०३० हनुमत्संभ्रमः

हनुमद्वृत्तान्तमाह हनूमानित्यादिभिः । विक्रान्तः अतिविक्रमवान् हनूमान् सीतायाः विलापं त्रिजटायाः स्वप्नं राक्षसीनां तर्जितं च सर्वं तत्त्वतः शुश्राव ॥ ५।३०।१ ॥

अवेक्षमाण इति । नन्दने देवतामिव तां सीतामवेक्षमाणो हनूमान् बहुविधाम् अनेकप्रकारां चिन्तां चिन्तयामास चकार ॥ ५।३०।२ ॥

तदाकारमाह यामिति । यां सीता कपीनां बहूनि सहस्राणि अयुतानि च सर्वासु दिक्षु मार्गन्ते सा इयं माया आसादिता प्राप्ता ॥ ५।३०।३ ॥

चारेणेति । सुप्रयुक्तेन स्वामिना नियुक्तेन अत एव शत्रोः शक्तिम् अवेक्षता अत एव गूढेन रूपेण चरता चारेण मया तावत्प्रथमम् इदं वृत्तमवेक्षितं ज्ञातम् ॥ ५।३०।४ ॥

राक्षसानामिति । राक्षसानां विशेषः न्यूनाधिकभावो रावणस्य प्रभावश्च निरीक्षित इति लिङ्गविपरिणामेनान्वयः ॥ ५।३०।५ ॥

यथेति । अप्रमेयस्य इयत्तारहितप्रभावस्य सर्वसत्त्वदयावतः रामस्य आश्वासयितुं योग्यामिति शेषः, पतिदर्शनकाङ्क्षिणी भार्यां न दृष्टं दुःखं यया दुःखस्यान्तमवसानम् अगच्छतीम् अगच्छन्तीमेनां सीताम् अहमाश्वासयामि आश्वसयिष्यामि । श्लोकद्वयमेकान्वयि ॥ ५।३०।६,७ ॥

तत्र हेतुमाह यदीति । एनां सतीम् अनाश्वास्य यद्यहं गमिष्यामि तदा मे गमनं दोपवद्दोपविशिष्टं भवेत् ॥ ५।३०।८ ॥

दोषाकारमाह गते इति । तत्र तस्मिन् मयि गते सति परित्राणं स्वरक्षाम् अपश्यन्ती जानकी जीवितं त्यजेत् ॥ ५।३०।९ ॥

यथेति । सीतादर्शनलालसः स रामः यथावत्समाश्वासयितुं सीतासंदेशकथनेन बोधयितुं युक्तः । एतेन सीतासंभाषणमवश्यं कर्तव्यमिति सूचितम् ॥ ५।३०।१० ॥

सीतासमाश्वासनं दुष्करमित्याह निशाचरीणामिति । निशाचरीणां प्रत्यक्षं अभिभाषितम् अभिभाषणम् अक्षमं न योग्यम् । अतः इदमनुशासनं मया कथं कर्तव्यमिति चिन्तया कृछ्रगतो ऽहमस्मीति शेषः ॥ ५।३०।११ ॥

अनेनेति । अनेन रात्रिशेषेण यदि सर्वथा नाश्वास्यते तर्हि जीवितं परित्यक्ष्यति संदेहः अत्र संशयो नास्ति ॥ ५।३०।१२ ॥

राम इति । सीता मां किमब्रवीत् इति रामो यदि मां पृच्छेत्तदा सुमध्यमां सीताम् असंभाष्य किं प्रतिब्रूयाम् ॥ ५।३०।१३ ॥

सीतेति । सीतासंदेशरहितं मां काकुत्स्थो रामः निर्दहेदपि ॥ ५।३०।१४ ॥

आश्वासनमन्तरा महाननर्थो भविष्यतीति निश्चित्याह यदीति । रामकारणात् रामप्रयोजनाद्धेतोः यदि भर्तारं सुग्रीवम् उद्योजयिष्यामि तर्हि ससैन्यस्य तस्य सुग्रीवस्यागमनं व्यर्थं भविष्यति । एतेन आश्वासनमन्तरा सीता जीवनं नैव भविष्यतीति सूचितम् । तेन सीता ऽवश्यमाश्वासनीयेति व्यञ्जितम् ॥ ५।३०।१५ ॥

अन्तरमिति । राक्षसीनां मध्ये अवस्थितो ऽहम् अन्तरमवकाशं राक्षसीनामवधानतामित्यर्थः । आसाद्य प्राप्य संतापबहुलां सीतां शनैराश्वासयामि ॥ ५।३०।१६ ॥

अहमिति । वानरः वानर-रूपो ऽहम् अतितनुः अतिसूक्ष्मशरीरः सन् संस्कृतां व्याकरण-संस्कारयुक्तां वाचम् उदाहरिष्यामि ॥ ५।३०।१७ ॥

वानर-रूपत्वे हेतुम् आह यदीति । यदि द्विजातिर् ब्राह्मण इव संस्कृतां वाचं प्रवक्ष्यामि - तदा मां रावणं मन्यमाना सीता भीतां भविष्यति । एतेनापहरण-समय-कृत-तद्-रूपस्य स्मृतिर् भविष्यतीति सूचितम् ॥ ५।३०।१८ ॥

ननु वानर-वाक्येनैवोच्यताम् इत्य् अत आह अवश्यम् इति । मानुषम् एव वाक्यं मयावश्यं वक्तव्यम् - अन्यथा इयं सान्त्वयितुं न शक्या ॥ ५।३०।१९ ॥

सेति । मे रूपं वानरस्वरूपं भाषितं मनुष्यवचनं च आलोक्य ज्ञात्वा पूर्वं रक्षोभिः त्रासिता सीता भूयः पुनः त्रासं राक्षसस्यैवार्य रूपविशेष इति विचारजनितखेदमुपेष्यति ॥ ५।३०।२० ॥

तत इति । ततो ऽनन्तरं जातपरित्रासा सीता मां रावणं जानाना सती शब्दं कुर्यात् ॥ ५।३०।२१ ॥

शब्दकरणे दोषमाह सीतयेति । सीतया शब्दे कृते सति नानाप्रहरणः राक्षसीगणः समेयात् ॥ ५।३०।२२ ॥

तत इति । ततो ऽनन्तरं मां सर्वतः संपरिक्षिप्य चक्षुःप्रेक्षेपेणावलोक्य वधे ग्रहणे च यत्नं कुर्युः ॥ ५।३०।२३ ॥

तमिति । उत्तमशाखिनां शाखादीन् धावन्तं मां दृष्ट्वा परिशङ्किताः भवेयुः शाखादीनां स्थूलसूक्ष्मादिभेदेन भेदान्न पौनरुक्त्यम् ॥ ५।३०।२४ ॥

ममेति । वने विचरतो मम रूपं संप्रेक्ष्य भयवित्रस्ता राक्षस्यो विकृतस्वरा भवेयुः ॥ ५।३०।२५ ॥

तत इति । ततः कृतविकृतस्वरानन्तरं राक्षस्यः राक्षसेन्द्रनिवेशने राक्षसेन्द्रनियुक्तानां रक्षसां समाह्वानं कुर्युः ॥ ५।३०।२६ ॥

ते इति । शूलादिपाणयस्ते अस्मिन् विमर्दे विमर्दहेतुभूते शब्दे सति उद्वेगकारणात् उद्वेगकरणार्थं वेगेन आपतेयुः ॥ ५।३०।२७ ॥

संरुद्ध इति । तैः राक्षसबलैः संरुद्धो ऽहं राक्षसं बलं विधमे विनाशयामि परन्तु महोदधेः पारं प्राप्तुं न शक्नुयां सीतया मम संभाषणादि ज्ञात्वा राक्षसैः सीताया अपि वधे समुद्रपारयोग्यता न भविष्यतीति तात्पर्यम् ॥ ५।३०।२८ ॥

मामिति । शीघ्रकारिणः बहवो राक्षसाः यदि मां गृह्णीयुः ग्रहणानुकूलव्यापारं कुर्युः मम च ग्रहणं भवेत् तदा इयं सीता अगृहीतार्था अज्ञातमदागमनप्रयोजना भवेत् ॥ ५।३०।२९ ॥

हिंसेति । वा यदि हिंसाभिरुचयो राक्षसाः जनकात्मजां हिंस्युस्ततस्तदा इदं सीतालाभरूपं रामसुग्रीवयोः कार्यं विपन्नं विनष्टं स्यात् ॥ ५।३०।३० ॥

उहेश इति । नष्टः अन्यैः अपरिज्ञातः मार्गो यस्मिन् तस्मिन् अत एव गुप्ते अपरिज्ञाते सागरेण परिक्षिप्ते चतुर्दिक्षु व्याप्ते राक्षसैः परिवारिते अस्मिन् उद्देशे उत्कृष्टस्थले जानकी वसति तेनान्यैर्द्रष्टुमप्यशक्यमिति सूचितम् ॥ ५।३०।३१ ॥

विशस्त इति । रक्षोभिर्मयि विशस्ते हिंसिते गृहीते वा सति रामस्य कार्यसाधने अन्यं सहायं न पश्यामि । एतेन सर्वेषां शोकग्रस्तत्वेन क्षीणबलादिमत्त्वं सूचितम् ॥ ५।३०।३२ ॥

विमृशन्निति । यो वानरः महोदधिं लङ्घयेत तं विमृशन् विचारयन्नहं न पश्यामि ॥ ५।३०।३३ ॥

ननु त्वमेव कार्यं साधयेत्यत आह– काममिति । रक्षसां सहस्राणि अनन्तराक्षसान् हन्तुं कामं समर्थो ऽस्मि तथापि महोदधेः परं पारं प्राप्तुं न शक्ष्यामि सीतामरणशङ्कया क्षीणशक्तिर्भविष्यामीति तात्पर्यम् ॥ ५।३०।३४ ॥

ननु राक्षसविघातानन्तरं जानकीप्राप्तिर्भविष्यत्येवेति किं संशयेनेत्यत आह– असत्यानीति । युद्धानि इदानीं राक्षसैः संग्रामाः असत्यानि जानकीजीवनविषयकसंशयाविष्टत्वेन असत्स्वरूपाणि सन्तीति शेषः । एतेन इदानीं युद्धं न कर्तव्यमिति सूचितम् । इदानीं युद्धान्निवृत्तिरेव वरेति बोधयन्नाह निःसंशयं संशयरहितं कार्यं संशयसहितं कः प्राज्ञः कुर्यात् न को ऽपीत्यर्थः ॥ ५।३०।३५ ॥

एष इति । सीताभिभाषणे वैदेह्याः प्राणत्यागः राक्षसकर्तृकप्राणत्याजनम् अनभिभाषणे च प्राणत्यागः शोककर्तृकप्राणत्याजनम् एष महान् दोषो मम स्यात् ॥ ५।३०।३६ ॥

भूता इति । भूतां सिद्धप्रायाः अर्याः विक्लवमनवधानं दूतमासाद्य प्राप्य देशकालविरोधिताः सन्तः सूर्योदये तम इव विरुध्यन्ति अन्यथा भवन्ति । एतेन दूतैरतिसावधानतया भवितव्यमिति सूचितम् ॥ ५।३०।३७ ॥

अर्थेति । हि यदि पण्डितमानिनो दूताः कार्याणि घातयन्ति तर्हि अर्थानर्थान्तरं कर्तव्याकर्तव्यविषये निश्चितापि स्वामिसचिवैर्निश्चयं प्रापितापि बुद्धिर्न शोभते । यतः पण्डितमानिनः पण्डितंमन्याः दूताः कार्याणि घातयन्ति ॥ ५।३०।३८ ॥

न विनश्येत्यादिश्लोकद्वयमष्टाविंशतितमे सर्गे व्याख्यातम् ॥ ५।३०।३९,४० ॥

स्वनिश्चयमाह– राममिति । अक्लिष्टकर्माणं क्लेशकारकक्रियारहितं स्वबन्धुं स्वस्याः सीतायाः बन्धुं प्रियं रामम् अनुकीर्तयन्नहं तद्बन्दुगतमानसाम् एनां नोद्वेजयिष्यामि ॥ ५।३०।४१ ॥

इक्ष्वाकूणामिति । इक्ष्वाकूणां वरिष्ठस्य रामस्य धर्मयुक्तानि वचनानि संदेशवाक्यानि समर्थयन् उच्चारयन् सन् तिष्ठामीति शेषः ॥ ५।३० ४२ ॥

श्रावयिष्यामिति । मधुरां गिरं प्रब्रुवन् सन् सर्वाणि रामसंदेशवचनानि श्रावयिष्यामि । यथा येन प्रकारेण सीता श्रद्धास्यति रामवचनत्वेन श्रद्धां करिष्यति तथा सर्वं सीतायाः आशङ्कितजातं समादधे प्रत्युत्तरयामि ॥ ५।३०।४३ ॥

इतीति । जगतिपतेर्जगतीपतेर्निखिलब्रह्माण्डस्वामिनो रामस्य प्रमदामवेक्षमाणः अत एव द्रुमविटपान्तरं तरुशाखामध्यम् आस्थितो हनूमान् मधुरं शोभनवर्णादिजनितमाधुर्यविशिष्टम् अवितथं मृषासंसर्गशून्यं वाक्यं जगाद ॥ ५।३०।४४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रिंशः सर्गः ॥ ५।३० ॥