हनुमद्वचनश्रवणानन्तरकालिकां सीतोक्तिमाह तामिति । वैदेही वानरर्षभात् रामकथां श्रुत्वा सान्त्वं वचनमुवाच ॥ ५।३५।१ ॥
तदाकारमाह क्वेत्यादिभिः । ते तव रामेण संसर्गो भाषणादिसंबन्धः क्व कस्मिन्देशे ऽभवदिति शेषः । समागमः सङ्गमः कथमासीत् नरवानराचरणयोः परस्परं विरुद्धत्वात्संसर्गो न संभवतीति तात्पर्यम् ॥ ५।३५।२ ॥
यानीति । चिह्नानि भूयः समाचक्ष्व कथयतो मां शोको न समाविशेत् ॥ ५।३५।३ ॥
चिह्नाकारं विभज्य पृच्छति कीदृशमिति । तस्य रामलक्ष्मणस्य च संस्थानमवयवसंनिवेशः रूपं च कीदृशम् ऊरुप्रभृति कथं कीदृशं मे मह्यं शंस कथय ॥ ५।३५।४ ॥
एवमिति । वैदेह्या एवमुक्तो हनूमान् रामं यथातत्त्वं याथार्थ्यमनतिक्रम्य आख्यातुं कथयितुमपचक्रमे ॥ ५।३५।५ ॥
तद्वचनाकारमाह जानन्तीति । संस्थानं जानन्ती त्वं मां दिष्ट्या भाग्यवशेन परिपृच्छसि ॥ ५।३५।६ ॥
यानीति । तानि चिह्नानि वदतो मे शृणु ॥ ५।३५।७ ॥
तत्कथनमेवाह राम इत्यदिभिः । रामः रूपदाक्षिण्याभ्यां संपन्नः सन्नेव प्रसूतः प्रादुर्भूतः न तु प्रादुर्भूत्यनन्तरं रूपदाक्षिण्यं जातमित्यर्थः, तेन तयोर्नित्यत्वं व्यञ्जितम् ॥ ५।३५।८ ॥
इषुवत्सविता गच्छतीतिवदुपमेयत्वेन बहुव्रीहिणोपमानत्वेन वा । रामं बोधयन्नाह तेजसेति ॥ ५।३५।९ ॥
रक्षितेति । जीवन्ति जीवयन्तीति च व्युत्पत्त्या जीवशब्देन जीवेश्वरयोर्ग्रहणम् । लोका निखिलब्रह्माण्डानि समाहारद्वन्द्वः तस्य रक्षिता । श्रुतिश्च “तमीश्वराणां परमं महेश्वरम्” इत्यादि ॥ ५।३५।१० ॥
राम इति । चातुर्वर्ण्यस्य लोकस्य राम एव रक्षिता साक्षात् विष्ण्वादिद्वारा च पालयिता ॥ ५।३५।११ ॥
अर्चिष्मानिति । अर्चिष्मान् अतिप्रकाशवान् श्रुतिश्च “तस्य भासा सर्वमिदं विभाति” अत एव अत्यर्थमत्यन्तमर्चितः ईश्वरैरपि पूजितः ब्रह्मचर्यव्रते स्वकृतमर्यादाहेतुभूतवेदोक्तनियमे स्थितः उपकारज्ञः उपकारमेव जानाति न त्वपकारमित्यर्थः, सः कर्मणां प्रचारज्ञः यथावत्प्रवृत्तिज्ञाता ॥ ५।३५।१२ ॥
राजेति । ज्ञानवान् नित्यं निखिलानां विज्ञाता ॥ ५।३५।१३ ॥
यजुरिति । यजुर्वेदविनीतः उपलक्षणया सर्ववेदेषु निष्णातः ॥ ५।३५।१४ ॥
विपुलांस इति । विपुलौ मांसलौ अंसौ यस्य ॥ ५।३५।१५ ॥
दुन्दुभीति । समः समहस्तादिविशिष्टः ॥ ५।३५।१६ ॥
त्रिस्थिर इति । त्रयः ऊर्वादयः स्थिराः यस्य सः । तथाहि “ऊरुश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः” इति लक्षणानुशासनम् । त्रयः भ्रूवृषणबाहवः प्रलम्बा यस्य सः । तथाहि “प्रलम्बा यस्य स धनी त्रयो भ्रूमुष्कबाहवः” इति सामुद्रिकः । मुष्कं वृषण इति तद्व्याख्या । त्रीणि केशाग्रादीनि समानि यस्य सः । तथाहि “केशाग्रं वृषणं जानु समं यस्य स भूपतिः” इति त्रिषु नाभ्यादिषु उन्नतः “नाभ्यान्तःकुक्षिवक्षोभिरुन्नतैः क्षितिपो भवेत्”, त्रयः नेत्रान्तादयः ताम्रा अरुणा यस्य सः । तथाहि “नेत्रान्तरनखपाण्यङ्घ्रितलैस्ताम्रैस्त्रिभिः सुखी” इति त्रिषु पादरेखाः शिरोरुहाः “तथालिङ्गमणिस्तेषां महाभाग्यं विनिर्दिशेत्” त्रिषु स्वरादिषु नित्यशो गम्भीरः । तथाहि “स्वरे गतौ च नाभौ च गम्भीरस्त्रिषु शस्यते” ॥ ५।३५।१७ ॥
त्रिवलीवानिति । त्रिवलीवान् उदरे कण्ठे च वलीत्रयविशिष्टः त्रिषु पादतलपादरेखास्तनचूचुकेषु अवनतः चत्वारि ग्रीवादीनि व्यङ्गानि ह्रस्वानि यस्य सः । तथाहि “ग्रीवा प्रजननं पृष्ठं ह्रस्वे जङ्घे च पूजिते” इति त्रिशीर्षवान् आवर्तत्रयविशिष्टशिरोविशिष्टः । तथाहि “आवर्तत्रययुक्तं यस्य शिरः क्षितिभूतामयं नाथः” चतस्रः चतुर्वेदप्राप्तिसूचिका कला अङ्गुष्ठरेखा यस्य सः । तथाहि “मूले ऽङ्गुष्ठस्य रेखानां चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं वेदरेखा द्विजन्मनाम्” ललाटे चतस्रो रेखा यस्य तथा हि “ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विंशतिः क्रमात्” इति चत्वारः किष्कव उत्सेधपरिच्छेदकत्वेन यस्मिन् किष्कुः चतुर्विंशत्यङ्गुलात्मको हस्तः हस्तचतुष्टयपरिमितः षण्णवत्यङ्गुलोत्सेध इति फलितम् । चत्वारो बाहुवादयः समा यस्य तथाहि “बाहुजानूरुगण्डानि चत्वार्यथ समानि च” इति ॥ ५।३५।१८ ॥
चतुरिति । चतुर्दशसंख्याकाः समद्वन्द्वाः समत्वसमानाधिकरणीभूतद्वन्द्वत्वविशिष्टा यस्य सः । तथाहि “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ । कूर्परे मणिबन्धौ च जानुनी वृषणौ कटी ॥ करौ पादौ स्फिजौ यस्य समौ ज्ञेयौ स भूपतिः ।” चतस्रो दंष्ट्रादयः यथाशास्त्रं दन्तपङ्क्तिद्वयप्रतिपार्श्ववर्तिन्यो यस्य सः । तथाहि “स्निग्धा घनाश्च दशनाः सुतीक्ष्णदष्ट्राः शुभाश्चतस्रः” इति चतुर्णां सिंहशार्दूलगजवृषभाणां गतिरिव गतिर्यस्य सः महत् प्रशंसितम् औष्ठहनुनासं यस्य सः तत्रौष्ठस्य प्राशस्त्यं बिम्बफलादिसदृशारुणत्वसमानाधिकरणीभूतमांसलत्वेन, हनोस्तु परिपूर्णमांसलोन्नतत्वेन, नासिकायास्तु दीर्घोन्नतरुचिरपुटत्वेन । पञ्च वाग्वक्रनखलोमत्वचः स्निग्धा यस्य सः पूर्वं त्रयाणां स्निग्धत्वोक्तावपीदानीं पञ्चानां स्निग्धत्वोक्तिः मतभेदप्रदर्शनाय तेन सर्वमते रामावयवानां सुलक्षणत्वं बोधितम् । वक्ष्यमाणषडुन्नतत्वे ऽप्येषैव गतिः । अष्टौ वंशा दैर्घ्यविशिष्टा बाह्वादयः सन्ति अस्य । तथाहि “बाहू च नलकावूरू जङ्घे चेत्यष्ट वंशकाः” । नलकावङ्गुल्याविति तीर्थः ॥ ५।३५।१९ ॥
दशेति । दश पद्मानि पद्माकाराणि यस्य सः । तथाहि “मुखनेत्रास्यजिह्वोष्ठतालुस्तननखं करौ । पादौ च दश पद्मानि पद्मकाराणि यस्य च” इति आस्यमोष्ठमध्यमिति तद्व्याख्या दश उरःप्रभृतीति बृहन्ति यस्य । तथाहि “उरः शिरो ललाटं च ग्रीवा बाह्वंसनाभयः । पादौ पृष्ठं श्रुती चैव विशालास्ते सुखप्रदाः” इति षट् कक्षप्रभृतयाः उन्नता यस्य । तथाहि “कक्षः कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्ते सुखप्रदाः” इति नवाङ्गुलिपर्वादीनि तनूनि सूक्ष्माणि यस्य । तथाहि सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः । शेफश्च येषां सूक्ष्मामि ते नरा दीर्घजीविनः" इति त्रिभिः श्रीयशःप्रतापैर्व्याप्तः भुवनेषु पूर्णः द्वौ पितृवंशमातृवंशौ शुक्लौ शुद्धौ तद्वान् संग्रहानुग्रहे अर्जनदानयो रतः राघवः त्रिभिर्ब्रह्मादित्रितयकृतिद्वारा व्याप्नोति । अत्र व्युत्क्रमेण व्याख्यानसंदर्भशुद्धये ॥ ५।३५।२०,२१ ॥
भ्रातेति । अस्य रामस्य सौमित्रिर्भ्राता द्वैमात्रः राममात्रपेक्षया द्वीतीयमातृजनित इत्यर्थः । अनुरागादिभिस्तथाविधः रामसदृशः ॥ ५।३५।२२ ॥
स इति । सुवर्णच्छविः गौरः स लक्ष्मणः श्यामो रामश्च त्वद्दर्शनसमुत्सुकौ अत एव विचिन्वन्तौ सन्तौ अस्माभिः सह संगतौ बभूवतुरिति शेषः । सार्धश्लोक एकान्वयी ॥ ५।३५।२३ ॥
त्वामिति । तौ रामलक्ष्मणौ पूर्वजेन ज्येष्ठभ्रात्रा अवरोपितं विवासितम् अत एव भ्रातुर्भयात् ऋष्यमूकस्य मूले आसीनं तं प्रसिद्धं सुग्रीवं ददृर्शतुः ददृशतुः । अर्धचतुष्टमेकान्वयि ॥ ५।३५।२४,२५ ॥
वयमिति । वयं तु सत्यः कापट्यरहितः संगरः संग्रामो यस्य तं सुग्रीवं परिचर्यामहे परिचरामः । सार्धश्लोक एकान्वयी ॥ ५।३५।२६,२७ ॥
तत इति । ततो रामसंदर्शनानन्तरं तौ रामलक्ष्मणौ दृष्ट्वा भयमोहितः वालिभीत्या विवेकरहितः सुग्रीवः गिरेः शिखरमभिप्लुतः उत्प्लुत्य प्राप्तः । सार्धश्लोक एकान्वयी ॥ ५।३५।२८ ॥
तत इति । शिखरे व्यवस्थितो वानरेन्द्रः तयो रामलक्ष्मणयोः समीपं मामेव प्रेषयामास । अर्धद्वयमेकान्वयि ॥ ५।३५।२९ ॥
ताविति । सुग्रीववचनात् तौ रामलक्ष्मणौ अहमुपस्थितः ॥ ५।३५।३० ॥
ताविति । परिज्ञातः तत्त्वार्थः सत्यवृत्तान्तो याभ्यां तौ पुरुषर्षभौ रामलक्ष्मणौ पृष्ठमारोप्य तं सुग्रीवाधिष्ठितं देशं मया प्रापितौ तत्त्वेन यथार्थकथनेन सुग्रीवाय निवेदितौ च । सार्धश्लोक एकान्वयी ॥ ५।३५।३१,३२ ॥
तयोरिति । तयो रामसुग्रीवयोः संभाषात् भृशं प्रीतिरजायत । अर्धं पृथक् तत्रेति । तत्र तस्मिन् समये प्रीतिसंपन्नौ पूर्ववृत्तया कथयोपलक्षितौ हरीश्वरनरेश्वरौ परस्परकृताश्वासौ बभूवतुरिति शेषः । अर्धद्वयमेकान्वयि ॥ ५।३५।३३ ॥
तमिति । पुरुतेजसा महातेजोविशिष्टेन भ्रात्रा स्रीहितोः अनुजस्त्रीपरिग्रहार्थं निरस्तं सुग्रीवं लक्ष्मणाग्रजः सान्त्वयामास ॥ ५।३५।३४ ॥
तत इति । ततः सुग्रीववृत्तान्तश्रवणानन्तरं त्वन्नाशजं त्वददर्शनजनितं रामस्य शोकं लक्ष्मणः सुग्रीवाय न्यवेदयत् ॥ ५।३५।३५ ॥
स इति । लक्ष्मणेनेरितं वचो वानरेन्द्रः श्रुत्वा ग्रहग्रस्तोंशुमानिव निष्प्रभो ऽभूत् शुशोचेत्यर्थः ॥ ५।३५।३६ ॥
तत इति । रक्षसा ह्रियमाणया त्वया यान्याभरणजालानि पातितानि तानि सर्वाणि आनीय हरियूथपाः दर्शयामासुः परन्तु तव गतिं स्थानं न विदुः । अर्धचतुष्टयमेकान्वयि ॥ ५।३५।३७,३८ ॥
तानीति । तस्मिन् रामे विहतचेतसि सति यान्याभरणजालानि रामाय दत्तानि वानरैरिति शेषः, तानि स्वनवन्ति पतनकाले स्वनविशिष्टानि मयैवोपहृतानि ॥ ५।३५।३९ ॥
तानीति । तानि आभरणानि अङ्के कृत्वा तेन रामेण बहुविधं परिदेवितं तदा तस्मिन् काले दाशरथेः परिदेवितं शोकहुताशनमस्मच्छोकवह्निं प्रादीपयत् अत एव दुःखार्तेन तेन महात्मना शयितं शयनं भूमौ पतितमित्यर्थः, वाक्यैर्बौधकवचनैर्मया अपिना सुग्रीवादिना च पुनः पुनः उत्थापितः । सार्धश्लोकद्वयमेकान्वयि ॥ ५।३५।४०,४१ ॥
तानीति । तान्याभरणानि पुनः पुनर्दृष्ट्वा दर्शयित्वा च राघवः सुग्रीवे संन्यवेशयत् ॥ ५।३५।४२ ॥
स इति । हे आर्ये राघवः तवादर्शनात् ज्वलता अग्निना अग्निपर्वतः कालाग्निनिवासभूतगिरिरिव नित्यं परितप्यते ॥ ५।३५।४३ ॥
त्वदिति । त्वत्कृते त्वदर्थम् अनिद्रादयः अग्न्यगारमग्नय इव राघवं तापयन्ति ॥ ५।३५।४४ ॥
तवेति । तवादर्शनशोकेन महता भूमिकम्पेन महान् शिलोच्चय इव राघवः परिचाल्यते ॥ ५।३५।४५ ॥
काननानीति । त्वामपश्यन् राघवः काननादीनि चरन्नपि रतिं प्रीतिं नाप्नोति ॥ ५।३५।४६ ॥
स इति । स राघवः रावणं हत्वा त्वां क्षिप्रं प्राप्स्यति ॥ ५।३५।४७ ॥
सहिताविति । सहितौ एकीभूतौ उभौ रामसुग्रीवौ वालिनं हन्तुं तवान्वेषणं प्रति अन्वेषणं कर्तुं च समयं प्रतिज्ञाम् अकुरुताम् ॥ ५।३५।४८ ॥
तत इति । ततः प्रतिज्ञाकरणानन्तरं कुमाराभ्यां रामलक्ष्मणाभ्यां किष्किन्धां समुपागम्य युद्धे वाली निपातितः हतः ॥ ५।३५।४९ ॥
तत इति । रामः वालिनं निहत्य सुग्रीवं निखिलऋक्षदीनां पतिमकरोत् ॥ ५।३५।५० ॥
रामेति । एवमुक्तप्रकारेण रामसुग्रीवयोः एक्यं सख्यं समजायत मां तु तयोर्दूतं हनूमन्तं विद्धि जानीहि ॥ ५।३५।५३ ॥
स्वमिति । सुग्रीवः स्वं राज्यं प्राप्य अत एव स्वान् स्वकीयान् महाकपीन् आनीय त्वदर्थं प्रेषयामास ॥ ५।३५।५४ ॥
आदिष्टा इति । सुग्रीवेणादिष्टाः वानरेन्द्रा सर्वतः सर्वां महीं प्रस्थिताः ॥ ५।३५।५५ ॥
तत इति । सुग्रीववचनातुराः अत एव मार्गमाणाः त्वामन्वेषयन्तः वयं ततस्तां वसुधां चरामः अन्ये च वानराश्चरन्ति ॥ ५।३५।५६ ॥
अङ्गद इति । त्रिभागबलसंवृतः प्रेषितावशिष्टसेनाभागत्रयविशिष्टः चतुर्थांश एव किष्किन्धायामवशिष्ट इत्यर्थः । किंच त्रयो भागा गता यस्याः तदेव बलं तेन संवृतः अङ्गदः प्रस्थितः ॥ ५।३५।५७ ॥
तेषामिति । पर्वतसत्तमे विन्ध्ये विप्रनष्टानामप्राप्तत्वद्वृत्तान्तानामित्यर्थः, अत एव शोकपरीतानां नो ऽस्माकम् अहोरात्रागणाः बहूनि दिनानि गता व्यतीताः ॥ ५।३५।५८ ॥
ते इति । ते अप्राप्तत्वद्वृत्तान्ता वयं कार्यनैराश्यात्त्वद्वृत्तान्तविषयकाशाभावात् कालस्य अतिक्रमेण संकेतितसमयस्य व्यतीतत्वेन च कपिराजस्य भयात् प्राणान् त्यक्तुं वयमुपस्थिताः ॥ ५।३५।५९ ॥
तदेव भङ्ग्यन्तरेणाह विचित्येति । गिरिदुर्गादीनि विचित्य देव्याः तव पदं स्थितिमनासाद्य प्राणान् त्यक्तुं वयं व्यवस्थिताः ॥ ५।३५।६० ॥
तत इति । ततः तस्मिन् गिरेर्मूर्ध्नि वयं प्रायमनशनव्रतमुपास्महे । अर्धं पृथक् दृष्ट्वेति । वानरपुङ्गवान् प्रायोपविष्टान् दृष्ट्वा तव नाशमदर्शनं च दृष्ट्वा ज्ञात्वा वालिवधं च दृष्ट्वा संस्मृत्य अस्माकं प्रायोपवेशं च जटायुषो मरणं च दृष्ट्वा संस्मृत्य शोकार्णवे मग्नो ऽङ्गदः पर्यदेवयत् व्यलपत् । अर्धचतुष्टमेकान्वयि ॥ ५।३५।६१ ॥
तेषामिति । स्वामिसंदेशान्निराशानाम् अत एव मुमूर्षतां तेषां नो ऽस्माकं कार्यहेतोः इह अस्मत्समीपे आयातः वीर्यवान् शकुनिः पक्षी गृध्रराजस्य जटायुषः सोदर्यः संपातिः भ्रातृवधं श्रुत्वा कोपात् कोपं प्राप्य इदमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ५।३५।६२,६३ ॥
तद्वचनाकारमाह यवीयानिति । यवीयान्कनिष्ठो मे भ्राता केन हतः क्व निपातितः एतत् भवद्भिरुक्तं श्रुत्वेति शेषः । आख्यातुं किंचित् कथयितुमिच्छामि ॥ ५।३५।६४ ॥
अङ्गद इति । तस्य जटायुषो जनस्थाने त्वामुद्दिश्य त्वदर्थं रक्षसा रावणेन कृतमिति शेषः, महद्वधमङ्गदो ऽकथयत् ॥ ५।३५।६५ ॥
जटायोरिति । जटायोर्वधं श्रुत्वा दुःखितो ऽरुणात्मजः संपातिः रावणालये वसन्तीं त्वामाह ॥ ५।३५।६६ ॥
तस्येति । तस्य संपातेः वचनं श्रुत्वा प्रस्थापिताः कृतप्रस्थाना वयं विन्ध्यादुत्थाय सागरस्यान्तं तटं संप्राप्ताः । सार्धश्लोक एकान्वयी ॥ ५।३५।६७,६८ ॥
तदेव भङ्ग्यन्तरेणाह त्वदिति । त्वद्दर्शने कृत उत्साहो यैस्ते सर्वे प्लवङ्गमाः वेलोपान्तमुपागताः ॥ ५।३५।६९ ॥
चिन्तामिति । त्वद्दर्शनसमुत्सुकाः अङ्गदप्रमुखाः चिन्तां सागरोल्लङ्घनसंशयं जग्मुः । अथानन्तरं सीदतो हरिसैन्यस्य भयं व्यवधूय योजनशतं शतसंख्याकं सागरं प्लुतः रात्रौ लङ्का च प्रविष्टा । श्लोकद्वयं संमिलितान्वयि ॥ ५।३५।७०,७१ ॥
अभीति । यस्मात् दाशरथेरहं दूतः तत्तस्मात् रामकृतीद्योगं रामार्थकोद्योगविशिष्टम् अत एव त्वन्निमित्तमिहागतं सुग्रीवसचिवं मां बुध्यस्व अत एव मामभिभाषस्व । सार्धश्लोक एकान्वयी ॥ ५।३५।७२ ॥
कुशलीति । काकुत्स्थो रामः लक्ष्मणश्च कुशली ॥ ५।३५।७३ ॥
तस्येति । तव भर्तुर्हिते ऽरतो ऽहं सुग्रीववचनादिह संप्राप्तः ॥ ५।३५।७४ ॥
मयेति । त्वन्मार्गविचयैषिणा मया दक्षिणादिगनुक्रान्ता ॥ ५।३५।७५ ॥
दिष्ट्येति । त्वन्नाशं त्वददर्शनम् उपलभ्येति शेषः, अनुशोचतां हरिसैन्यानां संतापं तवाधिगमशंसनात् त्वत्प्राप्तिकथनात् अपनेष्यामि दिष्ट्यैतत् ॥ ५।३५।७६ ॥
दिष्ट्येति । त्वद्दर्शनकृतं यशः प्राप्स्यामि अत एव मम सागरस्य लङ्घनं न व्यर्थम् ॥ ५।३५।७७ ॥
राघव इति । राघवः रावणं हत्वा त्वामभिपत्स्यते ॥ ५।३५।७८ ॥
ननु वानरस्य तव वातात्मजत्वं कथमित्यत आह माल्यवानिति । केसरी हरिर्वानरः माल्यवान्नाम यो गिरिः ततस्तस्माद्गिरेः गोकर्णं पर्वतं गच्छति अगच्छत् ॥ ५।३५।७९ ॥
स इति । देवर्षिभिर्दिष्टः आज्ञप्तः यस्य हरिणो अनेकवानराधिपतेः क्षेत्रे वातेनाहं जातः स महाकपिर्मम पिता नदीपतेः समुद्रस्य तीर्थे जले शम्बसादनं तदभिधासुरमुद्धरन् अनाशयत् । भूतो ऽपि लटः शतार्ष इति भट्टाः । हरि इत्यत्र व्रीह्यादित्वादिनिः । सार्धश्लोक एकान्वयी ॥ ५।३५।८० ॥
हनूमानिति । स्वेन कर्मणा हनूमानिति विख्यातः यो ऽहं तेन मया तव विश्वासार्थं भर्तुर्गुणाः उक्ताः ॥ ५।३५।८१ ॥
अचिरादिति । अचिरात् शीघ्रं राघवस्त्वामितो नयिता नेता ॥ ५।३५।८२ ॥
एवमिति । उपपन्नैः युक्तैर्बोधकरहितैरित्यर्थः । अभिज्ञानैर्बोधकैर्हेतुभिर्विश्वासिता सत्यं कथयतीति विश्वासं प्रापिता सीता तं हनूमन्तं दूतमधिगच्छति अध्यगच्छत् अजानात् ॥ ५।३५।८३ ॥
अतुलमिति । अतुलं हर्षं गता प्राप्ता जानकी हर्षेण आनन्दजं जलं मुमोच ॥ ५।३५।८४ ॥
चार्विति । राहुमुक्तः उडुराट् चन्द्र इव तस्याः वदनमशोभत ॥ ५।३५।८५ ॥
हनूमन्तमिति । सा सीता हनूमन्तम् अन्यथा रावणत्वादिना न मन्यते अमन्यत अथानन्तरं प्रियदर्शनां तां सीताम् उत्तरं श्रेष्ठमिदं वचनमुवाच ॥ ५।३५।८६ ॥
तदाकारमाह एतदिति । हे मैथिलि एतत् भवत्या पृष्टं सर्वमाख्यातम् अतः समाश्वसिहि अहं तु प्रतियामि रामसमीपं गमिष्यामि अतः किं करोमि कथं ते रोचते तद्वदित्यर्थः ॥ ५।३५।८७ ॥
उपसंहरन्नाह हते इति । कपिप्रवीरेण शम्बसादने असुरे हते सति ततः तस्य क्षेत्रे वायुप्रभवः प्रभावतः तत्प्रतिमः वायुसदृशः वानरो ऽहमस्मि ॥ ५।३५।८८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ५।३५ ॥