सीतां श्रावयितुं हनुमत्कर्तृकदशरथादिसंकीर्तनमाह एवमित्यादिभिः । महामतिः हनुमान् वैदेह्याः संश्रवे संश्रवणार्थं मधुरं वाक्यं व्याजहार ॥ ५।३१।१ ॥
तद्वचनाकारमाह राजेत्यादिभिः । वृणी दयावान् अत एव अहिंसारतिः अत एव अक्षुद्रः क्षुद्रसंसर्गरहितः मुख्यस्येक्ष्वाकुवंशस्य लक्ष्मिवर्धनः लक्ष्मीवर्धनः लक्ष्म्याः प्रवर्धनः अत एव लक्ष्मीवान् पार्थिवव्यञ्जनैः राजचिह्नैः युक्तः पृथुश्रीः अतिशोभावान् चतुरन्तायां च चतुःसमुद्रपर्यन्तायां पृथिव्यां विश्रुतः ख्यातः राजा बभूवेति शेषः । श्लोकत्रयमेकान्वयि ॥ ५।३१।२४ ॥
तस्येति । स्ववृत्तादेः रक्षिता तस्य दशरथस्य रामो नाम ज्येष्ठः पुत्रः सत्याभिसंधस्य सत्यप्रतिज्ञस्य तस्य दशरथस्य पितुर्वचनात् वनं प्रव्रजितः समागतः । श्लोकत्रयमेकान्वयि ॥ ५।३१।५७ ॥
तेनेति । मृगयां परिधावता तेन रामेण बहवी राक्षसा निहताः ॥ ५।३१।८ ॥
जनेति । खरदूषणौ निहतौ श्रुत्वा अत एव जनस्थानवधं विध्वंसं श्रुत्वा मायया मृगरूपेण रामं वञ्चयित्वा जानकी रावणेन अमर्षापहृता अमर्षेणापहृता । सार्धश्लोक एकान्वयी ॥ ५।३१।९ ॥
स इति । सीतां मार्गमाणः स रामः सुग्रीवं नाम वानरं मित्रमाससाद प्राप चकारेत्यर्थः । अर्धद्वयमेकान्वयि ॥ ५।३१।१० ॥
तत इति । ततः सुग्रीवमैत्रीकरणानन्तरं रामो वालिनं हत्वा कपिराज्यं सुग्रीवाय प्रायच्छत् ॥ ५।३१।११ ॥
सुग्रीवेणेति । सुग्रीवेणाभिसंदिष्टाः सर्वे हरयः सर्वासु दिक्षु तां सीतां विचिन्वन्तो वर्तन्त इति शेषः ॥ ५।३१।१२ ॥
अहमिति । वेगवानहं संपातिवचनात् सीताबोधकसंपातिवाक्यं संश्रुत्य तस्याः सीताया हेतोः समुद्रं प्लुतः ॥ ५।३१।१३ ॥
यथेति । यथारूपां यादृशरूपविशिष्टां यथालक्ष्मवतीं यादृशचिह्नविशिष्टां तां सीतां राघवस्य राघवादहमश्रौषं तादृशी सेयं कान्ता मया आसादिता प्राप्ता ॥ ५।३१।१४ ॥
विररामेति । स हनूमान् एवमुक्त्वा विरराम जानकी तु तच्छ्रुत्वा परमं विस्मयं गता प्राप्ता । चस्त्वर्थे ॥ ५।३१।१५ ॥
तत इति । ततः रामवार्ताश्रवणानन्तरं सा सीता केशसंवृतं वदनमुन्नम्य उर्ध्वं कृत्वा शिंशुपामन्ववेक्षत ॥ ५।३१।१६ ।
निशम्येति । सीता कपेर्वचनं निशम्य अत एव सर्वा दिशो वीक्ष्य सर्वात्मना सर्वप्रकारेण राममनुस्मरन्ती सती परमं प्रहर्षं जगाम ॥ ५।३१।१७ ॥
सेति । तिर्यगादिनिरीक्षमाणा सा सीता अचिन्त्यबुद्धिं पिङ्गाधिपतेः सुग्रीवस्य अमात्यं वातात्मजम् उदयस्थमुदयगिरिस्थितं सूर्यमिव ददर्श ॥ ५।३१।१८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ ५।३१ ॥