भर्त्सितसीतावृत्तान्तमेवाह अथेत्यादिभिः । परुषं वदन्तीनां राक्षसीनां मध्ये जनकात्मजा रुरोद ॥ ५।२५।१ ॥
एवमिति । राक्षसीभिः एवमुक्ता वैदेही बाष्पगद्गदया गिरा उवाच ॥ ५।२५।२ ॥
तदाकारमाह नेति । मानुषी मनुष्यसंबन्धिनी भार्या राक्षसस्य भवने भवितुं स्थातुं नार्हति अतः वो वचो न करिष्यामि अतो मां खादत ॥ ५।२५।३ ॥
सेति । राक्षसीमध्यगता सीता शर्म सुखं न लेभे ॥ ५।२५।४ ॥
तदेव भङ्ग्यन्तरेणाह वेपते इति । आत्मनो ऽङ्गम् आविशन्तीव कमठवत् सङ्कचितशरीरेत्यर्थः, सीता कोकैः वृकैः अर्दिता वृकी इव वेपते स्म ॥ ५।२५।५ ॥
सेति । अशोकस्य अशोकसदृशस्य शिंशुपायाः विपुलां शाखामालम्ब्य शोकेन उपलक्षिता अतः भग्नमानसा सा सीता भर्तारं चिन्तयामास । अशोकशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः । इवार्थकः तुशब्दो वा ॥ ५।२५।६ ॥
सेति । चिन्तयन्ती राक्षसीदुरुक्तिं स्मरन्ती अत एव नेत्रजलस्रवैः स्तनौ स्नापयन्ती सा सीता शोकस्यान्तं निवृत्तिं नाधिगच्छति ॥ ५।२५।७ ॥
सेति । राक्षसीनां भयत्रस्ता अत एव प्रवातकदलीव वेपमाना अत एव पतिता सा सीता विवर्णवदना अभवत् ॥ ५।२५।८ ॥
तस्या इति । तस्याः भीतायाः वेपन्त्याः सीतया सीतायाः दीर्घबहुला अतिदीर्घा कम्पिता सा प्रसिद्धा वेणी परिसर्पती परिसर्पन्ती व्याली सर्पिणी इव ददृशे ॥ ५।२५।९ ॥
सेति । शोकोपहतचेतना सा सीता अश्रूणि व्यसृजत् विललाप च ॥ ५।२५।१० ॥
विलापाकारमाह हेत्यादिभिः । हा रामेत्याद्युवाचेति शेषः, हा सुमित्रेतीत्यत्र संधिरार्थत्वात् नमुनेत्यत्र नकारप्रश्लेषेण त्रिपाद्याः क्वचिदसिद्धत्वाभावज्ञापनाद्वा ॥ ५।२५।११ ॥
लोकेति । यत्र यतः आभिः राक्षसीभिः अर्दिता रामेण च हीना अत एव दुःखिता अहं मुहूर्तमपि जीवामि अतः पण्डितैः समुदाहृतः अकाले मृत्युर्दुर्लभः अयं लोकप्रवादः सत्यः । श्लोकद्वयमेकान्वयि ॥ ५।२५।१२,१३ ॥
एषेति । अल्पपुण्येव एषा ऽहं विनशिष्यामि विनङ्क्ष्यामि । तत्र दृष्टान्तः वायुवेगैराहता पूर्णां समुद्रमध्ये गौरिव ॥ ५।२५।१४ ॥
भर्तारमिति । भर्तारमपश्यन्ती अत एव राक्षसीवशमागता अहं तोयहतं कूलमिव शोकेन सीदामि ॥ ५।२५।१५ ॥
तमिति । सिंहविक्रान्तवत् गच्छति तच्छीलः तं मे नाथं मे पश्यन्ति ते धन्याः ॥ ५।२५।१६ ॥
सर्वथेति । रामेण हीनायाः अत एव तीक्ष्णं विषम् आस्वाद्य भक्षयित्वा विद्यमानाया इव मम जीवनं सर्वथा दुर्लभम् ॥ ५।२५।१७ ॥
कीदृशमिति । येन कर्मणा इदं महद्दुःखं प्राप्यते तत् देहान्तरे देहमध्ये पापमिव कीदृशं कर्म मया कृतं संचितम् ॥ ५।२५।१८ ॥
जीवितमिति । राक्षसीभिः रक्ष्यन्त्या रक्ष्यमाणया मया रामो नासाद्यते प्राप्यते अतः महता शोकेन वृता ऽहं जीवितं जीवनं त्यक्तुमिच्छामि ॥ ५।२५।१९ ॥
नित्यात्वेन स्वमरणाभावं संस्मृत्याह धिगिति । यत् यस्मात् आत्मच्छन्देन स्वाधीनतया जीवितं परित्यक्तुं न शक्यं तस्मात् मानुष्यं नित्यमनुष्यत्वं धिगस्तु अत एव परवश्यतां धिग् अन्यतरस्याभावे एवं दुःखं न स्यादिति तात्पर्यम् ॥ ५।२५।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चविंशः सर्गः ॥ ५।२५ ॥