सीतां प्रति रावणोक्तिं वर्णयितुमाह स इति । स रावणः परिवृतां राक्षसीभिरिति शेषः, अत एव निरानन्दामत एव दीनां सीतां साकारैरभिप्रायसहितैः अभिप्रायबोधकैरित्यर्थः, वाक्यैः न्यदर्शयत अब्रवीत् । “आकारस्त्विङ्गिताकृती” इति कोशः ॥ ५।२०।१ ॥
तद्वचनाकारमाह– मामिति । हे नागनासोरु मां दृष्ट्वा भयादिव स्तनोदरं गूहमाना त्वम् आत्मानम् अदर्शनं दर्शनाभावं नेतुं प्रापयितुमिच्छसि तत्किमर्थमिति शेषः ॥ ५।२०।२ ॥
कामये इति । हे विशालाक्षि त्वां त्वद्दर्शनम् अहं बहु कामये अतो मां मन्यस्व स्वदर्शनाभिलाषिणं जानीहीत्यर्थः ॥ ५।२०।३ ॥
नन्वहं राक्षसेभ्यो बिभेम्येवेत्यत आह नेति । मत्तः मद्भयात् इह केचित् मनुष्यादयो न अतः समुत्थितं ते भयं व्यपसर्पर्तु अपगच्छतु ॥ ५।२०।४ ॥
ननु परदारापहर्तृत्वे नातिपापित्वात् त्वत्कर्मकदर्शनाद्बिभेमीत्यत आह स्वधर्म इति । परस्त्रीणां हरणं संप्रमथ्य हत्वा गमनं प्रक्षेपणं वा रक्षसां सर्वदैव स्वधर्मः । एतेन स्वधर्माचरणवत्कर्मकं दर्शनं न निषिद्धमिति सूचितम् ॥ ५।२०।५ ॥
ननु मत्कर्तृकावलोकनाभावे ऽपि त्वत्कर्तृकदर्शनस्य निरोधाभावान्न काचिद्धानिरित्यत आह– एवमिति । काममत्यन्तम् अकामां मत्कर्तृकावलोकनविषयकेच्छारहिता त्वां नैव स्प्रक्ष्यामि चक्षुर्विषयतां नेष्यामि शरीरे कामः त्वत्कर्मकदर्शननिषयकेच्छा तु यथाकामं प्रवर्तताम् । एवं त्वर्थे ॥ ५।२०।६ ॥
देवीति । हे देवि मयि विश्वसिहि विश्वासं कुरु अतः इह अस्मिन् स्थाने भयं न कार्यं तत्त्वेन स्वानुचरबुद्ध्या प्रणयस्व संमाननं कुरु अत एव एवम् अनेन प्रकारेण शोकलालसा शोकव्याप्ता मा भूः ॥ ५।२०।७ ॥
एकेति । अस्थाने स्वस्थानभिन्ने ऽपि एतान्येकवेण्यादीनि तेन औपयिकानि युक्तानि ॥ ५।२०।८ ॥
विचित्राणीति । हे मैथिलि मां प्राप्य स्वानुचरत्वेन ज्ञात्वा माल्यादीनि लभ लभस्व । श्लोकद्वयेकान्वयि ॥ ५।२०।९,१० ॥
स्त्रीति । हे सुविग्रहे यतस्त्वं स्त्रीरत्नं सर्वस्त्रीश्रेष्ठमसि अत एवमुदासीनत्वादिविशिष्टा मा भूः अतः गात्रेषु भूषणं कुरु हि यतः मां प्राप्य अनर्हा अपूजिता त्वं कथं स्याः ॥ ५।२०।११ ॥
भूषणधारणसमयो ऽयमेवेति बोधयन्नाह इदमिति । अतीतं गतं स्रोतस्विनां महाप्रवाहाणां स्रोतः अल्पप्रवाह इव संजातं निष्पन्नं चारु शोभनं यौवनं युवावस्था अतिवर्तते । एतेन भूषणादीनि धारयेति सूचितम् ॥ ५।२०।१२ ॥
त्वामिति । रूपकर्ता विश्वकृत् ब्रह्मा त्वां कृत्वा तद्रूपं सर्वोत्कृष्टत्वेन निर्माय उपरतो निवृत्तः इत्यहं मन्ये अतस्तव रूपोपमा तव रूपसदृशी अन्या नास्ति ॥ ५।२०।१३ ॥
ननु त्वत्सेवामनाकाङ्क्षन्तीं मां किमर्थं बहूच्यते इत्यत आह त्वामिति । हे वैदेहि त्वां समासाद्य प्राप्य पितामहो ऽपि नातिवर्तेत स्वौद्धत्यं न प्रकाशयेत् तर्हि अन्यः को ऽतिवर्तेत ॥ ५।२०।१४ ॥
यद्यदिति । हे शीतांशुसदृशानने यद्यत्ते गात्रं पश्यामि तस्मिन् तस्मिन् मम चक्षुर्निबध्यते । एतेन तच्चरणादीनां मनोहरत्वं व्यञ्जितम् ॥ ५।२०।१५ ॥
भवेति । हे भवमैथिलि भवति भावयति नितरां स्वपतिं चिन्तयति सा एव मैथिली तत्संबोधनम् अग्रस्य सर्वोत्कृष्टस्य रामस्य महिषी त्वं मम बह्वीनामुत्तमस्त्रीणां भार्या सेव्या भव अत एव तं विद्यमानं मे मोहं वैचित्यं विसर्जय त्याजय ॥ ५।२०।१६ ॥
लोकेभ्य इति । यानि रत्नानि प्रमथ्या रिपून् जित्वा लोकेभ्यो मे मया हृतानि तानि सर्वाणि एतत् राज्यं च अहं ते ददामि । अतः ते तवैव त्वत्स्वामिनीका एव अस्मदादय इत्यर्थः ॥ ५।२०।१७ ॥
ननु बन्धुवर्गं विहायाहं न स्थास्यामीत्यत आह विजित्येति । सर्वां पृथिवीं विजित्य तव होतोः तव जनकाय प्रदास्यामि एतेन तमपि आनेष्यामीति ध्वनितम् ॥ ५।२०।१८ ॥
नेति । यो मे प्रतिबलः प्रतिद्वन्द्वो भवेत् तम् अन्यं लोके नैव पश्यामि अतः आहवे अप्रतिद्वन्द्वं मे वीर्यं त्वं पश्य जानीहि ॥ ५।२०।१९ ॥
वीर्यमेवाह असकृदिति । असकृद्बहुवारं मया विमृदितानि ध्वजानि येषां ते भग्नाः अङ्गभङ्गं प्राप्ताः अत एव प्रत्यनीकेषु प्रतिसैनिकभावेषु स्थातुम् अशक्ताः सुरासुरा अभवन्निति शेषः ॥ ५।२०।२० ॥
इच्छेति । माम् इच्छ सेवकत्वेनाकाङ्क्ष । एतेन ते भयं नास्तीति सूचितम् अत एव उत्तमं प्रतिकर्म भोजनादिकृत्यं क्रियतां सुप्रभाणि भूषणानि तवाङ्गेषु अवसज्जन्ताम् ॥ ५।२०।२१ ॥
साध्विति । प्रतिकर्मणा कर्तव्यभोजनादिनिखिलक्रियया सुयुक्तं ते रूपं पश्यामि पश्येयम् । अर्धं पृथक् । प्रतीति । प्रतिकर्माभिसंयुक्ता अत एव दाक्षिण्येनोपलक्षिता त्वं भोगान् राज्यैश्वर्याणि यथाकामं भुङ्क्ष्व पिब दिव्यरसास्वादं कुरु रमस्व दासीभूतमन्दोदर्यादिभिः विहरस्व । अर्धद्वयमेकान्वयि ॥ ५।२०।२२ ॥
यथेष्टमिति । प्रयच्छ देहि मयि विस्रब्धा सती ललस्व योग्यवस्तुषु वाञ्छां कुरु अत एव धृष्टं यथा स्यात्तथा आज्ञापयस्व ॥ ५।२०।२३ ॥
मदिति । मत्प्रसादात् मद्विषयककृपातः ललन्त्यास्तव बान्धवाः अपि ललन्ताम् । अर्धं पृथक् ॥ ५।२०।२४ ॥
ननु तर्हि राममपीहानय इत्यत आह ऋद्धिमिति । त्वं मम ऋद्धिं श्रियं च पश्य चीरवासिना चीराच्छादितेन रामेण किम् ॥ ५।२०।२५ ॥
शूर्पणखाविरूपादिकरणजनिततापशान्तये रामविषयकसीतातिप्रीतिं निवारयितुमाह निक्षिप्तेति । निक्षिप्तस्तव हरणादिना विनष्टः विजयः विजयसामग्र्युत्साहादिर्यस्य अत एव गतश्रीः रामः जीवति न वा इत्यहं शङ्के विचारयामि ॥ ५।२०।२६ ॥
ननु जीवति चेदानयेत्यत आह न हीति । हे वैदेहि रामः त्वां द्रष्टुमपि नोपलभ्यते संभाव्यते । तत्र दृष्टान्तः पुरो ऽग्रे बलाका बकपङ्क्तयो येषां तैर्मेघैरावृतां ज्योत्स्नामिव ॥ ५।२०।२७ ॥
नेति । मम हस्तात् त्वां प्राप्तुं राघवो नार्हति । तत्र दृष्टान्तः इन्द्रहस्तगतां कीर्तिं हिरण्यकशिपुरिव ॥ ५।२०।२८ ॥
दौदासीन्यं निवारयितुमाह चार्विति । सुपर्णः पन्नगमिव मे मनस्त्वं हरसि ॥ ५।२०।२९ ॥
अनलंकृतामिति । अनलंकृतां त्वां त्वद्दुःखमित्यर्थः, दृष्ट्वा स्वेषु दारेषु रतिं प्रीतिम् अहं नोपलभामि अतिदुःखितं मनः क्वापि न प्रवर्तते इत्यर्थः । एतेन रावणस्य दयालुत्वं सूचितम् ॥ ५।२०।३० ॥
अन्तरिति । अन्तःपुरनिवासिन्यः सर्वगुणान्विताः मम भार्याः यावत्यः सन्ति सर्वासां तासामैश्वर्यं तन्निरूपितेश्वरत्वं कुरु स्वस्मिन्संपादय ॥ ५।२०।३१ ॥
ममेति । हे असितकेशान्ते हे अबद्धकेशभागे अप्सरसः श्रियमिव त्रैलोक्य प्रवरस्त्रियः त्वां परिचरिष्यन्ति ॥ ५।२०।३२ ॥
यानीति । मयोपार्जितानि वैश्रवणे कुबेरे यानि रत्नानि धनानि च तानि मां विष्णुलोकलक्ष्मीं च लोकांश्च भुङ्क्ष्व स्वाधीनत्वं प्रापयेत्यर्थः ॥ ५।२०।३३ ॥
रामविषयकाशां निवर्तयितुमाह नेति । रामः तप आदिना मया तुल्यो न । एतेन स इह नागमिष्यतीति सूचितम् ॥ ५।२०।३४ ॥
उपसंहरन्नाह पिबेति द्वाभ्याम् । मयि मत्समीपे विद्यमानान् भोगादीन् पानादिकर्मीभूतान् कुरु प्रदिश यथेच्छं देहि च त्वयि समेत्य त्वत्समीपं प्राप्य ते बान्धवाः यथासुखं ललन्तु वाञ्छया भोगादीन् प्राप्नुवन्तु ॥ ५।२०।३५ ॥
कुसुमितेति । कुसुमितैस्तरुजालैः सन्ततानि व्याप्तानि समुद्रतीरजानि मया सर्वसंपत्या सह सहितानि काननानि कनकविमलहारभूषिताङ्गी त्वं विहर ॥ ५।२०।३६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे विंशः सर्गः ॥ ५।२० ॥