्वचनकारमाह कौशल्येत्यादिभिः । कौशल्या यं सुषुवे तं ममार्थे उद्युक्तमिति शेषः । रामं सुखं पृच्छ अभिवादय च ॥ ५।३८।५३ ॥

स्रज इति । स्रजः विचित्रमालाः प्रियाः अतिप्रीतिविषयभूताः याः वराङ्गनास्ताश्च विशालायां विस्तीर्णायां पृथिव्याम् अपिशब्देन स्वर्गे ऽपि दुर्लभमैश्वर्यं च अनुत्तमं सुखं च त्यक्त्वा पितरं मातरं च संमान्य सत्कृत्य अभिप्रसाद्य च यो राममनुप्रवजितः मात्रा प्रस्थापितः येन सुमित्रा सुप्रजा शोभनपुत्रवती काकुत्स्थं भ्रातरं पालयन् सन् आनुकूल्येन यो ऽनुगच्छति ॥ ५।३८।५४५७ ॥

यः मां मातृवत् समाचरन् सन् रामे पितृवद्वर्तते ॥ ५।३८।५८ ॥

यः ह्रियमाणां मां तदा हरणकाले न वेद शक्तः समर्थो ऽपि यो बहुभाषिता नित्यं न ॥ ५।३८।५९ ॥

मे श्वशुरस्य सदृशः यः रामस्य प्रियतरो भ्राता अत एव मत्तः ममापि प्रियः अतिप्रीतिविषयीभूतः ॥ ५।३८।६० ॥

यस्यां धुरि सेवारूपकार्ये नियुक्तः तां नित्यमुद्वहति यं दृष्ट्वा वृत्तं पितृनिर्याणादि नैव अनुस्मरत् अन्वस्मरत् ॥ ५।३८।६१ ॥

सलक्ष्मणः ममार्थाय यथा दुःखक्षयकरो भवेत् तथा कुशलं वक्तव्यः । सार्धाष्टकमेकान्वयि ॥ ५।३८।६२ ॥

त्वमिति । हे हरियूथप त्वत्समारभ्मात् त्वदुत्साहनात् राघवः मयि यत्नपरो भवेत् अतः अस्मिन् कार्यनिर्वाहे कार्यसाधने त्वमेव प्रमाणम् ॥ ५।३८।६३ ॥

इदमिति । हे दशरथात्मज मासम् अवधिभूतमासपर्यन्तं जीवितं धारयिष्यामि मासात् ऊर्ध्वं न जीवेयम् इति सत्येन सत्यं ते अहं ब्रवीमि इदं मम वचः मे नाथं रामं त्वं ब्रूयाः सार्धश्लोक एकान्वयी ॥ ५।३८।६४ ॥

रावणेनेति । पापकर्मणा रावणेनोपरुद्धाम् अत एव निकृत्या राक्षसीकृतपीडयोपलक्षितां मां त्रातुमर्हसि । तत्र दृष्टान्तः पातालात् उद्धृतां कौशिकीं कौशिकगोत्रपृथ्वीमिव यथा वराहः पृथिवीं ररक्ष तथेत्यर्थः ॥ ५।३८।६५ ॥

तत इति । ततो ऽनन्तरं वस्रगतं दिव्यं चूडामणिं शिरोरत्नं मुक्त्वा उन्मुच्य राघवाय प्रदेय इत्युक्त्वेति शेषः । हनुमते ददौ ॥ ५।३८।६६ ॥

प्रतीति । वीरो हनूमान् मणिरत्नं प्रतिगृह्य अङ्गुल्या योजयामास । तद्गतच्छिद्रे अङ्गुलिं प्रवेशयामासेत्यर्थः । ननु हनुमद्रूपस्य सुसूक्ष्मत्वात् भुजेनैव कुतो न धृतवानित्यत आह अस्य हनुमतो भुजो न प्राभवत् तच्छिद्रप्रवेशार्हो नाभवदित्यर्थः ॥ ५।३८।६७ ॥

मणीति । कपिवरो हनूमान् प्रणतः सन् पार्श्वतः पार्श्वे स्थितः ॥ ५।३८।६८ ॥

हर्षेणेति । सीतादर्शनजेन हर्षेण युक्तो हनूमान् हृदयेन मनसा रामं गतः प्राप्तः ॥ ५।३८।६९ ॥

मणीति । जनकनृपात्मजया धृतं वस्त्रे बद्धं प्रभावात् अतिसामर्थ्यात् हेतोर्महार्हमतिपूज्यं मणिवरमुपगृह्य गिरिवरपवनेन शैलश्रेष्ठोर्ध्वभागसंबन्धिवातेन अवधूतः कम्पितः मुक्तः पश्चादवधूतिरहित इव सुखितमनाः महावातस्थानीयसीतादर्शनाभावनिवृत्त्या प्राप्तानन्दो हनूमान् प्रतिसंक्रमं निर्गमं प्रपेदे प्रारभत । मुक्तान्तशब्दः आचारक्विबन्तप्रकृतिकर्तृक्विबन्तो लाक्षणिको वा ॥ ५।३८।७० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे अष्टात्रिंशः सर्गः ॥ ५।३८ ॥