त्रिजटावचनश्रवणानन्तरकालेरपि रावणोक्तिस्मृतिजनितसीताविलापं वर्णयन्नाह सेत्यादिभिः । रावणस्य तत्परुषम् अत एव अप्रियं वचो निशम्य संस्मृत्य अप्रियार्ता अप्रियेण प्रियसंयोगाभावेन आर्ता दुःखिता सा सीता वितत्रास त्रासं प्राप । तत्र दृष्टान्तः वनान्ते वनमध्ये सिंहाभिपन्ना सिंहवशं प्राप्ता गजराजकन्या यथा ॥ ५।२८।१ ॥
सेति । राक्षसीमध्यगता भृशमत्यन्तं वाग्भिः रावणतर्जिता सा सीता विजने जनरहिते कान्तारमध्ये निबिडवनमध्यभागे विसृष्टा त्यक्ता कन्या इव बिललाप ॥ ५।२८।२ ॥
तदाकारमाह सत्यमित्यादिभिः । यत्र यस्मात् एवं परिभर्त्स्यमाना अत एव पुण्या स्नानाद्यभावेन शुद्धिरहिता अहं किञ्चित्क्षणमपि जीवामि तस्मात् लोके अकालमृत्युर्न भवतीतीदं सन्तः सत्यं प्रवदन्ति ॥ ५।२८।३ ॥
सुखादिति । यत् यतः सुखात्प्रियसंयोगात् विहीनमत एव बहुदुःखपूर्णमिदं हृदयं वज्राहतं शैलस्य शृङ्गमिव सहस्रधा न विदीर्यते तस्मात् स्थिरं शैलशृङ्गादप्यतिदृढम् । एतेनात्मविघातकरणेच्छा सूचिता ॥ ५।२८।४ ॥
नन्वात्मघातदोषप्रसङ्ग इत्यत आह नैवेति । यतः अप्रियदर्शनस्य रावणस्याहं वध्या अतः अत्रात्मविघाते मम दोषं न ककुद्दोषणी इतिभाष्यप्रयोगात् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्याच्च दोषशब्दस्य नपुंसकत्वमपि । नन्वस्य प्रार्थनास्वीकारेणात्मविघातं निवारयेत्यत आह– अस्य रावणस्य भावं ममेहैवावस्थानरूपमभिप्रायं प्रदातुं स्वीकर्तुं नाहमलं समर्था । तत्र दृष्टान्तः– द्विजः अद्विजाय शूद्राय मन्त्रं वेदमिव ॥ ५।२८।५ ॥
तस्मिन्निति । लोकनाथे तस्मिन् रामे अनागच्छति सति अनार्यः क्षुद्रो रावणः ममाङ्गानि गर्भस्थजन्तोः दितिंगर्भस्थपवनस्य अङ्गानि शल्यकृन्त इन्द्र इव छेत्स्यति शल्यकृन्त इत्यत्र शोमुम्बार्षः ॥ ५।२८।६ ॥
दुःखमिति । चिराय बहुकालं दुःखितायाः मम राजापराधात् बद्धस्य अत एव निशान्ते वध्यस्य तस्करस्येदं दुःखमिव द्वौ मासौ अभिगमिष्यतः मासद्वयान्ते रावणकर्तृकमद्वधस्य निश्चितत्वात् आगामि मासद्वयं प्रातर्बद्धस्य चोरस्य निशान्तभाग इवेत्यर्थः ॥ ५।२८।७ ॥
हेति । हा राम एषा त्वत्तो वियुक्ता अत एव अल्पभाग्या ऽहं मूढः चित्तविभ्रामकः वातो यस्यां सा महार्णवे नौरिव सह भवद्भिरिति शेषः । विपद्यामि विनश्यामि ॥ ५।२८।८ ॥
तरस्विनाविति । मृगस्य रूपं धारयता वैद्युतेन अशनिना इव सत्त्वेन जन्तुविशेषेण सिंहर्षभौ सिहंश्रेष्ठाविव तरस्विनौ मनुजेन्द्रपुत्रौ मम कारणाद्विशस्तौ हिंसितौ नूनं किम् ॥ ५।२८।९ ॥
नूनमिति । मृगरूपधारी यः अल्पभाग्यां मां लुलुभे तदानीं तस्मिन् समये एव यत्र यत्समीपे लक्ष्मणपूर्वजं रामं रामानुजं च मूढा ऽहं विससर्ज प्रैषयं स कालः नूनं किम् ॥ ५।२८।१० ॥
हेति । हा राम जीवलोकस्य हितः प्रियश्च त्वं मां राक्षसानां वध्यां न वेत्सि किमिति शेषः ॥ ५।२८।११ ॥
अनन्येति । मम अनन्यदेवत्वं पत्येकपूजिकात्वं क्षमा रावणापराधसहनं च पतिव्रतात्वं पत्येकनिष्ठत्वं च कृतघ्नेषु मानुषाणां कृतमुपकार इव विफलं विनष्टप्रायम् ॥ ५।२८।१२ ॥
तदेव भङ्गयन्तरेणाह मोघमिति । त्वया हीना सङ्गमने आगामिसङ्गमे निराशा या ऽहं त्वां न पश्यामि तस्याः मम धर्मः मोघं चरितः एकपत्नीत्वम् एकैवाहं रामपत्नीत्यभिमानश्च निरर्थकम् ॥ ५।२८।१३ ॥
निरर्थकत्वमेवोपपादयन्ती आह पितुरिति । वीतभयः निवर्तितऋषित्रासः अत एव कृतार्थस्त्वं विपुलेक्षणाभिः स्त्रीभिः तत्कालिकविवाहविधिनार्जितभार्याभिस्त्वं रंस्यसे इत्यहं मन्ये । एतेन रामस्य भार्यान्तरं नास्तीति सूचितम् ॥ ५।२८।१४ ॥
अहमिति । त्वय्येव जातः उत्पन्नः कामः इच्छा यस्याः सा अत एव विनाशेनापि अथ त्वत्प्राप्तौ निबद्धः संलग्नः भावो ऽभिप्रायो यस्याः सा ऽहं मोधं त्वत्प्राप्तिरूपफलाभावेन निरर्थकं तपो व्रतं च चरित्वा जीवितं जीवनं त्यक्ष्यामि अतः अल्पभाग्यं मां धिक् ॥ ५।२८।१५ ॥
ननु क्षिप्रं कुतो न त्यजसीत्यत आह– संजीवितमिति । विषेण शितेन शस्त्रेण वा क्षिप्रं संजीवितं त्यजेयं परन्तु दाता कश्चिन्नास्ति ॥ ५।२८।१६ ॥
इतीवेति । इतीव अनेन प्रकारेण सर्वात्मना राममनुस्मरन्ती प्रेवपमाना अतिदुःखेन प्रकम्पं प्राप्नुवन्ती देवी सीता बहुधा अनेकप्रकारं विलप्य पुष्पितं नगोत्तमं शिंशपाम् आससाद तत्र तस्थौ ॥ ५।२८।१७ ॥
शोकेति । शोकाभितप्ता सीता बहुधा विचिन्त्य वेणीग्रथनं गृहीत्वा वेण्युद्ग्रथनेन वेणीरूपोद्बन्धनेन उद्बध्य गलं बद्ध्वा यमस्य कालस्यापि नियन्तुः मूलं समीपं शीघ्रमहं गमिष्यामीति चिन्तयामासेति शेषः ॥ ५।२८।१८ ॥
उपस्थितेति । मृदूनि सर्वगात्राणि यस्याः सा सीता नगस्य तस्य शिंशुपाभिधस्य शाखां गृहीत्वा उपस्थिता बभूवेति शेषः । अर्धं पृथक्– तस्या इति । रामादिकं परिचिन्तयन्त्याः तस्याः सीतायाः शङ्का रामागमनसंभावनानिमित्तं येषु तानि धैर्यार्जितानि धैर्यसंपादकानि सिद्धानि प्रसिद्धानि पुरा मिथिलायां रामागमनसमये उपलक्षितानि दृष्टानि प्रवराणि श्रेष्ठानि निमित्तानि शकुनाः तदाकाले शाखावलम्बेनोपस्थितिसमये प्रादुर्बभुवुः । प्रादुसो व्यवहितेन प्रयोग आर्षः । सार्धश्लोक एकान्वयी ॥ ५।२८।१९,२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे ऽष्टाविंशः सर्गः ॥ ५।२८ ॥