जानकीवचनश्रवणानन्तरकालिकं हनुमद्वृत्तान्तमाह स इत्यादिभिः । विद्रुमप्रतिमं विद्रुमसदृशमाननं यस्य स हनूमान् शिरसि अञ्जलिमाधाय धृत्वा मधुरया गिरा अब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ५।३३।१,२ ॥
तद्वचनाकारमाह केत्यादिभिः । द्रुमस्य शाखामवलम्ब्य या त्वं तिष्ठसि सा त्वं का ऽसि ॥ ५।३३।३ ॥
किमिति । विप्रकीर्णं स्फुटितघटादिभ्यो निःसृतमुदकमिव नेत्राभ्यां वारि किमर्थं स्रवति ॥ ५।३३।४ ॥
सुराणामिति । हे शोभने सुरादीनां मध्ये त्वं का भवसि रुद्राणां मरुतां वा मध्ये का त्वं भवसि । ननु त्वमेव विचारयेत्यत आह मे मम तु वसूनामग्नीनां देवता त्वं प्रतिभासि । किंच सुराद्यन्यतमानां का काचित् देवता त्वं मे प्रतिभासि । श्लोकद्वयमेकान्वयि ॥ ५।३३।५,६ ॥
तत्रापि दृढतरगमकाभावादाह किमित्यादिभिः । विबुधालयात् पतिता अत एव चन्द्रमसा हीना ज्योतिषां श्रेष्ठा रोहिणी किं त्वमसि ॥ ५।३३।७ ॥
केति । हे अनिन्दितलोचने । अस्माल्लोकात् अमुं परोक्षं देशं गतं प्राप्तं त्वं प्राकृतभिन्नं जनं या त्वमनुशोचसि सा त्वं का ऽसि ॥ ५।३३।८ ॥
कोपादिति । कोपात् यदि वा मोहात् भर्तारं वशिष्ठं कोपयित्वा गता त्वमरुन्धती वासि ॥ ५।३३।९ ॥
क इति । ते पुत्रादिः कः । अर्धं पृथक्– रोदनादिति । रोदनादिना त्वां देवीं देवस्त्रियं न मन्ये किंतु राज्ञो रामस्य संज्ञावधारणात् अत्यन्तं नामग्रहणात् यानि व्यञ्जनानि बोधकानि ते लक्षणानि असाधारणचिह्नानि लक्षये तेभ्यश्च भूमिपालस्य निखिलब्रह्माण्डाधिपतेः रामस्य महिषी राजकन्या जनकराजपुत्री च मे मम मता निश्चिता । श्लोकद्वयं संमिलितान्वयि ॥ ५।३३।१०,११ ॥
रावणेनेति । जनस्थानात् रावणेन प्रमथिता सीता यदि त्वमसि तदा पृच्छतो मे आचक्ष्व ॥ ५।३३।१२ ॥
यथेति । यथा यथावत् तव दैन्यं वियोगदुःखजनितदीनता अतिमानुषं मानुषानतिक्रान्तम् अत्यद्भुतमित्यर्थः । तव रूपं च तपसा अन्वितस्तव वेषश्च अस्तीति शेषः अतस्त्वं राममहिष्येव ॥ ५।३३।१३ ॥
सेति । सा सीता तस्य हनूमतो वचनं श्रुत्वा रामकीर्तनहर्षिता सती द्रुमाश्रितं हनूमन्तमुवाच ॥ ५।३३।१४ ॥
तद्वचनाकारमाह पृथिव्यामित्यादिभिः । विदितात्मनः प्रख्यातस्वरूपस्य राजसिंहानां मुख्यस्य दशरथस्य स्नुषा ऽहमस्मि ॥ ५।३३।१५ ॥
दुहितेति । महात्मनो जनकस्याहं दुहिता सीतेति नाम्ना उक्ता जतैरभिहिता रामस्य भार्या ऽहमस्मीति शेषः ॥ ५।३३।१६ ॥
समा इति । मानुषान् मनुष्यसंबन्धिनो भोगान् पदार्थान् भुञ्जाना ऽहं राघवस्य निवेशने द्वादश समाः वर्षाणि अवसमिति शेषः ॥ ५।३३।१७ ॥
तत इति । ततः तत्र त्रयोदशे वर्षे इक्ष्वाकुनन्दनं राममभिषेचयितुं प्रचक्रमे ॥ ५।३३।१८ ॥
तस्मिन्निति । राघवस्याभिषेचने संभ्रियमाणे सति कैकेयी भर्तारमब्रवीत् ॥ ५।३३।१९ ॥
तद्वचनाकारमाह नेति । एष रामाभिषेकः मम जीवितस्यान्तः अतः यदि रामो ऽभिषिच्यते तर्हि प्रत्यह प्रतिदिनं यन्मम भोजनम् उदरे प्रापणीयं तत् न पिबेयं न खादेयम् ॥ ५।३३।२० ॥
यदिति । यत् तत् औदार्यपोषकत्वेन अनुत्तमं वाक्यं त्वया उक्तं तत् वितर्थं व्यर्थं न कार्यमतो राघवो वनं गच्छतु ॥ ५।३३।२१ ॥
स इति । सत्यवाक् स राजा देव्याः वरदानमनुस्मरन् सन् क्रूरं वियोगबोधकत्वेन घातुकम् अत एव अप्रियं कैकेय्या वचनं श्रुत्वा मुमोह ॥ ५।३३।२२ ॥
तत इति । ततस्तस्मात् हेतो रुदन् राजा ज्येष्ठं पुत्रं राज्यं वनराज्यमयाचत ॥ ५।३३।२३ ॥
स इति । स रामः अभिषेकात् परमधिकं प्रियं पितुर्वचनं पूर्वं मनसा आसाद्य अङ्गीकृत्य वाचापि प्रतिगृहीतवान् ॥ ५।३३।२४ ॥
दद्यादिति । यो रामः यत् दद्यात् तत् जीवितहेतोरपि न प्रतिगृह्णीयात् स रामः उत्तरीयाणि राज्यं च मनसा विसृज्य त्यक्त्वा समादिशत् वनगमनबोधकवचनमकथयत् । श्लोकद्वयमेकान्वयि ॥ ५।३३।२५,२६ ॥
सेति । तेन रामेण हीनाया यस्या मे स्वर्गे ऽपि वासो न रोचते सा ऽहं वनचारिणी सती तस्य रामस्य अग्रतः प्रस्थिता ॥ ५।३३।२७ ॥
प्रागिति । सौमित्रिः पूर्वजस्य रामस्यानुयात्रार्थे प्रागेव कुशचीरैरलंकृतो ऽभवदिति शेषः ॥ ५।३३।२८ ॥
ते इति । भर्तुः पालयितुर्दशरथस्य आदेशमाज्ञां बहुमान्य अत्यन्तं सत्कृत्य पुरा पूर्वमदृष्टं वनं वयं प्रविष्टाः स्म ॥ ५।३३।२९ ॥
वसत इति । दण्डकारण्ये वसतः तस्य रामस्य भार्या ऽहं रक्षसा ऽपहृता ॥ ५।३३।३० ॥
द्वाविति । [द्वाभ्यां मासाभ्यामूर्ध्वं ते जीवितं त्यक्ष्यामि त्याजयिष्यामीति वदतेति शेषः? ] तेन रक्षसा द्वौ मासौ मे जीवितानुग्रहः जीवनावधिरित्यर्थः कृतः । किंच द्वौ मासौ जीवितानुग्रहः कृतः अतः ततः ताभ्यां मासाभ्यामूर्ध्वं जीवितं त्यक्ष्यामि रामानागमने त्यक्तुमिच्छामि ॥ ५।३३।३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ५।३३ ॥