०२७ त्रिजटास्वप्नः

सीताविलापानन्तरकालिकं राक्षसीनां वृत्तान्तमाह– इतीत्यादिभिः । इति अनेन प्रकारेण सीतया घोरमुक्ताः अत एव क्रोधमूर्छिताः काश्चिद्राक्षस्यः तत्सीतोक्तमाख्यातुं कथयितुं रावणस्य समीपं जग्मुः ॥ ५।२७।१ ॥

तत इति । ततः बहूनां राक्षसीनां रावणसमीपगमनानन्तरं भीमदर्शनाः राक्षस्यः एकार्थं समानतात्पर्यकं परुषं वाक्यम् अनर्थार्थं स्वानर्थनिमित्ताय अब्रवन् ॥ ५।२७।२ ॥

तद्वचनाकारमाह– अद्येति । अद्य अस्मिन् दिने इदानीं अस्मिन् क्षणे पापः पापकारणीभूतहिंसासंपादकः यस्तव विनिश्चियस्तस्मिन्सति एतत्तव मांसं राक्षस्यो भक्षयिष्यन्ति ॥ ५।२७।३ ॥

सीतामिति । अनार्याभिः क्षुद्राभिः ताभिः राक्षसीभिः संतर्जितां सीतां दृष्ट्वा प्रबुद्धा त्यक्तस्वापा त्रिजटा राक्षसी अब्रवीत् ॥ ५।२७।४ ॥

तद्वचनाकारमाह आत्मानमिति । हे आनार्याः आत्मानं स्वशरीरं खादत जनकस्य सुतां सीतां न भक्षयिष्यथ ॥ ५।२७।५ ॥

तत्र हेतुमाह स्वप्न इति । अद्य अस्मिन् रात्रिशेषे राक्षसानामभावाय विनाशाय अस्याः सीतायाः भर्तुः भवाय अभ्युदयाय च दारुणः स्वप्नो मया दृष्टः ॥ ५।२७।६ ॥

एवमिति । त्रिजटया एवमुक्ता अत एव भीता राक्षस्यः त्रिजटामिदमब्रुवन् ॥ ५।२७।७ ॥

तद्वचनाकारमाह कथयस्वेति । त्वया दृष्टः स्वप्नः कीदृशः त्वं कथय स्वस्वप्नमित्यर्थतो लब्धम् । अर्धं पृथक् । राक्षसीनां मुखोद्गतं वचनं श्रुत्वा स्वप्नसंश्रितं स्वापबोधकं वचनं काले प्रातःकाले त्रिजटोवाच । अर्धद्वयमेकान्वयि ॥ ५।२७।८ ॥

तद्वचनाकारमाह गजेत्यादिभिः । गजदन्तमयीं वाजिसहस्रेण युक्ताम् अन्तरिक्षगतां शिबिकाम् आस्थाय लक्ष्मणेन सह शुक्लमाल्याम्बरधरो राघवः स्वयं समागतः इति स्वप्ने दृष्टमिति शेषः । सार्धश्लोक एकान्वयी ॥ ५।२७।९,१० ॥

स्वप्न इति । शुक्लाम्बरावृता सागरेण क्षीराब्धिना परिक्षिप्तं परिवेष्टितं श्वेतपर्वतम् आस्थिता भास्करेण प्रभा इव रामेण सङ्गता सीता स्वर्गगङ्गासदृशी सीता वैदेही स्वप्ने मया दृष्टा । सार्धश्लोक एकान्वयी । एकः सीताशब्दः आचारक्लिबन्तप्रकृतिककर्तृक्विबन्तः । “सीता लङ्गलपद्धतिः वैदेहीस्वर्गगङ्गासु” इति मेदिनी ॥ ५।२७।११ ॥

स्वप्नान्तरमाह– राघव इति । शैलसंकाशं श्वेतपर्वतसदृशं चतुर्दन्तं दन्तचतुष्टयविशिष्टं महागजमारूढः सहलक्ष्मणो राघवो यश्चकास स पुनर्दृष्टः । अर्धद्वयमेकान्वयि ॥ ५।२७।१२ ॥

तत इति । ततो ऽनन्तरं स्वतेजसा दीप्यमानौ अत एव सूर्यसंकाशौ सूर्यसदृशौ जानकीं पर्युपस्थितौ तौ रामलक्ष्मणौ शुक्लमाल्याम्बरधरौ दृष्टाविति शेषः ॥ ५।२७।१३ ॥

तत इति । ततो ऽनन्तरं तस्य श्वेतस्य नगस्य गिरेरग्रे भर्तुरङ्कात्समुत्पत्य आकाशस्थस्य भर्त्रा परिगृहीतस्य दन्तिनो गजस्य स्कन्धमाश्रिता जानकी दृष्टेति शेषः । सार्धश्लोक एकान्वयी ॥ ५।२७।१४,१५ ॥

स्वप्नान्तरमाह– चन्द्रेति । चन्द्रसूर्यौ पाणिभ्यां परिमार्जती सीता कुमाराभ्यां विशालाक्ष्या सीतया चास्थितो लङ्काया उपरि स्थितो गजोत्तमश्च मया दृष्टौ पुमान्स्त्रियेत्येकशेषः । “आदित्यमण्डलं वापि चन्द्रमण्डलमेव वा । स्वप्ने गृह्णाति हस्ताभ्यां महद्राज्यं समाप्नुयात्” इति स्वप्ननिर्णयः । सार्धश्लोक एकान्वयी ॥ ५।२७।१६ ॥

स्वप्नान्तरमाह– पाण्डुरेति । पाण्डुरा ये ऋषभा वृषभाः तैर्युक्तेन अत एव अष्टयुजा अष्टानां वृषभानां युक् योगो यस्मिन् तेन रथेन लक्ष्मणेन सहागतः सत्यपराक्रमो रामः ततो ऽन्यत्र समुद्रतीरे इत्यर्थः, मया दृष्टः । सार्धश्लोक एकान्वयी ॥ ५।२७।१७,१८ ॥

स्वप्नान्तरमाह– लक्ष्मणेनेति । लक्ष्मणेन सीतया च सह पुरुषोत्तमो रामः दिव्यं विमानं पुष्पकमालोच्यारुह्य च उत्तरां दिशं प्रस्थितः । सार्धश्लोक एकान्वयी ॥ ५।२७।१९ ॥

रामैश्वर्यसूचकं स्वप्नमुक्त्वा रावणविध्वंससूचकं स्वप्नमाह– रावण इत्यादिभिः । मुण्डितो मुण्डितकेशस्तैलसमुक्षितः तैलेन लिप्ताङ्गो रावणो दृष्टः । अर्धं पृथक् ॥ ५।२७।२० ॥

स्वप्नान्तरमाह– रक्तेति । रक्तवासाः पिबन्मद्यमिति शेषः, रावणः पुष्पकाद्विमानात् क्षितौ पतितः इति दृष्टमिति शेषः ॥ ५।२७।२१ ॥

स्वप्नान्तरमाह– कृष्यमाण इति । खरयुक्तेन रथेनोपलक्षितः स्त्रिया कृष्यमाणः कृष्णाम्बरो दृष्टः रावण इति शेषः ॥ ५।२७।२२ ॥

स्वप्नान्तरमाह पिबन्निति । तैलपानादि कुर्वन् शीघ्रमाश्रितो रावणः गर्दभेन दक्षिणां दिशं ययौ ॥ ५।२७।२३ ॥

स्वप्नान्तरमाह पुनरिति । भयमोहितो रावण अवाक्शिराः सन् भूमौ पतितः ॥ ५।२७।२४ ॥

सहसेति । संभ्रान्तः उद्विग्नचित्तः उन्मतरूपः उन्मत्तवदाचरणः दिग्वासाः नग्न इत्यर्थः । रावणः सहसोत्थाय बहुवाक्यं प्रलपन् सन् आस्तेति शेषः ॥ ५।२७।२५ ॥

स्वप्नान्तरमाह दुर्गन्धमिति । दृष्टो गन्धो यस्मिन् अत एव दुःसहं घोरं तीक्ष्णं तिमिरम् अन्धकाररूपं नरकोपमं यमपुरस्थनरकविशेषसदृशं नरकं प्रविश्य तत्र तस्मिन् नरके आशुमग्रः रावणो दृष्ट इति शेषः ॥ ५।२७।२६ ॥

स्वप्नान्तरमाह प्रस्थित इति । अकर्दमम् उपलक्षणतया कर्दमजलरहितं हृदं प्रविष्टः । अर्धं पृथक् । त्वप्नान्तरमाह कण्ठे इति । रक्तवासिनी अरुणवस्त्रा काली नीलवर्णविशिष्टा कर्दमलिप्ताङ्गी प्रमदा दशग्रीवं कण्ठे बद्ध्वा याम्यां दिशं प्रकर्षति ॥ ५।२७।२७ ॥

एवमिति । एवमनेन प्रकारेण दक्षिणामाशां दिशं प्रयातः कर्दमं कर्दममयं हृदं प्रविष्टः कुम्भकर्णः तत्र स्वप्ने मया दृष्टः ॥ ५।२७।२८ ॥

रावणस्येति । मुण्डाः मुण्डितकेशाः तैलसमुक्षिताः तैलाभ्युक्ताः रावणस्य सर्वे सुताः दृष्टा इति शेषः । अर्धं पृथक् । स्वप्नान्तरमाह वराहेणेति । वराहादिना दशग्रीवादयः दक्षिणां दिशं प्रयाताः । अर्धद्वयमेकान्वयि ॥ ५।२७।२९ ॥

विभीषणस्य शुभसूचकं स्वप्नमाह एक इति । चतुर्भिः सचिवैः सार्धं वैहायसमाकाशमुपस्थितः श्वेतच्छत्रः एको विभीषणो मया दृष्टः ॥ ५।२७।३० ॥

विभीषणातिरिक्तसर्वराक्षसानामनिष्टसूचकं स्वप्नमाह समाज इति । गीतवादित्रयोर्निःस्वनो यस्मिन् सः रक्तमाल्यानां रक्षसां महान् समाजः वृत्तः प्रवृत्तः ॥ ५।२७।३१ ॥

लङ्केति । इयं लङ्का भग्नगोपुरतोरणा सती सागरे पतिता ॥ ५।२७।३२ ॥

पीत्वेति । सर्वा राक्षसयोषितः भस्मरूक्षायां भस्मना रूक्षत्वविशिष्टायां लङ्कायां तैलं पीत्वा प्रमत्ताः आसन्निति शेषः ॥ ५।२७।३३ ॥

स्वप्नान्तरमाह कुम्भेति । सर्वे कुम्भकर्णादयः रक्तं निवसनं कुत्सितवस्त्रमित्यर्थः, गृह्य गृहीत्वा गोमये हृदे प्रविष्टाः ॥ ५।२७।३४ ॥

स्वप्नमुक्त्वा राक्षसीनां कर्तव्यमाह अपेति । अपगच्छत सीताभर्त्सनात् निवर्तध्वम् । तत्र हेतुमाह राघवः सीतामाप्नोति इति पश्यध्वं पश्यत जानीत । ननु किं तेनेत्यत आह परमामर्षी राघवः राक्षसैः सार्धं युष्मान् सीताभर्त्सनकर्त्रीः घातयेत् ॥ ५।२७।३५ ॥

प्रियामिति । वनवासमनुव्रतां भर्त्सितां तर्जितां भार्या राघवो नानुमंस्यति सहिष्यते ॥ ५।२७।३६ ॥

तदिति । तदुक्तहेतोः क्रूरवाक्यैरलं सान्त्वं सान्त्वनवचनमेव अभिधीयतां वैदेहीमभियाचाम प्रार्थयाम एतदेव मम रोचते ॥ ५।२७।३७ ॥

सुस्वप्नफलमाह यस्या इति । यस्याः दुःखितायाः एवंविधः स्वप्नो दृश्यते सा बहुभिर्दुःखैर्मुक्ता सती अनुत्तमं प्रियं प्राप्नोति ॥ ५।२७।३८ ॥

भर्त्सितमिति । भर्त्सितामपि सीतां याचध्वं भर्त्सनजनितापराधं क्षमापयध्वं राक्षसानां राघवान् घोरं भयमुपस्थितम् अतः विवक्षया बहुवक्तुमिच्छया किम् । एतेन सीताप्रसादनं कर्तव्यमेवेति सूचितम् ॥ ५।२७।३९ ॥

प्रसादनफलमाह प्रणिपातेति । हे राक्षस्यः प्रणिपातप्रसन्ना मैथिली भयात्रातुमलं समर्था ॥ ५।२७।४० ॥

सीताभ्युदयसूचकं शरीरलक्षणमाह अपीति । अस्याः सीतायाः अङ्गेषु विरूपं निषिद्धरूपं रूपवैपरीत्यमित्यर्थः, नोपलक्षये । किं च सुसूक्ष्ममपि किंचित् लक्षणं आपत्तिस्थिरीकारकचिह्नं नोपलक्षये पश्यामि ॥ ५।२७।४१ ॥

छायेति । वैहायसम् उपस्थितां स्वप्ने आकाशस्थात्वेन दृष्टाम् अदुःखार्हां दुःखायोग्याम् इमां देवीं सीताम् उपस्थितं दुःखं छायावैगुण्यमात्रं राहुच्छायाकृतवैगुण्यसदृशं यथा राहुकर्तृकचन्द्रग्रासः प्रातिभासिक एव तथेदं दुःखमपीत्यर्थः ॥ ५।२७।४२ ॥

अर्थेति । राक्षसेन्द्रविनाशं राघवस्य विजयं च अत एव उपस्थितां वेदेह्याः अर्थसिद्धिं च अहं पश्यामि ॥ ५।२७।४३ ॥

निमित्तेति । अस्याः सीतायाः महत्प्रियं श्रोतुं निमित्तभूतं पद्मपत्रमिवायतं स्फुरच्चक्षुश्च दृश्यते ॥ ५।२७।४४ ॥

ईषदिति । दक्षिणायाः अतिनिपुणायाः अस्याः सीतायाः अदक्षिणः दक्षिणभिन्नः वाम इत्यर्थः, एको दक्षिणबाहुसदुशः बाहुः हृषितः हर्षं प्राप्तः भाविहर्षसूचक इत्यर्थः अत एव प्रकम्यते ॥ ५।२७।४५ ॥

करेण्विति । करेणुहस्तप्रतिमः शुण्डादण्डसदृशः अत एव अनुत्तमः अतिश्रेष्ठः अस्याः ऊरुः वेपन् प्रस्फुरन् सन् पुरतः स्थितं राघवं कथयतीव ॥ ५।२७।४६ ॥

पक्षीति । शाखानिलयं शाखास्तितस्वस्वनीडं प्रविष्टः पुनः पुनरुत्तमसान्त्ववादी उत्तमसान्त्वनवचनशीलः हृष्टः पक्षी वायसादिः सुशोभनं स्वागतं वियुक्तजनागमनं यया तां वाचम् उदीरयाणः सन् पुनः पुनश्चोदयति आनन्दं प्राप्नुहीति सीतां प्रेरयतीव ॥ ५।२७।४७ ॥

तत इति । ततः त्रिजटावचनश्रवणानन्तरं भर्तुर्विजयहर्षिता विजयश्रवणेन प्राप्तहर्षा ह्रीमती कुलोचितलज्जाविशिष्टा सा सीता यदि तथ्यं भवत्युक्तं तथ्यं सत्यं तर्हि वो युष्माकं शरणं रक्षिका अहं भवेयमित्यवोचत् ॥ ५।२७।४८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे सप्तविंशः सर्गः ॥ ५।२७ ॥