रावणं प्रति सीतोक्तिमाह तस्येत्यादिभिः । रक्षसस्तस्य रावणस्य तदुक्तं वचनं श्रुत्वा आर्ता दुःखिता अत एव दीनस्वरा सीता दीनं यथा भवति तथा शनैः प्रत्युवाच ॥ ५।२१।१ ॥
तदेव भङ्ग्यन्तरेणाह दुःखार्तेति । पतिमेव चिन्तयन्ती शुचिस्मिता सीता अन्तरतः मध्ये तृणं कृत्वा प्रत्युवाच । सार्धश्लोक एकान्वयी ॥ ५।२१।२ ॥
तद्वचनाकारमाह निवर्तयेत्यादिभिः । मत्तः मत्प्रार्थनातः मनो निवर्तय स्वजने मनः क्रियताम् । तत्र हेतुः पापकृत्वं सिद्धिमिव मां प्रार्थयितुं न युक्तः । अद्ये द्वयमेकान्वयि ॥ ५।२१।३ ॥
अकार्यमिति । महति कुले जातया अत एव पुण्यं कुलं संप्राप्तया विवाहविधिना संगतया एकपत्न्या पतिव्रतयेत्यर्थः, मया विगर्हितं पतिविरोधिकर्तृकत्वेन निन्दितं कार्यं कुत्सितस्त्रिभिः कर्तव्यं पूजनं मया अकार्यं न कारयितव्यम् ॥ ५।२१।४ ॥
एवमिति । रावणमेवमुक्त्वा वैदेही रावणं पृष्ठतः कृत्वा भूयो ऽब्रवीत् ॥ ५।२१।५ ॥
तद्वचनाकारमाह नेति । तव भार्याभिः परभार्या अत्यन्तं सेविता सती औपयिकी तद्रक्षणोपायसाधिका अहं न भविष्यामीति शेषः, अत एव साधुधर्मं साधु अवेक्षस्व चिन्तय अत एव साधुव्रतं संकल्पं चर कुरु ॥ ५।२१।६ ॥
धर्ममेवाह यथेति । हे निशाचर दाराः यथा तव रक्ष्याः तथा अन्येषामपि रक्ष्याः अतः आत्मानम् उपमां उपमानं कृत्वा स्वेषु दारेष्वेव रम्यताम् अन्यदारनिरोधे मनो न कुर्वित्यर्थः ॥ ५।२१।७ ॥
अतुष्टमिति । स्वेषु दारेषु स्वदारपरिहासादिषु अतुष्टम् अत एव चपलेन्द्रियं चालितचक्षुरादिकरणम् अत एव चपलम् अत एव निकृता सद्भिर्धिक्कृता प्रज्ञा बुद्धिर्यस्य तं जनं परदाराः परदारवञ्चनदोषाः पराभवं नयन्ति । एतेन परदारवञ्चनं त्वया न कर्तव्यमिति सूचितम् ॥ ५।२१।८ ॥
इहेति । इह लङ्कायां सन्तो महात्मानो न सन्ति वा सतो विद्यमानान् वा महात्मनो नानुवर्तसे अत एव ते बुद्धिः यथा यथावद्विपरीता विरुद्धकर्मविषयिणी अत एव आचारवर्जिता अस्तीति शेषः । एतेन त्वया महात्मानो ऽनुसर्तव्या इति सूचितम् ॥ ५।२१।९ ॥
वच इति । वा अथवा मिथ्या असद्वस्तुषु प्रणीतः प्राप्तः आत्मा मनो यस्य स त्वं विचक्षणैर्विवेकिभिः उक्तं पथ्यं हितं वचः राक्षसानामभवाय विध्वंसाय न प्रतिपद्यसे न गृह्णासि ॥ ५।२१।१० ॥
अकृतेति । न कृतः स्वास्थ्यं प्रापितः आत्मा मनो येन तम् अत एव अनये रतं राजानमासाद्य समृद्धानि राष्ट्राणि नगराणि च यथा विनश्यन्ति तथा इयं लङ्का त्वां समासाद्य एकस्य तवैवापराधात् शीघ्रं विनशिष्यति विनङ्क्ष्यति । अर्धचतुष्टयमेकान्वयि ॥ ५।२१।११,१२ ॥
स्वकृतैरिति । हे रावण अदीर्घदर्शिनः भविष्यदनर्थज्ञानाभाववतः अत एव स्वकृतैः स्वोपार्जितैः कर्मभिर्हन्यमानस्य तव विनाशे भूतानि सर्वे प्राणिनः अभिनन्दन्ति अभिनन्दिष्यन्ति ॥ ५।२१।१३ ॥
तदेव भङ्ग्यन्तरेणाह एवमिति । एवं विनाशं प्राप्तं पापकर्माणं त्वां निकृताः त्वत्तः प्राप्तक्लेशाः जनाः रौद्रो ऽयं रावणः एतत् व्यसनं प्राप्तः दिष्ट्या भाग्यमेतत् इति हर्षिताः वक्ष्यन्ति ॥ ५।२१।१४ ॥
शक्येति । भास्करेण प्रभा इव राघवेणाहमनन्या अन्यत्र स्थातुमशक्येत्यर्थः, अतः ऐश्वर्येण धनेन च लोभयितुं नाहं शक्या ॥ ५।२१।१५ ॥
उपधायेति । लोकनाथस्य सकलभुवनाधिपतेः रामस्य भुजं बाहुं सत्कृतं यथा भवति तथोपधाय अन्यस्य रामभिन्नस्य भुजं कौटिल्यं कथमुपधास्यामि धारयिष्यामि सहिष्यामीत्यर्थः ॥ ५।२१।१६ ॥
अहमिति । धरापतेः निखिलब्रह्माण्डाधिपतेः विदितात्मनः सामान्यतः प्रसिद्धस्वरूपस्य रामस्य व्रतस्नातस्य विप्रस्य विद्येव औपयिकी योग्या भार्याहमस्मि ॥ ५।२१।१७ ॥
ननु इदानीं मम कल्याणं कथं स्यादित्यत आह साध्विति । हे रावण दुःखितां मां साधु यथा भवति तथा रामेण समानय संयोजय । तत्र दृष्टान्तः वासितया वासितां युवतिं करेण्वा करेणुं गजाधिपं गजाधिपेनेव “वासिता युवतिः प्रोक्ता” इति कोशः ॥ ५।२१।१८ ॥
मित्रमिति । स्थानं स्वपुरं परीप्सता रक्षेच्छुना वधं च अनिच्छता त्वया पुरुषर्षभो रामः मित्रं कर्तुमौपयिकं योग्यः ॥ ५।२१।१९ ॥
विदित इति । शरणागतवत्सलो यो रामः तेन सह तव मैत्री भवतु ॥ ५।२१।२० ॥
प्रसादयस्वेति । एनं रामं प्रसादयस्व अस्मै रामाय मां निर्यातयितुं दातुं त्वमर्हसि ॥ ५।२१।२१ ॥
एवमिति । एवम् अनेन प्रकारेण रघूत्तमे संप्रदाय प्रापय ते स्वस्ति भवेत् अन्यथा कुर्वाणस्त्वं पराम् आपदं प्राप्स्यसि ॥ ५।२१।२२ ॥
वर्जयेदिति । उत्सृष्टं त्यक्तं वज्रम् अन्तकश्च त्वद्विधं वर्जयेत् न हन्यात् संक्रुद्धो राघवस्तु न वर्जयेत् हन्यादेवेत्यर्थः ॥ ५।२१।२३ ॥
रामस्येति । शतक्रतुविसृष्टस्य इन्द्रेण त्यक्तस्य अशनेर्महास्वनं निर्घोषमिव रामस्य धनुषः शब्दं त्वं श्रोष्यसि ॥ ५।२१।२४ ॥
इहेति । ज्वलितास्या उरगा इव रामलक्ष्मणलक्षिताः ताभ्यां विसृष्टाः इषवः इह लङ्कायां निपतिष्यन्ति ॥ ५।२१।२५ ॥
रक्षांसीति । अस्यां पुर्यां पतन्तः अत एव रक्षांसि निहनिष्यन्तः कङ्कवाससः कङ्कपत्रविशिष्टपुङ्खाः बाणा असंपातमवकाशराहित्यं करिष्यन्ति ॥ ५।२१।२६ ॥
राक्षसेन्द्रेति । राक्षसेन्द्ररूपमहासर्पान् सः प्रसिद्धः महान् रामरूपगरुडः उद्धरिष्यति हनिष्यति अत एव त्रिभिः क्रमैः पादैः असुरेभ्यः श्रियं विष्णुरिव उरगान् वैनतेय इव भर्ता रामो मामपनेष्यति दूरीकरिष्यति त्वत्तः । अर्धचतुष्टयमेकान्वयि ॥ ५।२१।२७,२८ ॥
जनेति । रक्षसां बले निहते सति अत एव जनस्थाने हतस्थाने निवृत्तराक्षसनिवासे सति अशक्तेन त्वया एतत् अपहरणरूपमसाधु कर्म कृतम् ॥ ५।२१।२९ ॥
तदेव भङ्ग्यन्तरेणाह आश्रममिति । गोचरं मायामृगं हन्तुं वनप्रदेशं गतयोः भ्रात्रोः शून्यमाश्रमं प्रविश्य त्वया ऽहमपनीता ॥ ५।२१।३० ॥
न हीति । शार्दूलयोर्गन्धमुपाघ्राय शुनेव रामलक्ष्मणयोर्गन्धमुपाघ्राय संदर्शने दृष्टिपथे स्थातुं त्वया न शक्यम् ॥ ५।२१।३१ ॥
तस्येति । ताभ्यां रामलक्ष्मणाभ्यां सह विग्रहे सति ते तव युगग्रहणं संयुगेन लभ्यं विजय इत्यर्थः । अस्थिरं न भविष्यतीत्यर्थः । तत्र दृष्टान्तः विग्रहे सति इन्द्रबाहुभ्यां वृत्रस्यैकस्य छेदादवशिष्टबाहोः स्थितिरिव । स्थितिरित्यध्याहृतम् एकस्य इन्द्रच्छेदितत्वाद्बहुकालमेकेन बाहुना युद्धं प्रवृत्तमित्यन्यत्र प्रसिद्धम् । एतेनोपमालङ्कारेण तवापि बाहुच्छेदो भवितेति ध्वनितम् ॥ ५।२१।३२ ॥
क्षिप्रमिति । स प्रसिद्धो मे नाथो रामः अल्पं तोयमादित्य इव शरैः तव प्राणान् आदास्यते ॥ ५।२१।३३ ॥
गिरिमिति । कुबेरस्य आलयं गिरिं गतः अथवा वरुणस्य सभां गतो ऽपि त्वं कालहतः कालस्यापि निवारकस्य दाशरथेः रामस्य बाणादिति शेषः । विप्रनेक्ष्यसे प्राणांस्त्यक्ष्यसि, तत्र दृष्टान्तः अशनेः प्रक्षेपात् द्रुम इव ॥ ५।२१।३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकविंशः सर्गः ॥ ५।२१ ॥