हनूमन्तं प्रति सीतोक्तिमाह सेत्यादिभिः । सीता वचनं हनुमद्वाक्यं श्रुत्वा हनूमन्तमुवाच । तदाकारमाह अमृतमित्यादिभिः । हे वानर अन्यमना रामो नेति यत् शोकपरायणो ऽस्तीति यच्च त्वयाभिमाषितं तत् विषसंपृक्तं विषेण संमिश्रम् अमृतं प्रतीयते इति शेषः ॥ ५।३७।१,२ ॥
इदानीं रावणस्य अत्यैश्वर्यवत्त्वे ऽपि विध्वंसो भविष्यतीति बोधयन्ती आह ऐश्वर्य इति । ऐश्वर्ये व्यसने वा विद्यमानं पुरुषं रज्ज्वा बद्ध्वैव कृतान्तः कालः परिकर्षति । ताभ्यामन्यत्र करोतीत्यर्थः । एतेन रावणविध्वंसो ऽवश्यं भवितेति सूचितम् ॥ ५।३७।३ ॥
विधिरिति । विधिः परमात्मनियोगः प्राणिनाम् असंहार्यः अपरिहरणीयः अत एव सौमित्रिप्रभृतीन् व्यसनैः वियोगदुःखैः मोहितान् पश्य ॥ ५।३७।४ ॥
शोकस्येति । सागरे हता विनष्टा नौर्यस्य अत एव प्लवमानः बाहुभ्यां संतरन् परिक्रान्तः अतिपराक्रमवान् पुरुष इव शोकस्य सागरे प्लवमानो राघवः शोकस्य पारं कदा अधिगमिष्यति ॥ ५।३७।५ ॥
राक्षसानामिति । पतिः रामः मां कदा द्रक्ष्यति ॥ ५।३७।६ ॥
स इति । संवत्सरः द्वादशमासात्मको ऽयं कालः यावन्न पूर्यते तावदेव मम जीवितम् अतः संत्वरस्वेति स रामः त्वया वाच्यः ॥ ५।३७।७ ॥
अवशिष्टमासं बोधयन्ती आह वर्तत इति । रावणेन यः समयो मम समीपे कृतः तस्य दशमो मासो वर्तते द्वौ तु शेषौ वर्तेते ॥ ५।३७।८ ॥
विभीषणेनेति । भ्रात्रा विभीषणेन मम निर्यातनं मत्कर्मकरामोद्देश्यकसमर्षणं प्रति अनुनीतः प्रार्थितो ऽपि स रावणः तत् तत्र मतिं न कुरुते ॥ ५।३७।९ ॥
ममेति । कालवशं गतं रावणं संख्ये संग्रामे मृत्युर्मार्गते अत एव रावणस्य मम प्रतिपदानं न रोचते ॥ ५।३७।१० ॥
नन्वेतत्त्वया कथं ज्ञातमित्यत आह ज्येष्ठेति । विभीषणसुता विभीषणादुत्पन्ना अनला नाम ज्येष्ठा कन्या ऽस्तीति शेषः । मात्रा अभिहितया कथितया तया अनलया मम समीपे एतत् स्वयमाख्यातं कथितम् ॥ ५।३७।११ ॥
अविन्ध्य इति । रावणस्य सुसंमतः मेघावित्वादिविशिष्टः अविन्ध्यो नाम राक्षसः रामात् रक्षसां प्राप्तं क्षयं प्रत्यचोदयत् अकथयत् । एतेन सीतां रामाय समर्पयेति तेन प्रार्थितमिति सूचितम् । सुदुष्टात्मा रावणस्तु हितं तस्य वचनं न शृणोति । श्लोकद्वयमेकान्वयि ॥ ५।३७।१२,१३ ॥
आशंसेयमिति । हि यतः मे अन्तरात्मा शुद्धः तस्मिन् रामे च बहवो गुणाः अतः पतिः रामः क्षिप्रं संप्राप्स्यते ॥ ५।३७।१४ ॥
गुणानेवाह उत्साह इति । उत्साहादयः राघवे सन्ति ॥ ५।३७।१५ ॥
चतुर्दशेति । यः भ्रात्रा विना राक्षसानां चतुर्दश सहस्राणि जघान तस्य समरे को न उद्विजेत् संचलेत् ॥ ५।३७।१६ ॥
नेति । स रामः व्यसनैः व्यसनप्रापकराक्षसैः तुलयितुं तोलयितुं न शक्यः शक्रस्य पुलोमजेव तस्य रामस्य अनुभावज्ञाहमस्मि ॥ ५।३७।१७ ॥
शरेति । हे कपे शरजालांशुमान् शरसमूहरूपकिरणविशिष्टः रामदिवाकरः रामसूर्यः शत्रुरक्षोमयं शत्रुरूपाराक्षसप्रचुरं तोयम् उपशोषं नयिष्यति नेष्यति प्रापयिष्यति ॥ ५।३७।१८ ॥
इतीति । इति संजल्पमानां तां सीतां हनूमान् उवाच ॥ ५।३७।१९ ॥
तदाकारमाह– श्रुत्वेति । मह्यं मम वचः क्षुत्वैव राघवः क्षिप्रमेष्यति ॥ ५।३७।२० ॥
पक्षान्तरमाह– अथवेति । हे अनिन्दिते मम पृष्ठम् उपारोह अतः सराक्षसात् राक्षससहितात् अस्मात् दुःखात् अद्यैव मोचयिष्यामि । किंच सो ऽहं राक्षसात् राक्षसजन्यात् दुःखात् मोचयिष्यामि ॥ ५।३७।२१ ॥
ननु पृष्ठारोहणमात्रेण कथं दुःखापगमो भविष्यतीत्यत आह त्वामिति । सरावणां रावणसहितां लङ्कां वोढुं हि यतो मे शक्तिरस्ति अतः पृष्ठगतां त्वां कृत्वा सागरं संतरिष्यामि ॥ ५।३७।२२ ॥
अहमिति । प्रस्रवणस्थाय राघवाय त्वामिति शेषः । शक्राय हुतं हव्यमनल इव प्रापयिष्यामि ॥ ५।३७।२३ ॥
द्रक्ष्यसीति । दैत्यवधे व्यवसायसगायुक्तमुत्साहसहितं विष्णुमिव त्वद्दर्शने कृतः उत्साहो येन तं गिरिराजस्य मूर्धनि आसीनं पुरन्दरमिव आश्रमस्थं रागवमद्यैव द्रक्ष्यसि । श्लोकद्वयमेकान्वयि ॥ ५।३७।२४,२५ ॥
पृष्ठमिति । हे देवि शशाङ्केन रोहिणी इव रामेण योगमन्विच्छ निश्चिनु । अत एव पृष्ठमारोह मा विकाङ्क्षस्व औदासीन्यं नोत्पादय ॥ ५।३७।२६ ॥
पौलोमीति । मत्पृष्ठमधिरोह अत एव महार्णवमिवाकाशं तर ॥ ५।३७।२७ ॥
नहीति । इतस्त्वां नयतो मे गतिमनुगन्तुं सर्वे लङ्कानिवासिनो न शक्ताः ॥ ५।३७।२८ ॥
यथेति । यथाहम् इह प्राप्तस्तथैव त्वामुद्यम्य स्वपृष्ठे संस्थाप्य विहायसं यास्यामि ॥ ५।३७।२९ ॥
मैथिलीति । अद्भुतं वचनं श्रुत्वा हर्षविस्मितसर्वाङ्गी मैथिली हनूमन्तमब्रीत् ॥ ५।३७।३० ॥
तदाकारमाह– हनूमन्निति । हे हनूमन् दूरमध्वानं वोढुं मां कथमिच्चसि इच्छा न युक्तेत्यर्थः । तत्र हेतुः यतः तत्प्रसिद्धं कपित्वं कपिसामर्थ्यं लघु मन्ये ॥ ५।३७।३१ ॥
कथमिति । अल्पशरीरस्त्वं मां नेतुं कथमिच्छसि ॥ ५।३७।३२ ॥
सीताया इति । सीतायाः वचनं श्रुत्वा कृतं सीतया संपादितं नवं प्रथमं परिभवं स्वानादरं ज्ञात्वेति शेषः । चिन्तयामास ॥ ५।३७।३३ ॥
तदाकारमाह नेति । मे सत्वं बलं प्रभावं च वैदेही न जानाति तस्माद्धेतोः मम यद्रूपं तत् कामतः स्वेच्छया पश्यतु ॥ ५।३७।३४ ॥
इतीति । प्लवगसत्तमो हनुमान् इति संचिन्य वैदेह्या वैदेह्यै स्वरूपं दर्शयामास ॥ ५।३७।३५ ॥
स इति । स हनूमान् तस्याः प्रत्ययकारणात् प्रतीतिहेतोः पादपात् आप्लुत्य वर्धितुमारेभे ॥ ५।३७।३६ ॥
मेर्विति । वानर्षभो हनूमान् मेरुमन्दरसंकाशः सन् बभौ सीताया अग्रतो ऽग्रे व्यवतस्थे च ॥ ५।३७।३७ ॥
हरिरिति । वज्रवत् दंष्ट्रा नखानि यस्य स हनूमान् वैदेहीमिदमब्रवीत् ॥ ५।३७।३८ ॥
तद्वचनाकारमाह– सेत्यादिभिः । सनाथां रावणसहितामिमां लङ्कां नयितुं मे शक्तिरस्ति ॥ ५।३७।३९ ॥
तदिति । तत् मम सामर्थ्यसत्त्वात् हेतोः बुद्धिर्निश्चयः अवस्थाप्यतां विकाङ्क्षया उपेक्षया अलं न कर्तव्यमित्यर्थः । अत एव राघवं विशोकं कुरु ॥ ५।३७।४० ॥
तमिति । अचलसंकाशं तं हनूमन्तं दृष्ट्वा जनकात्मजोवाच ॥ ५।३७।४१ ॥
तदाकारमाह तवेति । तव सत्त्वाद्यहं विजानामि ॥ ५।३७।४२ ॥
प्राकृत इति । उदधेः पारम् इमां भूमिं लङ्कां च अन्यः त्वद्भिन्नः क आगन्तुमर्हति ॥ ५।३७।४३ ॥
जानामीति । गमने समुद्रलङ्घने मम नयने च ते शक्तिं जानामि तथापि आत्मनः कार्यसिद्धिः अवश्यं संप्रधार्या विचारणीया ॥ ५।३७।४४ ॥
अयुक्तमिति । हे कपिश्रेष्ठ त्वया सह मया गन्तुमयुक्तम् । तत्र हेतुः वायुवेगवत् सवेगस्य वेगत्वसहितस्य तव वेगः मां मोहयेत् वैचित्यं प्रापयेत् ॥ ५।३७।४५ ॥
अहमिति । सागरमुपर्युपरि आकाशमासक्ता ऽहं भूयो वेगेन गच्छतस्तव पृष्ठात् प्रपतेयम् ॥ ५।३७।४६ ॥
पतितेति । सागरे पतिता ऽहं विवशा सती यादसां जलजन्तूनामन्नमाशु भवेयम् ॥ ५।३७।४७ ॥
नेति । कलत्रवति स्त्रीसहिते त्वयि संदेहः गमनसंशयः स्यात् अतः त्वया सार्धं गन्तुमहं न शक्ष्ये ॥ ५।३७।४८ ॥
संशये कारणमाह ह्रियमाणामिति । ह्रियमाणां मां दृष्ट्वा रावणेन आदिष्टा राक्षसा अनुगच्छेयुः ॥ ५।३७।४९ ॥
तैरिति । तैः राक्षसैः परिवृत्तः मया कलत्रवाँस्त्वं संशयं प्राप्तो भवेः ॥ ५।३७।५० ॥
सायुधा इति । राक्षसाः सायुधाः त्वं तु निरायुधः अतः संपातुं मां परिरक्षितुं च कथं शक्ष्यसि ॥ ५।३७।५१ ॥
युध्यमानस्येति । रक्षोभिः युध्यमानस्य ते पृष्ठात् प्रपतेयम् ॥ ५।३७।५२ ॥
अथेति । संपराये युद्धे अथ यदि रक्षांसि कथंचित् त्वां जयेयुः तदा पापराक्षसा मां नयेयुः अथवा यदि युध्यमानस्य अत एव विमुखस्य मदुपरि दृष्टिहितस्य ते समीपे पतेयं पतितां मां नयेयुश्च । श्लोकद्वयमेकान्वयि ॥ ५।३७।५३,५४ ॥
मामिति । जयपराजयौ अनवस्थौ अनिश्चितौ दृश्येते अस्य जयः पराजयो वा इत्यत्र निश्चयाभाव इत्यर्थः । अतः वा तव जयाभावपक्षे संक्रुद्धाः राक्षसाः मां हरेयुर्विशसेयुर्हिंस्युर्वा ॥ ५।३७।५५ ॥
अहमिति । यद्यपि सर्वराक्षसान्निहन्तुं त्वं पर्याप्तो ऽसि त्वया शस्तैर्हिंसितैः राक्षसैः राघवस्य यशो ऽपि अहीयेत् न हीयेत् । तथापि रक्षोभिरभितर्जिता ऽहं वा यदि विपद्येयं तदा त्वत्प्रयत्नः निष्फल एव भवेत् । श्लोकद्वयमेकान्वयि ॥ ५।३७।५६,५७ ॥
अथवेति । अथवा यदि यत्र हरयो राघवश्च मां न जानीयुः तत्र संवृते आच्छादिते स्थले मामादाय रक्षांसि न्यसेयुः तदा मदर्थो ऽयं तवारम्भः प्रयत्नः निरर्थकः स्यादिति शेषः । अतः त्वया सह रामस्यागमने एव महान् गुणः । श्लोकद्वयमेकान्वयि ॥ ५।३७।५८,५९ ॥
स्वलाभाभावे दोषान्तरमाह– मयीति । राघवादेः जीवितं मयि आयत्तं मल्लाभाधीनमित्यर्थः, अतः मदर्थं शोकसंतापकर्षितौ तौ रामलक्ष्मणौ सर्वर्क्षहरिभिः सह प्राणसंग्रहं प्राणानां रक्षणं त्यक्ष्यतः । श्लोकद्वयमेकान्वयि ॥ ५।३७।६०,६१ ॥
हनुमता सह गमनाभावे मुख्यं हेतुमाह– भर्तुरिति । स्वतः स्वेच्छया रामाज्ञां विनेत्यर्थः, रामादन्यस्य गात्रं स्प्रष्टुं नेच्छेयम् ॥ ५।३७।६२ ॥
यदिति । रावणस्य गात्रसंस्पर्शं बलात् हठात् यदहं गता तत् अनाथा नाथरहिता अत एव अनीशा सामर्थ्यरहिता ऽहं किं करिष्यामि ॥ ५।३७।६३ ॥
यदीति । रामः यदि दशग्रीवं हत्वा मां गृह्य गृहीत्वा गच्छेत् तत् तस्य रामस्य सदृशं भवेत् ॥ ५।३७।६४ ॥
रामस्य ध्रुवं विजयो भविष्यतीति बोधयन्ती आह– श्रुता इति । यैः पराक्रमैः देवादयः रामेण समा न ते पराक्रमाः मया श्रुता दृष्टा निश्चिताश्च ॥ ५।३७।६५ ॥
समीक्ष्येति । अनिलेरितं दीप्तं हुताशनमिव राघवं समीक्ष्य को विषहेत् ॥ ५।३७।६६ ॥
सेति । हे वानरमुख्य आजौ संग्रामे मर्दयति रिपून् विनाशयति तं दिशागजमिव व्यवस्थितं युगान्तसूर्यप्रतिमं शराः अर्चिषि यस्य तं रामं संयुगे संग्रामे कः सहेत ॥ ५।३७।६७ ॥
स इति । हे कपिश्रेष्ठ सयूथपं यूथपतिसुग्रीवसहितं मे प्रियं क्षिप्रमिह उपपादय प्रापय अत एव चिराय बहुकालं रामं प्रति शोककर्षितां मां हर्षितां कुरुष्व ॥ ५।३७।६८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ५।३७ ॥