सीतावचनश्रवणानन्तरकालिकां हनुमदुक्तिमाह तस्या इत्यादिभिः । दुःखाभिभूतायाः तस्याः सीताया वचनं श्रुत्वा दुःखात् दुःखं प्राप्य हनूमान् सान्त्वं सान्त्वनमुत्तरमब्रवीत् ॥ ५।३४।१ ॥
वचनाकारमाह अहमित्यादिभिः । रामस्य दूतो ऽहं संदेशात् हेतोः तव समीपमागतः । अर्धं पृथक् । ननु कः संदेश इत्यत आह वैदेहीत्यादिभिः । हे वैदेहि कुशली रामः त्वां कौशलं स्वकुशलमब्रवीत् अकथयत् । किंच त्वां त्वत्कौशलमब्रवीत् अपृच्छत् । अर्धद्वयमेकान्वयि ॥ ५।३४।२ ॥
हर्षातिशयेन पुनरपि तदेवाह य इति । वेदविदां वरः अत एव ब्राह्ममस्त्रं वेदांश्च यो वेद स रामः कौशलमब्रवीत् ॥ ५।३४।३ ॥
लक्ष्मण इति । लक्ष्मणो ऽभिवादनं ते कृतवान् ॥ ५।३४।४ ॥
सेति । सा सीता तयोः रामलक्ष्मणयोः कुशलं निशम्य प्रतिसंहृष्टसर्वाङ्गी सती हनूमन्तमब्रवीत् ॥ ५।३४।५ ॥
तदाकारमाह कल्याणीति । जीवन्तं नरं जनं वर्षशतादपि आनन्दः एति प्राप्नोति इयं लौकिकी गाथा कल्याणी सत्येत्यर्थः ॥ ५।३४।६ ॥
तयोरिति । तयोः सीताहनुमतोः समागते सति अद्भुता प्रीतिः उत्पादिता प्रादुर्भूता अत एव विश्वस्तौ तौ परस्परेणालापं चक्रतुः ॥ ५।३४।७ ॥
तस्या इति । तस्याः सीताया वचनं श्रुत्वा हनुमान् समीपमुपचक्रमे जगाम ॥ ५।३४।८ ॥
यथेति । हनूमान् यथा यथा समीपमुपसर्पति तथा तथा सीता रावणं परिशङ्कते ॥ ५।३४।९ ॥
परिशङ्कास्वरूपमाह अहो इति । रूपान्तरमुपागम्य प्राप्य स रावण एवायं हि यदि तदा अस्य अनेन यत् कथितं कथनम् इदं कृतं तत् अहो आश्चर्यं धिक् धिक् च ॥ ५।३४।१० ॥
तामिति । तां गृहीताम् अशोकस्य अशोकवनिकास्थशिंशुपायाः शाखां विमुक्त्वा विमुच्य शोककर्शिता सीता तस्यां पूर्वंमध्यासितायां धरण्यां समुपाविशत् ॥ ५।३४।११ ॥
अवन्दतेति । ततो ऽनन्तरं महाबाहुर्हनूमान् तां जनकात्मजाम् अवन्दत शङ्कापनयनाय वन्दनामकरोत् सा सीता तु भयसंत्रस्ता रावणशङ्काजनितभययुक्ता सती एनं हनूमन्तं भूयो न उदैक्षत ॥ ५।३४।१२ ॥
तमिति । वन्दमानं तं हनूमन्तं दृष्ट्वा दीर्घमुच्छ्वस्य मधुरस्वरा सीता अब्रवीत् ॥ ५।३४।१३ ॥
वचनाकारमाह मायामित्यादिभिः । मायां कपटं प्रविष्टः आश्रितः सन् मायावी स्वयं रावणस्त्वं यदि भूयः संतापमुत्पादयसि तर्हि तन्न शोभनम् ॥ ५।३४।१४ ॥
स्वमिति । स्वं राक्षसीयं रूपं परित्यज्य परिव्राजकरूपवान् सन् यो रावणो जनस्थाने मया दृष्टः स त्वं किम् । एव किमर्थे ॥ ५।३४।१५ ॥
उपवासेति । उपवासकृशाम् अत एव दीनां । क्षीणचित्तां मां सम्यक् तापो यस्मिन् तत् यथा भवति तथा भूयः संतापयसि प्रवर्तयसि तत् न शोभनम् ॥ ५।३४।१६ ॥
इदानीमनुमानतो नायं रावण इति निश्चित्य पक्षान्तरमाह अथवेति । हि यतः तव दर्शनात् मम मनसः प्रीतिरुत्पन्ना अतः यत् मया परिशङ्कितं तन्नैवास्ति ॥ ५।३४।१७ ॥
यदीति । आगतः त्वं यदि रामस्य दूतः तर्हि त्वां रामकथाः पृच्छामि ते भद्रमस्तु ॥ ५।३४।१८ ॥
गुणानिति । हे वानर मम प्रियस्य रामस्य गुणान् त्वं कथय । ननु रामगुणान् न जानामीत्यत आह नदीकूलं रयो वेग इव मे चित्तं त्वं हरसि । एतेन मच्चित्तापकर्षकत्वं रामगुणज्ञानामेवेति सूचितम् ॥ ५।३४।१९ ॥
रामदूतागमनस्यासंभवमाशङ्क्याह अहो इति । स्वप्नस्य सुखता सुखम् अहो आश्चर्यं यतः चिरं बहुकालात् आहृता अन्यत्र प्रापिता ऽहं राघवेण प्रेषितं वनौकसं पश्यामि ॥ ५।३४।२० ॥
स्वप्न इति । मत्सरी सगर्वः सो ऽपि प्रायो नायातीति तात्पर्यम् ॥ ५।३४।२१ ॥
इदानीमनुमानेन नायं स्वप्न इति निश्चित्याह नेति । इमं स्वप्नम् अहं न मन्ये हि यतः स्वप्ने वानरं दृष्ट्वा अभ्युदयः प्राप्तुं न शक्यः मम तु अभ्युदयः अभ्युदयहेतुभूतः मनःप्रसादः प्राप्तः ॥ ५।३४।२२ ॥
किमिति । अयं समागमः चित्तमोहः स्यात् इयं वातगतिः वायुविकारो वा उन्मादजः भूतावेशादिहेतुकोन्मादजनितो विकारो वा अयं मृगतृष्णिका वा स्यात् ॥ ५।३४।२३ ॥
इदानीं तत्तद्धर्माभावबोधकहेतुमुपलभ्य तान्निरस्यति अथवेति । अथवा उन्मादः उन्मादजो विकारः उन्मादलक्षणः मोहः उन्मादलक्षणसदृशलक्षणविशिष्टः अपिना वातगतिर्वा नायम् तत्र हेतुः अहम् आत्मानं वनौकसं च संबुध्ये सम्यक् जानामि मोहादौ सम्यग्ज्ञानं न भवतीति तात्पर्यम् ॥ ५।३४।२४ ॥
इतीति । इति अनेन प्रकारेण बहुधा बहुप्रकारं बलाबलं संप्रधार्य विचार्य रक्षसां कामरूपत्वाद्धेतोस्तं हनूमन्तं राक्षसाधिपं मेने ॥ ५।३४।२५ ॥
एतामिति । तदा तस्मिन् समये एतामुक्तां बुद्धिं निश्चयं कृत्वा वानरं प्रति न व्याजहार ॥ ५।३४।२६ ॥
सीताया इति । सीतायाः सीतया निश्चितं बुद्ध्वा श्रोत्रानुकूलैः श्रोत्रसुखजनकैर्वचनैः रामगुणबोधकवाक्यैः तां सीतां प्रहर्षयन्नुवाचेति शेषः ॥ ५।३४।२७ ॥
तद्वचनाकारमाह आदित्य इत्यादिभिः ॥ ५।३४।२८ ॥
विक्रमेणेति वाचस्पतिर्बृहस्पतिः ॥ ५।३४।२९ ॥
रूपवानिति । मूर्तिमान् कन्दर्प इव रूपादिमान् स्थानक्रोधे उचितकोपे प्रहर्ता दण्डदायकः ॥ ५।३४।३० ॥
बाह्विति । यस्य बाहुच्छायां रक्षणे इत्यर्थः । लोकः सर्वजनः अवष्टब्धः संस्थितः तं राघवं मृगरूपेण अश्रमपदात् श्रमनिवर्तकस्थानात् अपकृष्य अन्यत्र प्रापय्य शून्ये येन त्वमपनीतासि तस्य रक्षसः तत् तादृशकमजनितं फलं द्रक्ष्यसि । सार्धश्लोक एकान्वयी ॥ ५।३४।३१ ॥
तत्फलाकारं बोधयन्नाह अचिरादिति । अचिरात् शीघ्रं क्रोधप्रमुक्तेर्ज्वलद्भिः पावकैरिवेषुभिः यो रावणं वधिष्यति तेन प्रेषितो दूतो ऽहम् इह अस्मिन् काले त्वत्सकाशमागतः । सार्धश्लोक एकान्वयी ॥ ५।३४।३२।३३ ॥
त्वदिति । त्वद्वियोगेन दुःखार्तः स रामः त्वां कौशलमब्रवीत् । अर्धं पृथक् । लक्ष्मण इति । कौशलं कुशलमब्रवीत् ॥ ५।३४।३४ ॥
रामस्येति । रामस्य सखा सुग्रीवः कौशलमब्रवीत् ॥ ५।३४।३५ ॥
नित्यमिति । ते त्वां रामो नित्यं स्मरति “अधीगर्थ” इति षष्ठी । हे वैदेहि राक्षसीवशमागतां त्वं दिष्ट्या भाग्यवशेन जीवसि ॥ ५।३४।३६ ॥
नेति । रामं लक्ष्मणं च वानरकोटीनाम् अनेककोटिसंख्याकवानराणां मध्ये सुग्रीवं च नचिरात् शीघ्रं द्रक्ष्यसे ॥ ५।३४।३७ ॥
ननु त्वं को ऽसीत्यत आह अहमिति । सुग्रीवसचिवो हनूमानहं लङ्कां प्रविष्टो ऽस्मीति शेषः ॥ ५।३४।३८ ॥
कृत्वेति । अहं रावणस्य मूर्ध्नि पदन्यासं कृत्वा अनादृत्येत्यर्थः, त्वां द्रष्टुमुपयातः ॥ ५।३४।३९ ॥
नेति । यथा येन प्रकारेण मां त्वमवगच्छसि शङ्कसे तथा ऽहं नास्मि अतः विशङ्का त्यज्यताम् अत एव एषा त्वं वदतो मम श्रद्धत्स्व मद्वचने श्रद्धां कुर्वित्यर्थः ॥ ५।३४।४०,४१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ५।३४ ॥