सीतावचनश्रवणानन्तरकालिकं सीतां प्रति रावणोक्तिमाह सीताया इति । सीतायाः परुषं वचनं श्रुत्वा सीतां प्रत्युवाच ॥ ५।२२।१ ॥
तद्वचनाकारमाह यथा यथेति । यथा यथा सान्त्वयिता सान्त्ववचनवक्ता तथा तथा तत्तद्वचनानुसारेण वश्यः प्रियो भवति जन इति शेषः, अहं तु स्त्रीणां युष्माकं यथा यथा प्रियं वक्ता तथा त्वया परिभूतो ऽस्मीति शेषः ॥ ५।२२।२ ॥
समिति । समुत्थितः कामः त्वत्सेवाविषयकोत्कटेच्छा त्वयि विषये मे क्रोधं सन्नियच्छति निवारयति । तत्र दृष्टान्तः मार्गमासाद्य प्राप्य द्रवतो हयान् सुसारथिरिव ॥ ५।२२।३ ॥
तन्निवारकत्वे हेतुमाह वाम इति । यस्मिन् जने वामः सुन्दरः उत्कट इत्यर्थः, काम इच्छा निबध्यते चिरं तिष्ठति तस्मिन् जने अनुक्रोशः दया स्नेहश्च जायते । एतेनाक्रोशस्नेहयोः क्रोधविध्वंसकत्वं सूचितम् ॥ ५।२२।४ ॥
एतस्मादिति । एतस्मादुक्तात् कारणात् मिथ्यापव्रजने कापट्यविशिष्टवनगमनवति रामे रताम् अत एव वधार्हाम् अत एव अवमानार्हां त्वां न घातयामि ॥ ५।२२।५ ॥
वधार्हात्वमुपपादयन्नाह परुषाणीति । यानि यानि परुषाणि वाक्यानि मां ब्रवीषि तेषु तेषु वाक्येषु श्रुतेष्विति शेषः । तव वधो युक्तः ॥ ५।२२।६ ॥
एवमिति । रावणः एवमुक्त्वा सीताम् उत्तरमब्रवीत् ॥ ५।२२।७ ॥
तदुत्तराकारमाह द्वावित्यादिभिः । यो ऽवधिः मया कृतः “मासान् द्वादश भामिनी” इत्यनेन अरण्यकाण्डे निश्चितः तन्मध्ये अविशिष्टाविति शेषः । द्वौ मासौ रक्षितव्यौ ततो ऽनन्तरं मम शयनं महास्वापं मरणमित्यर्थः । आरोह जानीहीत्यर्थः । एतेन रामस्मृतिं त्यक्त्वा स्वौदासीन्यं न त्यक्ष्यसि तर्हि त्वत्सन्निधावहं स्वप्राणांस्त्यक्ष्यामीति सूचितम् ॥ ५।२२।८ ॥
स्वस्य मरणकातरत्वे पक्षान्तरमाह द्वाभ्यामिति । द्वाभ्यां मासाभ्यामूर्ध्वं भर्तारं रामं मां लङ्काश्रियमनिच्छन्तीं त्वां च मम प्रातराशार्थे मत्कर्तृकप्रातर्भोजनार्थं सूदाः पाककर्तारः खण्डशः छेत्स्यन्ति ॥ ५।२२।९ ॥
तामिति । भर्त्स्यमानां तां जानकीं प्रेक्ष्य विकृतमीक्षणं यासां ताः देवगन्धर्वकन्या विषेदुः खेदं प्रापुः ॥ ५।२२।१० ॥
ओष्ठेति । अपराः काश्चित् ओष्ठप्रकारैः क्षुद्रो रावणः किं करिष्यतीत्यादिबोधकाधरप्रचालनैः अपरा नेत्रैः वक्त्रैश्च सीतामाश्वासयामासुः ॥ ५।२२।११ ॥
ताभिरिति । ताभिः कन्याभिः आश्वासिता सीता वृत्तशौण्डीर्याभ्यां शोभनाचारपतिशौर्याभ्यां गर्वितम् आत्महितं वाक्यमुवाच ॥ ५।२२।१२ ॥
तद्वचनाकारमाह नूनमिति । निःश्रेयसि त्वत्कल्याणे स्थितः आस्थावान् यः कश्चिज्जनः स अस्मिन् लङ्कानगरे नास्ति अत एव विगर्हितात् निन्दितादस्मात् दुरुक्तिरूपात् कर्मणः त्वां न निवारयति ॥ ५।२२।१३ ॥
मामिति । शचीपतेः शचीमिव धर्मात्मनः पत्नीं मां त्वदन्यः मनसा ऽपिकः प्रार्थयेत् पतिराहित्येन स्थापयितुमिच्छेत् न को ऽपीत्यर्थः ॥ ५।२२।१४ ॥
राक्षसेति । हे राक्षसाधम रामस्य भार्यां मां यत् पापं पापहेतुभूतं रामविषयकपरुषवचनम् उक्तवानसि तस्य तस्मात् पापात् क्व गतः सन् मोक्षसे ॥ ५।२२।१५ ॥
यथेति । यथा यदा दृप्तो मातङ्गो हस्ती शशश्च वने सहितौ स्थितौ भवतः तथा तदा द्विरदवत् हस्तिवत् महान् रामः शशवत् क्षुद्रस्त्वं स्मृतः उपमितः भवेरिति शेषः ॥ ५।२२।१६ ॥
स इति । तस्य रामस्य चक्षुषोर्विषये यावत्त्वं न गतः तावदेव इक्ष्वाकुनाथं क्षिपन् निन्दन् त्वं न लज्जसे । एतेन त्वमतीव निर्बुद्धिरिति सूचितम् ॥ ५।२२।१७ ॥
इमे इति । हे अनार्य मां नरीक्षतः क्रूरदृष्ट्या ऽवलोकयतः ते नयने क्षितौ कस्मान्न पतिते ॥ ५।२२।१८ ॥
तस्येति । हे पाप धर्मात्मनो रामस्य पत्नीं मां व्याहरतः दुरुक्तमुच्चारयतस्ते जिह्वा कथं न शीर्यति पतति ॥ ५।२२।१९ ॥
असंदेशादिति । रामस्य असंदेशात् दाहविषये आज्ञाभावात् तपसः तपश्चर्यायाः अनुपालनाच्च भस्मार्हतेजसा त्वां भस्म न कुर्मि करोमि ॥ ५।२२।२० ॥
नेति । तस्य रामस्य भार्या ऽहं त्वया ऽपहर्तुं न शक्या तथापि तव वधार्थाय विधिः अपहरणकारणीभूतहेममयकुरङ्गादिविधानं विहितः देवादिभाग्येनेति शेषः ॥ ५।२२।२१ ॥
ननु अपरहणशक्तिर्मयि नास्तीति कथं त्वया ज्ञातमित्यत आह शूरेणेति । चिताः राशीकृताः दाराः येन तत्सबोधनं शूरत्वादिविशिष्टेन त्वया रामम् अपोह्य मायया दूरं प्रापय्य चौर्यं त्वया कस्मात्कृतम् ॥ ५।२२।२२ ॥
सीताया इति । रावणः सीतायाः वचनं श्रुत्वा क्रूरे नयने विवृत्य जानकीम् अन्ववैक्षत ॥ ५।२२।२३ ॥
रावणं वर्णयन्नाह नीलेत्यादिभिः । नीलजीमूतसंकाशः नीलमेघसदृशः सिंहवत् सत्त्वं पराक्रमो गतिर्गमनं च यस्य दीप्तानि जिह्वोग्रलोचनानि यस्य सः ॥ ५।२२।२४ ॥
चलम् अग्रन् अग्रभागो यस्य स मुकुटो यस्य सः प्रांशुः अत्युन्नतशरीरः ॥ ५।२२।२५ ॥
मेचकेन नीलमण्यादिना जटिलत्वेन मयूरचन्द्रकवर्णेन श्रोणिसूत्रेण सुसंवृतः “मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान्” इति मेदिनी । तत्र दृष्टान्तः अमृतोत्पादने समुद्रमन्थनसमये भुजङ्गेन नद्धः संबद्धो मन्दर इव ॥ ५।२२।२६ ॥
अचलसंकाशो राक्षसेश्वरः परिपूर्णाभ्याम् अतिपुष्टाभ्यां ताभ्यां प्रसिद्धाभ्यां भुजाभ्यां शृङ्गाभ्यां मन्दर इव शुशुभे । रावणस्य कामरूपत्वात् भुजद्वयमात्रवत्वमपि न विरुध्यते । श्लोकचतुष्टमेकान्वयि ॥ ५।२२।२७ ॥
तरुणेति । कुण्डलाभ्यां विभूषितः कल्पवृक्षप्रतिमः कल्पतरुसदृशः अत एव मूर्तिमान् वसन्त इव भूषितो ऽपि भयङ्करः अत एव स्मशनचैत्यप्रतिमः दर्शनायोग्यत्वेन स्मशानचैत्यसदृशः वैदेहीमवेक्षमाणो रावणः उवाच । श्लोकत्रयमेकान्वयि ॥ ५।२२।२८३० ॥
तद्वचनाकारमाह अनयेनेति । अनयेन नीतिराहित्येन अभिसंपन्नम् अत एव अर्थहीनं रामम् अनुव्रते तत्परिशीलनशीले संध्यां तिमिरं सूर्य इव त्वां नाशयामि ॥ ५।२२।३१ ॥
इतीति । रावणः मैथिलीमित्युक्त्वा एकाक्षीप्रभृतीः राक्षसीः संदिदेश । सार्धश्लोकचतुष्टमेकान्वयि । तत्रैकैकाक्षीशब्दस्य अल्पनेत्रकार्थकत्वान्न पौनरुक्त्यम् ॥ ५।२२।३२३५ ॥
तदाज्ञापनाकारमाह यथेति । जानकी यथा मद्वशगा अहं वशगो यस्याः सा यथा भवति तथा सर्वाः प्रत्येकं वा समेत्य संघीभूय वा क्षिप्रं कुरुत । अर्धद्वयमेकान्वयि ॥ ५।२२।३६ ॥
प्रतीति । प्रतिलोमानुलोमैः अननुकूलानुकूलक्रियाभिः सामादिभिश्च दण्डस्य उद्यमनेन उद्योगेन च वैदेहीम् आवर्जयत रामासक्तिं न्यवारयत ॥ ५।२२।३७ ॥
इतीति । काममन्युना इच्छासंपादकक्रोधेन परीतः आत्मा मनो यस्य स रावणः इति प्रतिसमादिश्य जानकीं प्रति गर्जत अगर्जत ॥ ५।२२।३८ ॥
उपेति । ततो ऽनन्तरं राक्षसी राक्षसीस्वामिनी मन्दोदरी धान्यमालिनी तदभिधरावणकनिष्ठपत्नी च राक्षसीशब्देन मन्दोदर्या ग्रहणं तु वानरान्प्रति वक्ष्यमाणहनुमद्वचनानुरोधेन उपगम्य रावणसमीपं प्राप्य इदमब्रवीत् ॥ ५।२२।३९ ॥
तद्वचनाकारमाह मयेति । हे महाराज मया क्रीड विहर सीतया सीतासंवादेन तव किं न किमपीत्यर्थः ॥ ५।२२।४० ॥
नूनमिति । हे महाराज तव बाहुबलार्जितान्भोगसत्तमान् दिव्यभोगान् अस्यां सीतायां सीतार्थम् अमरश्रेष्ठाः देवा ब्रह्माणः न विदधति अस्या राज्यभोगो ब्रह्मणा न लिखित इत्यर्थः । आदराद्बहुवचनम् ॥ ५।२२।४१ ॥
अकामामिति । अकामां राज्यादीच्छारहितां व्यक्तिं कामयानस्य इच्छामुत्पादयतः शरीरमुपतप्यते इच्छतीं कामयानस्य शोभना प्रीतिर्भवति ॥ ५।२२।४२ ॥
एवमिति । राक्षस्या एवमुक्तः अत एव समुत्क्षिप्तः अन्यत्र प्रचलितः राक्षसः सन्न्यवर्तत सीतासंवादात् उपारमत् ॥ ५।२२।४३ ॥
प्रस्थित इति । प्रस्थितो दशग्रीवः निवेशनं स्वगृहं प्रविवेश ॥ ५।२२।४४ ॥
देवेति । देवकन्यादयः गृहोत्तमं विविशुः ॥ ५।२२।४५ ॥
उपसंहरन्नाह स इति । मदनेन सुरादिना मोहितः रावणः लोकरावयिता स रावणः मैथिलीं सीतां परिभर्त्स्य विहाय च स्वं वेश्म प्रविवेश ॥ ५।२२।४६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्वाविंशः सर्गः ॥ ५।२२ ॥