०२६ सीतायाः प्राणत्यागनिश्चयः

सीतावृत्तान्तमेवाह प्रसक्तेत्यादिभिः । प्रसक्तानि प्रवृत्तानि अश्रूणि मुखे यस्याः सा अत एव अधोगतमुखी जनकात्मजा एवं ब्रुवती उन्मत्ता भूतैराविष्टेव प्रमत्ता पित्तादिदोषदूषितात्वेन प्रमादविशिष्टेव भ्रान्तचित्ता दिग्भ्रमादिजनितभ्रान्तिविशिष्टचित्तविशिष्टेव शोचती शोचन्ती उपावृत्ता श्रमापनोदाय लुण्ठितुं प्रवृत्ता किशोरी अश्वकन्येव महीतले विचेष्टन्ती जनकात्मजा विलप्तुं विलपितुमुपचक्रमे । श्लोकद्वयमेकान्वयि ॥ ५।२६।१,२ ॥

विलापाकारमाह राघवस्येत्यादिभिः । तस्य प्रसिद्धस्य राघवस्य प्रमत्तस्य तत्सामर्थ्यादिविज्ञात्री अहं रावणेन प्रमथ्य संन्यासिवेषेण संक्लेश्य क्रोशती क्रोशन्ती सती बलादानीता ऽ ऽहृता ॥ ५।२६।३ ॥

राक्षसीति । राक्षसीवशमापन्ना अत एव सुदुःखार्ता चिन्तयन्ती राममिति शेषः, अहं जीवितुं नोत्सहे ॥ ५।२६।४ ॥

नहीति । रामं विना वसन्त्या मे जीवितादिना अर्थो न ॥ ५।२६।५ ॥

अश्मसारेति । येन ममेदं हृदयं दुःखेन न विदीर्यते तेन हेतुना इदमश्मसारमजरामरं वा मन्ये इति शेषः ॥ ५।२६।६ ॥

धिगिति । तेन रामेण विना रहिता कृता अत एव पापः दुःखप्रदः जीवो जीवनं यस्याः सा ऽहं मुहूर्तमपि जीवितं जीवनं जीवामि धारयामि अतो नार्यामार्यहीनामत एवासतीमविद्यमानप्रायां मां धिक् ॥ ५।२६।७ ॥

ननु रावणसमर्पितैश्वर्येण शोकः किमर्थं न कथञ्चिन्निवार्यते इत्यत आह चरणेनेति । निशाचरं निशाचराधिपत्यं सव्येन चरणेनापि न स्पृशेयम् अतः विगर्हितं निन्दितरावणं रावणैश्वर्यं किं कथं कामयेयम् ॥ ५।२६।८ ॥

प्रत्याख्यानमिति । नृशंसस्वभावेनोपलक्षितो यो रावणः मां प्रार्थयितुं मन्नित्यस्थितिं याचितुमिच्छति सः प्रत्याख्यानं राक्षसदेशो मया स्थातुमशक्य इति मदुक्तिं न जानाति गृह्णातीत्यर्थः, अत एव आत्मानं रामं आत्मनः कुलं च न जानाति विचारयति ॥ ५।२६।९ ॥

छिन्नेति । छिन्ना शूलादिना कृतच्छिद्रा वा भिन्ना खड्गादिना द्विधाभावं प्रापिता वा प्रभिन्ना कुठारादिना अवयवशः खण्डिता वा अग्नौ दीप्ता भक्षणाय भर्जिता वा प्रदीप्ता अत्यन्तं दाहिता वा ऽहं रावणं रावणैश्वर्यं नोपतिष्ठेयं राक्षसपुरे न वसेयमित्यर्थः ॥ ५।२६।१० ॥

ख्यात इति । ख्यातत्वादिविशिष्टो राघवः मद्भाग्यसंक्षयात् निरनुक्रोशः दयारहितः इति शङ्के नेत्यर्थः काकुः ॥ ५।२६।११ ॥

राक्षसानामिति । येन निरस्तानि स रामः मां किं किमर्थं नाभिपद्यते ॥ ५।२६।१२ ॥

निरुद्धेति । यद्यपि मे भर्ता रावणं हन्तुं समर्थः तथापि अहं निरुद्धा एतेनात्र कारणं दुरूहमिति ध्वनितम् ॥ ५।२६।१३ ॥

विराध इति । येन विराधो निहतः स रामः मां नाभ्यवपद्यते किमर्थमिति शेषः ॥ ५।२६।१४ ॥

काममिति । समुद्रस्य मध्ये इयं लङ्का यद्यपि कामं दुष्प्रधर्षणा तथापि रामबाणानां गतिरोधो न भविष्यति ॥ ५।२६।१५ ॥

किमिति । येन कारणेन अपहृतां भार्यां रामो नाभ्युपपद्यते तत्कारणं किम् ॥ ५।२६।१६ ॥

इहेति । तेजस्वी रामः इहस्थां मां न जानीते । तत्र हेतुः जानन्नपि धर्षणां रावणप्रागल्भ्यं सहिष्यति काक्वानेत्यर्थः इति शङ्के ॥ ५।२६।१७ ॥

इहस्थितिविषयकज्ञानाभावे हेतुमाह– हृतेति । यो ऽधिगत्य ज्ञात्वा हृतेति मां राघवाय निवेदयेत् स गृध्रराजो ऽपि निपातितः अतः को मद्वृत्तं श्रावयेदिति तात्पर्यम् ॥ ५।२६।१८ ॥

प्रसङ्गत्या आह कृतमिति । मामभ्यवपद्यता अत एव रावणवधे तद्वधार्थं तिष्ठता वृद्धेनापि जटायुषा महत् कर्म कृतम् । “रावणद्वन्द्व” इति पाठान्तरम् ॥ ५।२६।१९ ॥

यदीति । इह वर्तमानां मां राघवो यदि जानीयात् तदा अभिक्रुद्धः सन् लोकं राक्षसपुरमराक्षसं राक्षसरहितं कुर्यात् लङ्कां निर्दहेच्च अत एव रावणस्य कीर्तिं नाम च नाशयेच्च । श्लोकद्वयमेकान्वयि ॥ ५।२६।२०,२१ ॥

तत इति । ततो राक्षसविध्वंसानन्तरं रुदती या ऽहं तस्या रोदनं यथा तथा गृहे गृहे निहतनाथानां राक्षसीनां रोदनं भविष्यतीति शेषः ॥ ५।२६।२२ ॥

अन्विष्येति । हि यतः ताभ्यां रामलक्ष्यणाभ्यां दृष्टो रिपुः मुहूर्तमपि न जीवति अतः लङ्कामन्विष्य रक्षसां विध्वंसमिति शेषः, कुर्यात् ॥ ५।२६।२३ ॥

चितेति । चिताधूमैराकुला व्याप्ताः पन्थानो यस्यां सा अचिरेणैव कालेन श्मशानसदृशी भवेत् लङ्केति शेषः ॥ ५।२६।२४ ॥

राक्षसीरुद्दिश्याह अचिरेणेति । वो युष्माकं विपर्ययः शास्त्रविरुद्धः दुष्प्रस्थानः दुर्मार्गो भाति अतः एनमुक्तं मनोरथमचिरेणैव कालेन प्राप्स्यामि ॥ ५।२६।२५ ॥

यादृशानीति । लङ्कायां यादृशानि अशुभानि कर्माणि दृश्यन्ते तैः अचिरेणैव कालेन लङ्का हतप्रभा भविष्यति ॥ ५।२६।२६ ॥

नूनमिति । पापे रावणे हते सति विधवा पतिरहिता प्रमदा इव दुर्धर्षा ऽपि लङ्का शोषं विनाशमेष्यति ॥ ५।२६।२७ ॥

तदेव भङ्ग्यन्तरेणाह पुण्येति । नष्टभत्रीं अङ्गना इव लङ्का नष्टभर्त्री भविष्यति ॥ ५।२६।२८ ॥

नूनमिति । रुदतीनां राक्षसकन्यानां ध्वनिं गृहे गृहे श्रोष्याम्येव । इव एवार्थे ॥ ५।२६।२९ ॥

सेति । रक्तान्तलोचनो रामः राक्षसस्य निवेशने वर्तमानां मां यदि जानीयात् तदा लङ्का रामसायकैर्दग्धा अत एव दग्धा राक्षसपुङ्गवा यस्याम् अत एव हतद्योता अत एव सान्धकारा भविष्यति । श्लोकद्वयमेकान्वयि ॥ ५।२६।३०,३१ ॥

अनेनेति । अधमेन रावणेन यः समयः मद्विघाताय द्वादशमासरूपकालः निर्दिष्टः तस्य कालः समाप्तिः अयं समीपस्थः सन्नागतः ॥ ५।२६।३२ ॥

स इति । दृष्टेन रावणेन यो मे मृत्युर्विहितः स मृत्युः ये नैर्ऋताः अकार्यं न जानन्ति तेषां समीपे इति शेषः । अस्मिन् काले वर्तते ॥ ५।२६।३३ ॥

अधर्मादिति । ये एते राक्षसाः धर्मं न विजानन्ति तेषाम् अधर्मात् मद्वधोपायजनितपापात् महोत्पातः सकलराक्षसविनाशकारकः शकुनविशेषः सांप्रतं शीघ्रमेव भविष्यति ॥ ५।२६।३४ ॥

ध्रुवमिति । राक्षसः प्रातराशार्थे प्रातःकालिकभोजनार्थे मां ध्रुवं कल्पयिष्यति । अर्धं पृथक् सेति । सा प्राप्तराक्षसकर्तृकविघातसमये राममपश्यन्ती अहं रामं विना कथं करिष्यामि । अर्धद्वयमेकान्वयि ॥ ५।२६।३५ ॥

यदीति । अद्य राक्षसकर्तृकविघातात्पूर्वमेव यदि कश्चित् पतिना पत्या पतिनाविना विद्यमानायाः मे मह्यं विषं प्रदाता भवेत् विषादानादिना विघातसमर्थो भवेदित्यर्थः, तदा वैवस्वतं विवस्वतो ध्येयं देवं नित्यप्रमोदं राममहं पश्येयम् ॥ ५।२६।३६ ॥

नेति । जीवतीं जीवन्तीं मां जानन्तौ तौ रामलक्ष्मणौ परिमार्गणमन्वेषणं न कुर्यातां नो कुर्यातामेवेत्यर्थः, अतः मां जीवतीं लक्ष्मणपूर्वजः स रामः नाजानात् ॥ ५।२६।३७ ॥

नूनमिति । मम शोकेन देहम् ऐश्वर्यवृद्धिं महीतले त्यक्त्वा इतो महीतलात् देवलोकं लक्ष्मणाग्रजो यातः नूनमित्याशङ्कायाम् ॥ ५।२६।३८ ॥

धन्या इति । मम रामं ये पश्यन्ति ते देवादयो धन्याः ॥ ५।२६।३९ ॥

ननु नित्यपरिपूर्णकामस्य रामस्य त्वया किं साध्यं यतस्त्वदर्थं यतेत इत्यत आह अथेति । परमात्मनः धर्मकामस्य नित्यं धर्ममनस्कस्य रामस्य अथ भार्यया माङ्गलिकस्त्रिया अर्थः प्रयोजनं नहि नास्त्येवेत्यर्थः, एतेन भार्या विना धर्मसिद्धिर्न भवतीति ध्वनितम् । तथाच श्रुतिः"यत् कर्तव्यं तदनया सह" इति ॥ ५।२६।४० ॥

ननु बहुकालतस्त्वददर्शनात् रामस्य त्वय प्रीतिर्नास्तीत्यत आह– दृश्यमान इति । कृतघ्नाः अदृश्यतः अदृश्यमानस्य सौहृदं नाशयन्ति अतः दृश्यमाने एव प्रीतिः कृतघ्नमैत्री भवेत् रामस्तु सौहृदं न नाशयिष्यति ॥ ५।२६।४१ ॥

आशङ्कान्तरमाह किमिति । या सीता अहं रामेण हीना तस्यां मयि केचित् अगुणाः दोषाः किं वा भाग्यक्षयः ॥ ५।२६।४२ ॥

श्रेय इति । महात्मनः रामात् विहीनायाः मे जीवितात् मर्तुं प्रयतनमेव श्रेयः ॥ ५।२६।४३ ॥

अथवेति । अथवा न्यस्तशस्त्रौ त्यक्तशस्त्रास्त्रौ सन्तौ भ्रातरौ रामलक्ष्मणौ वनगोचरौ अभवतामिति शेषः ॥ ५।२६।४४ ॥

शङ्कान्तरमाह अथवेति । अथवा रावणेन छद्मना कापट्येन शूरौ घातितौ ॥ ५।२६।४५ ॥

सेति । सा रामवियुक्ता ऽहम् अकाले प्रक्षेपाभाववति अस्मिन् दुःखे अतिवर्तति अत्यन्तं वर्तमाने सति सर्वतः सर्वथा मर्तुमिच्छामि परं तु मे मृत्युर्न विहितः ॥ ५।२६।४६ ॥

धन्या इति । येषां प्रियाप्रिये न स्तः ते सत्यसंमताः ब्रह्ममात्रनिष्ठाः मुनयो धन्याः ॥ ५।२६।४७ ॥

ननु प्रियाप्रियाभावेन किमित्यत आह– प्रियादिति । प्रियात् अधिकं दुःखम् अवश्यं भाविवियोगे सति क्लेशः न संभवेत् अप्रियात् अवश्यंभाविसंयोगे सत्यपि न भवेत् । प्रियाप्रिययोरभावादिति शेषः, अतः ताभ्यां प्रियाप्रियाभ्यां ये वियुज्यन्ते तेषां महात्मनां तेभ्यो महात्मभ्यो नमः ॥ ५।२६।४८ ॥

सेति । प्रियेण रामेण त्यक्ता अत एव रावणस्य वशं गता प्राप्ता ऽहं प्राणान् त्यक्ष्यामि त्यक्तुमिच्छामि ॥ ५।२६।४९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षड्विंशः सर्गः ॥ ५।२६ ॥