०३२ हनुमन्तं वीक्ष्य सीतायाः भयम्

हनुमद्वचनश्रवणानन्तरकालिकं सीतावृत्तान्तमाह तत इत्यादिभिः । ततः हनुमद्वचनश्रवणसमये वेष्टितं धृतमर्जुनवस्त्रम् अर्जुनवर्णसदृशवर्णविशिष्टपटो येन तं विद्युत्संघातवत् पिङ्गलं शाखान्तरे शाखामध्ये लीनं हनूमन्तं दृष्ट्वा चलितमानसा ऽभवदिति सीतेति च शेषः ॥ ५।३२।१ ॥

सेति । फुल्लाशोकोत्करवदाभासो यस्य तं तप्तचामीकरेक्षणं तप्तसुवर्णवर्णवन्नेत्रविशिष्टं हनुमन्तं ददर्श निरन्तरमवलुलोके ॥ ५।३२।२ ॥

सेति । विनीतवत् आविनीतोक्त्या अवस्थितं हरिश्रेष्ठं दृष्ट्वा परमं विस्मयं गता मैथिली चिन्तयामास ॥ ५।३२।३ ॥

चिन्ताकारमाह अहो इति । वानरस्य इदं सत्वं शरीरं भीमं रक्षसां भयंकरम् अत एव दुरासदं ग्रहीतुमशक्यम् अत एव दुर्निरीक्ष्यमिदमिति मत्वापि पुनर्मुमोह रामातिस्मृत्या वैचित्यं प्राप । एवो ऽप्यर्थे ॥ ५।३२।४ ॥

विललापेति । भयमोहिता भयं मोहितं यया सापि सीता दुःखार्ता सती भृशं विललाप ॥ ५।३२।५ ॥

रुरोदेति । मन्दत्वरा सती मन्दं मन्दं रुरोद अर्धं पृथक् । मन्दस्वरेत्यनेनेमं वानरं राक्षस्यो न जानन्त्वित्यभिप्रायः सूचितः । सेति । विनीतवदुपागतं हरिवरं दृष्ट्वा स्वप्नो ऽयमिति चिन्तयामास तर्कयामास । अर्धद्वयमेकान्वयि ॥ ५।३२।६ ॥

सेति । पृथु अधिकं भग्नं वज्रेण कृतव्रणं वक्रं यस्य तं मृगेन्द्रस्य सुग्रीवस्य यथोक्तकारम् अज्ञापितमात्रकारकं पिङ्गप्रवरं वानरश्रेष्ठं महार्हं वातात्मजं वीक्षमाणा सा सीता ददर्श केनोक्तमिति विचारयामास ॥ ५।३२।७ ॥

सेति । सा सीता तं हनूमन्तं समीक्ष्य रावणत्वेन वितर्क्य गतासुकल्पा गतप्राणसदृशी भृशमत्यन्तं विपन्ना चेष्टारहिता बभूव चिरेण किंचिद्विलम्बतः संज्ञां प्रतिलभ्य विचिन्तयामास ॥ ५।३२।८ ॥

विचिन्ताकारमाह– स्वप्न इत्यादिभिः । विकृतः चित्तविकारेणोत्पन्नः शास्त्रगणैर्वचनसमूहैर्निषिद्धः शाखामृगः शाखामृगदर्शनादिमयः अयं स्वप्नो मया दृष्टः । एतेन स्वप्नश्चेदयमनिष्टकारको भविष्यतीति सूचितम् । दुःस्वप्नजनितारिष्टनिवारणायाह रामादये स्वस्त्यस्तु ॥ ५।३२।९ ॥

स्वप्नकारणाभावादयं न स्वप्न इति निश्चित्याह स्वप्न इति । इन्दुपूर्णप्रतिमाननेन तेन रामेण यतो ऽहं विहीना अतो मे सुखं नास्ति अत एव शोकेन दुःखेन च पीडितायाः मे निद्रा नास्ति अत एव अयं वानरदर्शनादिः स्वप्नो न कारणाभावात्कार्यस्यासंभव इति तात्पर्यम् ॥ ५।३२।१० ॥

ननु एवं दुःखप्राप्तौ कथं तव जीवनमित्यत आह– रामेतीति । तं राममेव बुद्ध्या विचिन्त्य संस्मृत्य सदैव रामेति रामेति ब्रुवती अहं तस्य रामस्य अनुरूपं योग्यं वस्तु प्रपश्यामि विचारयामि मनसा रामाय समर्पयामीत्यर्थः । तदर्थां रामबोधिकां कथां वचनं शृणोमि । एतेनेदमेव मम जीवनमिति सूचितम् । कथां शृणोमीत्यस्य नाप्रसिद्धिः त्रिजटया कदाचिदागतविभीषणानुचरीभिश्च रामकथायाः कथ्यमानत्वात् ॥ ५।३२।११ ॥

ननु तर्हि किमर्थं शोचसीत्यत आह– अहमिति । तं राममेव विचिन्तयन्ती अहं मनोभवेन मनोनिष्ठभावनया तस्य रामस्य यद्यपि पश्यामि शृणोमि च तथापि तद्गतसर्वभावा तस्मिन् रामे गतः सन्निविष्टः सर्वः प्रत्यक्षादिना संपादितो भावो भावना यस्याः सा ऽहमद्य पीडितास्मि । एतेन प्रत्यक्षतो रामलाभमन्तरा दुःखनिवृत्तिर्न भविष्यतीति सूचितम् ॥ ५।३२।१२ ॥

ननु स्वाप्निकत्वाभावे ऽपि मनोरथो ऽयं भवेदित्यतो निराकुर्वती आह मनोरथ इति । अयं मनोरथः स्यात् इति चिन्तयामि तर्कयामि तथापि बुव्द्या निश्चयात्मकान्तःकरणवृत्त्या वितर्कयामि विचारेण निश्चिनोमि । तदाकारमाह तस्य मनोरथस्य रूपं चकारेण वचनाद्यपि नास्ति अयं वानरस्तु सुव्यक्तरूपः सन् मां वदति अतः किं किमपि कारणं मनोरथत्वे हेतुर्नास्ति ॥ ५।३२।१३ ॥

नम इति । अनेन वनौकसा ममाग्रतो ऽग्रं यदुक्तं तत्तथास्तु अन्यथा न भवेत् । एतदर्थमेव वाचस्पत्यादिभ्यो नमो ऽस्तु ॥ ५।३२।१४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ५।३२ ॥