०२४ सीता-राक्षसीसंवादः

सीतां प्रति संघीभूतराक्षसीनां परुषोक्तिमाह तत इत्यादिभिः । ततः तदुक्त्यनन्तरं समस्ताः राक्षस्यः परुषानर्हां सीतां परुषमप्रियं वाक्यमूचुः ॥ ५।२४।१ ॥

तदाकारमाह किमिति । हे सीते महार्हशयनैरुपेते सर्वभूतमनोहरे अन्तःपुरे वासं स्वामिनीत्वेन स्थितिं किं किमर्थं नानुमन्यसे । अत्रत्यवचनानां परुषत्वं रामवियोगपोषकत्वेनेति बोध्यम् ॥ ५।२४।२ ॥

मानुषीति । मानुषी मनुवंशजाता मानुषस्य मनुवंशजातस्य भार्यां त्वं यं बहुमन्यसे तस्मात् रामात् मनः प्रत्याहर । तत्र हेतुः एवं त्वदीप्सितरामसङ्गम इत्यर्थः, जातु कदाचिदपि न भविष्यति ॥ ५।२४।३ ॥

त्रैलोक्येति । त्रैलोक्यवसुभोक्तारं भर्तारं मत्पतिम् उपसंगम्य तत्कर्तृपूजात्वेन संप्राप्य यथासुखं विहरस्व ॥ ५।२४।४ ॥

मानुषीति । राज्यात् भ्रष्टं मानुषं रामं मानुषी त्वमिच्छसि । एतेन नैतद्युक्तमिति सूचितम् ॥ ५।२४।५ ॥

राक्षसीनामिति । राक्षसीनां वचः श्रुत्वा सीता इदमब्रवीत् ॥ ५।२४।६ ॥

तदाकारमाह यदिति । लोकविद्विष्टं शास्त्रादिविरुद्धम् अत एव किल्विषं पापमयम् इदं रामवियोगपोषकं यद्वाक्यं संगताः यूयमुदाहरथ तदेतत् वाक्यं मे मनसि न प्रतितिष्ठति ॥ ५।२४।७ ॥

नेति । हे भार्याः हे रावणपत्न्यः मानुषी मनुष्यस्त्री राक्षसस्य पुरे भवितुं नार्हति अतः वो वचः न करिष्यामि अतः सर्वाः यूयं मां खादत ॥ ५।२४।८ ॥

दीन इति । दीनो राज्यहीनो वा उत्प्रेक्षितदीनत्वादिविशिष्टः यो मे भर्ता स एव गुरुः अत एव तं पतिं सूर्यं सुवर्चला तत्पत्नीव नित्यमनुरक्ता ऽस्मि ॥ ५।२४।९ ॥

तदेव बहुभिर्दृष्यान्तैः द्रढयति यथेत्यादिभिः । शचीप्रभृतिः शकप्रभृतिं यथा समुपतिष्ठति तथा इक्ष्वाकुवरं राममहमनुव्रता समुपतिष्ठामि । सार्धश्लोकत्रयमेकान्वयि ॥ ५।२४।१०१२ ॥

सीताया इति । रावणचोदिताः गमनसमये रावणेन प्रेरिताः राक्षस्यः भर्त्सयन्ति स्म ॥ ५।२४।१३ ॥

अवेति । शिंशुपाद्रुमे अवलीनः निर्वाक्यः मौनीभूतः स हनूमान् सीतां तर्जयन्तीः राक्षसीः तद्वाक्यानि अशृणोत् ॥ ५।२४।१४ ॥

तामिति । वेपमानां तां सीतां समन्ततो ऽभिक्रम्य प्राप्य दीप्तान् प्रकाशितान् प्रलम्बान् दशनच्छदान् स्वस्वाधरान् भृशं संलिलिहुः संलेहनं चक्रुः ॥ ५।२४।१५ ॥

ऊचुरिति । परमक्रुद्धाः राक्षस्यः आशु शीघ्रं परश्वधान् प्रगृह्य इयं सीता भर्तारमस्मत्पतिं रावणं नार्हति तत्पूजायोग्या न भवति इत्यूचुः ॥ ५।२४।१६ ॥

सेति । राक्षसीभिर्भर्त्स्यमाना सा सीता अभवदिति शेषः, अत एव बाष्पमश्रु अपमार्जन्ती सीता तां हनुमदधिष्ठितदेशसमीपवर्तिनीं शिंशुपां शिंशुपामूलमुमागमत् ॥ ५।२४।१७ ॥

तत इति । राक्षसीभिः समावृता सीता शिंशुपामधिगम्य तस्थौ ॥ ५।२४।१८ ॥

तामिति । तां सीतां राक्षस्यो भर्त्स्ययाञ्चिक्रिरे ॥ ५।२४।१९ ॥

तत इति । ततस्तस्मिन् समये निर्णतोदरी अतिनिम्नोदरविशिष्टा कुपितः कोपबोधकः आकारो यस्याः सा विनता नाम राक्षसी अब्रवीत् ॥ ५।२४।२० ॥

तद्वचनाकारमाह सीते इति । हे सीते भर्तुः स्नेहः पर्याप्तं यथा भवति तथा प्रदर्शितः इतः परं स्नेहं न कुर्वित्यर्थः । तत्र हेतुः– सर्वत्र सर्वस्मिन् काले अतिकृतम् अत्यन्तं संपादितं स्नेहनं व्यसनाय दुःखाय उपकल्पते ॥ ५।२४।२१ ॥

परीति । यतस्त्वया मानुषः मनुष्योचितः विधिः धर्मप्रबोधनं कृतः अतः परितुष्टा ऽस्मि अतस्ते भद्रं कल्याणं ममापि पथ्यं वचः शृणु ॥ ५।२४।२२ ॥

तद्वचनाकारमाह रावणमित्यादिभिः । वासवामेव विक्रान्तं विक्रमवन्तं रूपवन्तं सर्वरक्षसां भर्तारं भर्तारमस्मत्पतिं रावणं भज तत्प्रार्थनास्वीकारेण प्रसादय ॥ ५।२४।२३ ॥

दक्षिणमिति । मानुषं रामं त्यक्त्वा दक्षिणं निपुणं रावणमाश्रयस्व चरणसन्निधिं प्रापय ॥ ५।२४।२४ ॥

दिव्येति । वैदेही त्वं दिव्याङ्गरागा सती अद्यप्रभृति लोकानाम् ईश्वरी भव ॥ ५।२४।२५ ॥

अग्नेरिति । अग्नेः स्वाहेव इन्द्रस्य शचीव रामस्य पत्नी या त्वं तस्यास्ते गतायुषा रामेण किम् ॥ ५।२४।२६ ॥

एतदिति । एतदुक्तं वाक्यं यदि त्वं न करिष्यसि तर्हि सर्वाः वयं त्वां भक्षयिष्यामहे ॥ ५।२४।२७ ॥

अन्येति । लम्बमानौ पयोधरौ यस्याः सा विकटा नाम अन्या सीतां मुष्टिम् उद्यम्य तर्जती तर्जन्ती सती अब्रवीत् ॥ ५।२४।२८ ॥

तद्वचनाकारमाह बहूनीति । हे सुदुर्मते अप्रतिरूपाणि राक्षसायोग्यानि तव वचनानि अनुक्रोशात् दयातः मृदुत्वात् सरलस्वभावत्वाच्च सोढानि ॥ ५।२४।२९ ॥

नेति । अन्यैर्दुरासदं समुद्रस्य पारं या त्वमानीता ऽसि अत एव रावणान्तःपुरे प्रविष्टा ऽसि अत एव रावणस्य गृहे अवरुद्धा ऽसि अत एव अस्माभी रक्षिता ऽसि सा त्वं कालपुरस्कृतं कालोचितं हितं नो वाक्यं न कुरुषे अनुचितमेतदित्यर्थः । अर्धचतुष्टयमेकान्वयि ॥ ५।२४।३०,३१ ॥

वचनाकरणे दोषमाह नेति । त्वाम् अस्मदनुमतिहीनामित्यर्थः । त्रातुं पुरन्दरो ऽपि न शक्तः अतो मम वचनं कुरुष्व ॥ ५।२४।३२ ॥

अलमिति । अश्रुनिपातेन अलम् अतः अनर्थकं शोकं त्यज प्रीतिं प्रहर्षं च भज तां प्रत्यक्षीभूतां नित्यदैन्यतां निरन्तरदैन्यं त्यज । दैन्यताशब्दःस्वार्थिकष्यञन्तः ॥ ५।२४।३३ ॥

सीते इति । हे सीते राक्षसराजेन राक्षसराजत्वेनोपलक्षिता त्वं स्त्रीणां मध्ये यतासुखं परिक्रीड । तत्र हेतुः यौवनं युवावस्था अध्रुवं चलमित्यर्थः, राज्यभोगादियोग्या युवावस्थैवेति भावः ॥ ५।२४।३४ ॥

यावदिति । यावत् ते यौवनमिति शेषः, न व्यतिक्रामेत् विनश्येत् तावत्सुखं राक्षसराज्यमवाप्नुहि । अर्धं पृथक्– उद्यानानीति । राक्षसराजेन राक्षसराजत्वेन सह सहिता त्वमुद्यानादीनि चर ॥ ५।२४।३५ ॥

स्त्रीति । स्त्रीसहस्राणि ते वशे स्थास्यन्ति अतः सर्वरक्षसां भर्तारं भर्तारमस्मत्पतिं रावणं भज तत्प्रार्थनास्वीकारेण प्रसादय ॥ ५।२४।३६ ॥

उत्पाट्येति । यदि मे व्याहृतमुक्तं यथावत् न करिष्यसि तर्हि ते हृदयमुत्पाट्य भक्षयिष्याम्येव ॥ ५।२४।३७ ॥

तत इति । महच्छूलं भ्रामयन्ती चण्डोदरी नाम राक्षसी अब्रवीत् ॥ ५।२४।३८ ॥

तद्वचनाकारमाह इमामिति । रावणेन हृतामत एव त्रासोत्कम्पपयोधरामिमां दृष्ट्वा मे दौर्हृदः क्रूरकर्मकारकेच्छाविशेषो ऽभूत् ॥ ५।२४।३९ ॥

दौर्हृदमेव प्रकटयति यकृदिति । यकृत्प्लीहं यकृत् दिक्षिणभागस्थः कालखण्डाभिधः मांसविशेषः प्लीहा हृदयवामभागस्थो गुल्माभिधो मांसविशेषः तयोः समाहारद्वन्द्वः अच्प्रत्ययेत्यत्र अजिति योगविभागादच् तत् महत् क्रोडं भुजान्तरं सबन्धनं हृदयनाडीबन्धनसहितं हृदयं च गात्राणि च शीर्षँ च खादेयमिति मे मतिर्निश्चियः ॥ ५।२४।४० ॥

तत इति । ततः प्रघसा नाम राक्षसी अब्रवीत् । तदाकारमाह नृशंसायाः क्रूराया अस्याः कण्ठं पीडयामः किं किमर्थमास्यते संस्थाप्यते ॥ ५।२४।४१ ॥

ननु कण्ठपीडनेन किमित्यत आह निवेद्यतामिति । ततः कण्ठपीडनानन्तरं मानुषी सा सीता मृतेति राज्ञे रावणाय निवेद्यतां सः श्रुतवृत्तान्तो राजा यूयं खादतेति वक्ष्यति अत्र कश्चन संदेहो न ॥ ५।२४।४२ ॥

तत इति । अजामुखी नाम राक्षसी अब्रवीत् । तदाकारमाह इमां सीतां विशस्य हत्वा पिण्डकान् मांसखण्डान् समान् यथाराक्षसीसमविभागान् कुरु ॥ ५।२४।४३ ॥

समविभागकरणे प्रयोजनमाह विभजाम इति । सर्वाः वयं विभजामः स्वस्वभागं ग्रहीष्यामः । तत्र हेतुः मे मह्यं विवादो न रोचते अतः पेयादिकमानीयताम् ॥ ५।२४।४४ ॥

तत इति । शूर्पनखी नाम राक्षसी अब्रवीत् इयं न रावणभगिनी संज्ञाया अभावान्न ङीब्निषेधादि । तदाकारमाह अजामुख्या यदुक्तं मम तदेव रोचते ॥ ५।२४।४५ ॥

सुरेति । सर्वशोकविनाशिनी सुरा आनीयतां मानुषं मांसमासाद्य प्राप्य निकुम्भिलां लङ्कापश्चिमभागवर्तिभद्रकालीं गत्वेति शेषः नृत्यामः ॥ ५।२४।४६ ॥

एवमिति । निर्भर्त्स्यमाना सुरसुतोपमा सुरसुतासदृशी सीता धैर्यमुत्सृज्येव रोदिति । एवमिवार्थे ॥ ५।२४।४७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डव्याख्याने चतुर्विशः सर्गः ॥ ५।२४ ॥