०३६ हनुमता सीतायाः रामाङ्गुलीयकदर्शनम्

सीतां प्रति हनुमत उक्त्यन्तरमाह भूय इति । पवनात्मजो हनूमान् सीताप्रत्ययकारणात् सीतायाः विश्वासहेतोः भूयो ऽब्रवीत् ॥ ५।३६।१ ॥

तद्वचनाकारमाह वानर इत्यादिभिः । हे देवि अहं रामस्य दूतः इत्यवेहीति शेषः । तव प्रत्ययार्थमानीतं तेन रामेण दत्तमिदमङ्गुलीयकं पश्य च अत एव क्षीणः दुःखफलः दुःखफलकः समयो यस्याः सा त्वमसि अत एव समाश्वसिहि । श्लोकद्वयमेकान्वयि ॥ ५।३६।२,३ ॥

गृहीत्वेति । भर्तुः करविभूषणं गृहीत्वा भर्तारं संप्राप्तेव जानकी मुदिता ऽभवत् ॥ ५।३६।४ ॥

चार्विति । राहुमुक्त उडुराडिव तस्याः वदनं हर्षोदग्रम् अतिहर्षितं बभूव ॥ ५।३६।५ ॥

तत इति । ततो ऽनन्तरं भर्तुः संदेशहर्षिता सा सीता महाकपिं प्रियं प्रीतिविषयीभूतं कृत्वा प्रशसंस ॥ ५।३६।६ ॥

प्रशंसाकारमाह विक्रान्त इति । येन हेतुना एकेन त्वया राक्षसपदं प्रधर्षितं तेन हेतुना ऽविक्रान्तत्वादिविशिष्टस्त्वं मया ऽबोधीति शेषः ॥ ५।३६।७ ॥

शतेति । विक्रमः श्लाघनीयो यस्य तेन क्रमता त्वया शतयोजनविस्तीर्णः सागरः गोष्पदीकृतः ॥ ५।३६।८ ॥

नेति । यस्य ते रावणादपि संत्रासः संभ्रमश्च नास्ति तं त्वां प्राकृतं न मन्ये ॥ ५।३६।९ ॥

अर्हसे इति । यदि रामेण प्रेषितस्त्वमसि तर्हि मया समभिभाषितुमर्हसे ॥ ५।३६।१० ॥

प्रेषयिष्यतीति । दुर्धर्षो रामः विशेषतः विशेषं पराक्रममविज्ञाय अपरीक्षितं परीक्षारहितं दूतं मत्सकाशं न प्रेषयिष्यति ॥ ५।३६।११ ॥

दिष्ट्येति । कुशली कुशलविशिष्टः ॥ ५।३६।१२ ॥

कुशलीति । यदि काकुत्स्थः कुशली तर्हि कोपेन ज्ञातपृथिव्यपारधजनितक्रोधेन महीं किं नु न दहति दहत्येवेत्यर्थः । एतेन एवं शक्तिसत्त्वे रावणं कुतो न निहन्तीति सूचितम् । किं च कोपेन रावणापराधज्ञानजनितक्रोधेन महीं लङ्काभूमिं किं नु दहति ॥ ५।३६।१३ ॥

तत्र हेतुमुपलभ्य पक्षान्तरमाह अथवेति । सुराणामपि निग्रहे शक्तिमन्तौ तौ रामलक्ष्मणौ स्त एव तथापि मम दुःखानां विपर्ययो विनाशकालो नैवास्तीत्यहं मन्ये ॥ ५।३६।१४ ॥

कच्चिदिति । रामः कच्चिन्न व्यथते कच्चिन्न परितप्यते वा अत एव कार्याणि कर्तव्याणि उत्तराणि दुःखोत्तारकाणि प्रयतनानि कुरुते ॥ ५।३६।१५ ॥

कच्चिदिति । कच्चिन्न दीनः संभ्रान्तो वा न अत एव कच्चिन्न मुह्यति अत एव पुरुषकार्याणि पुरुषेण कर्तव्यानि कुरुते ॥ ५।३६।१६ ॥

द्विविधमिति । मित्रेषु चकारेण अमित्रेषु च सुहृदपि रामः विजिगीषुः सन् द्विविधं द्वौ ऐहिकामुष्मिकपालनधर्मौ विदधाति पालयति तं विविधोपायं त्रयाणां ब्रह्मविष्णुमहेश्वराणां विधाय तत्प्रार्थितनिष्पादकत्वेन पोषणाय उपायं यत्नम् उपायं झटिति मङ्गलप्रापकं यथा भवति तथा सेवते कुरुते कच्चित् ॥ ५।३६।१७ ॥

कच्चिदिति । कल्याणं मित्रं यस्य सः अत एव मित्रैः पुरस्कृतः स रामः मित्राणि लभते कच्चित् अमित्रैः रिपुभि अभिगम्यते पराभूतिमूलकशरणप्रार्थनया प्राप्यते कच्चित् ॥ ५।३६।१८ ॥

कच्चिदिति । देवानां प्रसादं तद्रिपुवधजनिततत्प्रसन्नतामाशास्ति आशास्ते इच्छति दैवं देवसंबन्धि पुरुषस्य पुरुषार्थस्य कारं विध्वंसं प्रतिपद्यते स्मृतिविषयत्वेन प्राप्नोति स्मरतीत्यर्थः ॥ ५।३६।१९ ॥

कच्चिदिति । विवासात् हेतोः राघवः मयि विगतस्नेहो न कच्चित् अस्माद्व्यसानात् दुःखहेतुभूतनिरोधान्मोचयिष्यति ॥ ५।३६।२० ॥

सुखानामिति । उचितो योग्यः अनूचितः अनुचितः अनर्हः रामः उत्तरं परं दुःखमासाद्य सीदति न कच्चित् ॥ ५।३६।२१ ॥

कौशल्याया इति । कौशल्यादेः कुशलं श्रूयते कच्चित् रामेणेति शेषः ॥ ५।३६।२२ ॥

मदिति । मन्निमित्तेन शोकेनोपलक्षितः कच्चित् अत एव अन्यमना न कच्चित् ॥ ५।३६।२३ ॥

कच्चिदिति । मत्कृते मन्मोचनार्थम् ॥ ५।३६।२४ ॥

वानरेति । सुग्रीवः कच्चिदेष्यति ॥ ५।३६।२५ ॥

कच्चिदिति । लक्ष्मणो राक्षसान् विधमिष्यति ॥ ५।३६।२६ ॥

रौद्रेणेति । रामेण निहतं रावणमल्पेन कालेन द्रक्ष्यामि कच्चित् ॥ ५।३६।२७ ॥

कच्चिदिति । तस्य रामस्याननं मया विना वातेन पद्ममिव न शुष्यति कच्चित् ॥ ५।३६।२८ ॥

धर्मेति । धर्मापदेशात् धर्मपालनार्थं स्व राज्यं त्यजतः अत एव मामप्यरण्यं नयतः यस्य भीः शोकश्च नासीत् स धैर्यं करोति कच्चित् ॥ ५।३६।२९ ॥

नेति । अस्य रामस्य स्नेहाद्धेतोः मया समः सदृशः विशिष्टः अधिको वा मात्रादिर्नास्ति अतः प्रियस्य रामस्य प्रवृत्तिं वार्तां यावत् शृणुयां तावत् जिजीविषेयं जीवितुमिच्छेयम् ॥ ५।३६।३० ॥

इतीवेति । देवी सीता इतीव वचनमुक्त्वा रामार्थयुक्तं तस्य हनुमतो वचः श्रोतुं रामा सीता विरराम ॥ ५।३६।३१ ॥

सीताया इति । मारुतिः सीताया वचनं श्रुत्वा अञ्जलिं शिरसि आधाय उत्तरं श्रेष्ठं वाक्यमब्रवीत् ॥ ५।३६।३२ ॥

तदाकारमाह नेत्यादिभिः । इहस्थां त्वां रामो न जानीते तेन हेतुना शचीं पुरन्दर इव त्वामाशु नानयति ॥ ५।३६।३३ ॥

श्रुत्वेति । मह्यं मम । मह्यं मम वचः श्रुत्वैव राघव एष्यति ॥ ५।३६।३४ ॥

विष्टम्भयित्वेति । वरुणालयं समुद्रं विष्टम्भयित्वा विष्टभ्य संस्तभ्य सेतुं बद्ध्वेत्यर्थः । लङ्कां बाणौघैः शान्तराक्षसां करिष्यति ॥ ५।३६।३५ ॥

तत्रेति । तत्र लङ्काविध्वंसनसमये पथि अन्तरा मार्गमध्ये मृत्युः सुरादयो वा यदि स्थास्यन्ति विघ्नकारित्वेनेति शेषः । तदा स रामस्तानपि वधिष्यति ॥ ५।३६।३६ ॥

तवेति । शोकेन परिपूरितो रामः शर्म न लभते ॥ ५।३६।३७ ॥

अत्र दृढविश्वासार्थमाह मन्दरेणेति ॥ ५।३६।३८ ॥

बिम्बावोष्ठौ यस्मिन् तत् रामस्य मुखं यथावत् द्रक्ष्यसि मन्दरादिना शपे अस्मिन् विषये शपथं करोमि । श्लोकद्वयमेकान्वयि ॥ ५।३६।३९ ॥

क्षिप्रमिति । नागा गजा पृष्ठे पार्श्वे इत्यर्थः । यस्य तस्य ऐरावतस्य मूर्धनि आसीनं शतक्रतुमिव प्रस्रवणे गिरौ आसीनं रामं क्षिप्रं द्रक्ष्यसि द्रुतमागमिष्यतीत्यर्थः ॥ ५।३६।४० ॥

नेति । राघवः मांसं सुग्रीवसंसर्गेण वने ऽपि प्राप्तराज्यभोगं न भुङ्क्ते करोति अत एव मधु क्षौद्रं न सेवते किंतु सुविहितं ब्रह्मचर्यविधावुक्तं वन्यं फलादिरूपमन्नं पञ्चमं पूर्वभोज्यापेक्षया पञ्चममश्नाति पञ्चमं कालं सायाह्नं प्राप्येति शेष इति भट्टाः ॥ ५।३६।४१ ॥

नेति । अन्तरात्मना मनसा त्वद्गतेन हेतुना दंशादीन् गात्रान्नापनयेत् अपनयति ॥ ५।३६।४२ ॥

नित्यमिति । कामवशं त्वद्विषयकोत्कटेच्छाधीनत्वं गतः प्राप्तः अत एव नित्यं शोकपरायण अत एव नित्यं ध्यानपरः त्वद्विषयकस्मृतौ निरतो रामः अन्यं किंचित् पदार्थं न चिन्तयते ॥ ५।३६।४३ ॥

अनिद्र इति । अनिद्रः प्रायेण निद्रारहितो रामः सुप्तः कथंचित् किञ्चित् स्वापं प्राप्तो ऽपि सीतेति मधुरां वाणीं व्याहरन्सन् प्रतिबुध्यते ॥ ५।३६।४४ ॥

दृष्ट्वेति । स्त्रीमनोहरं स्त्रीणां प्रियं फलं पुष्पं वा यदन्यत्पत्रादि तदपि वा दृष्ट्वा त्वां स्मरन् सन् हा प्रियेत्येवं बहुशो ऽभिभाषते ॥ ५।३६।४५ ॥

स इति । नित्यं परितप्यमानः त्वद्वियोगजनितदुःखं प्राप्नुवन् अत एव सीतेति त्वामेव अभिभाषमाणो रामः तवैव लाभाय कृतप्रयत्नो ऽस्तीति शेषः ॥ ५।३६।४६ ॥

सेति । रामसंकीर्तनेन वीतः संकीर्तनकालमानं निवृत्तः शोको यस्याः सा रामशोकेन समानः शोको यस्याः सा वैदेहसुता सा सीता शरन्मुखे शरत्प्राप्तौ अम्बुदशेषसहितचन्द्रो यस्यां सा निशा इव बभूव । अभ्रच्छन्नत्वा ऽच्छन्नत्वविशिष्टचन्द्रहेतुकप्रकाशाप्रकाशविशिष्टरात्रिरिव शोकनिवृत्तिप्राप्तिभ्यां प्रकाशाप्रकाशविशिष्टा ऽभवदित्यर्थः ॥ ५।३६।४७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ५।३६ ॥