रावणदर्शनानन्तरकालिकं सीतावृत्तान्तमाह– तस्मिन्नित्यादिभिः । तस्मिन् हनुमत्प्लवनसंबन्धिनि काले एव राजपुत्री ततः सा सीता भूषणोत्तमभूषितं ततस्तं रावणं दृष्ट्वैव प्रवाते कदली इव प्रावेपत । श्लोकद्वयमेकान्वयि ॥ ५।१९।१,२ ॥
ऊरुभ्यामिति । वरवर्णिनो सीता ऊरुभ्यामुदरं बाहुभ्यां पयोधरौ च छाद्य आच्छाद्य रुदती सती उपविष्टा ॥ ५।१९।३ ॥
दशेति । अर्णवे सन्नां निमग्नां नावमिव दुःखार्तां दुःखसागरे निमग्नाम् अत एव दीनां संशितव्रतां देवादिरक्षणाय उग्रसंकल्पाम् अत एव छिन्नां भूमौ प्रपतितां वनस्पतेः शाखामिव असंवृतायां धरण्यामासीनां मलमण्डनेन मलरूपभूषणेन दिग्धं व्याप्तमङ्गं यस्याः अमण्डनां भूषणरहितां वैदेहीं दशग्रीवो ददर्श । सार्धश्लोकद्वयमेकान्वयि ॥ ५।१९।४,५ ॥
मृणालीति । पङ्कदिग्धा मृणाली इव विभाति न विभाति च सीतेति शेषः । अर्धं पृथक् ॥ ५।१९।६ ॥
समीपमिति । संकल्पहयैः संकल्परूपाश्वैः संयुक्तैर्मनोरथैर्विदितात्मनः सामान्यतः प्रसिद्धस्वरूपस्य रामस्य समीपं यान्तीमिव शुष्यन्तीमिव ॥ ५।१९।७ ॥
दुःखस्यान्तमपश्यन्तीम् ॥ ५।१९।८ ॥
आविष्टाम् औषधादिना निरुद्धां चेष्टमानां विविधं चेष्टां कुर्वतीं पन्नगेन्द्रवधूमिव धूमकेतुना ग्रहेण धूप्यमानां संताप्यमानां रोहिणीमिव ॥ ५।१९।९ ॥
वृत्तम् अतिशयेन प्रवृत्तं शीलं यस्मिन् तदेव कुलं तस्मिन् जातां दुष्कुले राक्षसकुले जातामिव राक्षसपुरस्थितात्वेन तत्र जातात्वेन प्रतीयमानामित्यर्थः, पुनः संस्कारम् आपन्नां प्राप्तामिव तत्संसर्गाभाववत्स्थित्या कृतसंस्कारात्वेन प्रतीयमानामित्यर्थः ॥ ५।१९।१० ॥
सन्नां दुर्जनेन अन्यथा कथ्यमानां विमानिताम् अनादृतां श्रद्धामिव परिक्षीणां वितण्डादिना अन्यथा कीर्त्यमानां प्रज्ञामिव ॥ ५।१९।११ ॥
प्रतिहतां विषयालाभान्निवृत्तनाशामिव विध्वस्तां कथञ्चिन्निवारिताम् । उत्तरकालकवृद्धिमिव प्रतिहतां केनचिदकृताम् । आज्ञां राजानुशासनमिव काले उत्पातसमये दीप्तां दिशमिव अपहतां कथञ्चित् अन्यथा कृतां पूजामिव ॥ ५।१९।१२ ॥
तमसा राहुणा ग्रस्तमिन्दुमण्डलं यस्यां तां पौर्णमासीं निशामिव विध्वस्तां हिमादिना परिणतां पद्मिनीमिव हतशूरां चमूमिव ॥ ५।१९।१३ ॥
तमोध्वस्ताम् अन्धकारावृतां प्रभां सूर्यप्रकाशमिव उपक्षीणां वृष्टिनिवृत्त्या अल्पीभूताम् आपगां गङ्गामिव परामृष्टां चाण्डालेन स्पृष्टां देवीं तत्प्रतिमामिव ॥ ५।१९।१४ ॥
हस्तिहस्तपरामृष्टाम् अत एव उत्कृष्टानि परिध्वस्तानि पर्णानि कमलानि च यस्यास्ताम् अत एव वित्रासिता विहङ्गमा यस्यां ताम् अत एव आकुलां कलुषीकृतां पद्मिनीं सरसीमिव ॥ ५।१९।१५ ॥
पतिशोकातुराम् । अत एव विस्राविताम् अन्यत्र वाहिताम् अन्यत्र वाहिताम् अत एव शुष्कां नदीमिव परया शरीरशोभानिष्पादिकया मृजया उद्वर्तनादिना हीनाम् अत एव कृष्णपक्षे निशामिव ॥ ५।१९।१६ ॥
उष्णेन धर्मादिना तप्यमानाम् आचरोद्धृतां मृणालीमिव ॥ ५।१९।१७ ॥
यूथपेन विना कृताम् अत एव निःश्वसन्तीं गजराजवधूमिव ॥ ५।१९।१८ ॥
नीलया वनराज्या महीमिव एकया वेण्या शोभमाना ॥ ५।१९।१९ ॥
उपवासादिना कृशां कृशावयवाम् अत एव परिक्षीणां परिक्षीणमनस्काम् अल्पाहाराम् अल्पः अतिसूक्ष्मः वायुरित्यर्थः, आहारो यस्यास्ताम् ॥ ५।१९।२० ॥
दशग्रीवपराभवम् आयाचमानां मनोगतराघवाद्याचयन्तीम् अत एव प्राञ्जलिं देवतां चेष्टाराहित्येन देवप्रतिमामिव रघुमुख्यस्य भावेनातिचिन्तनयोपलक्षिताम् ॥ ५।१९।२१ ॥
समीक्षमाणाम् इतस्ततो राममवलोकयन्तीं सुपक्ष्माणि ताम्रायतानि शुक्लानि रोदनेन शुक्लत्वमापन्नानि लोचनानि यस्यास्तां राममुद्दिश्य अतीव अनुव्रतां मैथिलीं रावणः प्रलोभयामास वञ्चनावचनमुच्चारयामास । षोडशानां श्लोकानामेकत्रान्वयः ॥ ५।१९।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकोनविंशः सर्गः ॥ ५।१९ ॥