हनुमद्वृत्तान्तमेवाह तथेत्यादिभिः । वैदेहीं विचिन्वतः अत एव तथा उक्तप्रकारेण वनं विप्रेक्षमाणस्य हनुमतो निशा किंचिच्छेषा अभवत् ॥ ५।१८।१ ॥
षडङ्गेति । षडङ्गवेदविदुषां वेदवेदितृ़णाम् अत एव क्रतुप्रवरयाजिनां ब्रह्मरक्षसां ब्राह्मणराक्षसानां ब्रह्मघोषान् वेदनिनदान् विरात्रे रात्र्यवसाने शुश्राव हनूमानिति शेषः ॥ ५।१८।२ ॥
अथेति । मङ्गलवादित्रैः माङ्गलिकवाद्यवद्भिः राक्षसैः कर्तृभिः श्रोत्रमनोहरैः शब्दैः दशग्रीवः प्राबोध्यत ॥ ५।१८।३ ॥
विबुध्येति । स्रस्तमाल्याम्बरधरो राक्षसेन्द्रः विबुध्य वैदेहीमन्वचिन्तयत् ॥ ५।१८।४ ॥
भृशमिति । मदनेन मादकसुरापानादिना मदोत्कटः उत्कटदैन्यविशिष्टो ऽपि राक्षसः यतस्तस्यां सीतायां भृशमत्यन्तं नियुक्तः संस्थापितचित्तः अतः तं सीतागोपनविषयकं काममिच्छामात्मनि मनसि गूहितुं नियमितुं न शशाक ॥ ५।१८।५ ॥
स इति । अनुत्तमाम् अत्युत्तमां श्रियं बिभ्रत्स रावणः सर्वपुष्पफलान्यपगच्छन्ति तैर्नगैस्तरुभिर्जुष्टां संततद्रुमां नित्यं द्रुमविशिष्टामशोकवनिकां वीथीः मार्गान् संप्रेक्षमाणः सन् प्राविशत् । श्लोकचतुष्टयमेकान्वयि ॥ ५।१८।६९ ॥
अङ्गना इति । देवगन्धर्वयोषितो महेन्द्रमिव व्रजन्तं पौलस्त्यं तं रावणं शतमात्रमङ्गनाः अनुव्रजन् अन्वव्रजन् ॥ ५।१८।१० ॥
अङ्गनागमनप्रकारमाह– दीपिका इत्यादिभिः । काश्चिद्दीपिका जगृहुः काश्चित्तालवृन्तानि जगृहुः काश्चित् बालव्यजनहस्ताः चामरकरा अगच्छन्निति शेषः ॥ ५।१८।११ ॥
काञ्चनैरिति । काश्चित् काञ्चनैः भृङ्गारैः कलशैः अग्रतः अग्रे सलिलं जह्रुः प्रापयामासुः, अन्याः मण्डलाग्राः मण्डलाकाराणि अग्राणि यासां ताः बृसीः आसनविशेषान् गृह्य गृहीत्वा पृष्ठतो ययुः ॥ ५।१८।१२ ॥
काचिदिति । पूर्णां पेयपूरितां रत्नमयीं पानस्य पात्रीं दक्षिणेनैव पाणिना काच्चिद्दक्षिणा निपुणा जग्राह ॥ ५।१८।१३ ॥
राजेति । अपरा छत्रं गृहीत्वा पृष्ठतो ययौ ॥ ५।१८।१४ ॥
निद्रेति । निद्रामदेन परीतानि युक्तानि अक्षीणि यासां ताः रावणस्य उत्तमाः स्त्रियः विद्युल्लताः घनमिवानुजग्मुः ॥ ५।१८।१५ ॥
व्याविद्धेति । व्याविद्धाः स्वस्वस्थानात् किंचिच्चलिता इत्यर्थः, हारकेयूरा यासां समामृद्रितवर्णकाः अपगताङ्गरागाः समागलितकेशान्तः प्रस्खलितकेशान्तभागाः सस्वेदानि स्वेदविशिष्टानि वदनानि यासां ताः मदशेषेण निद्रया च घूर्णन्त्यः स्वेदेन क्लिष्टानि बाधितानि अङ्गकुसुमानि यासां ताः समाल्या मालासहिता आकुलाः किंचित्कम्पिताः मूर्धजाः केशा यासां ताः प्रिया ऽ ऽभा दीप्तिर्यासां ता एवार्याः नार्यो रावणपत्न्यः बहुमानात् रावणकृतातिसत्कारात् कामात् सीतादर्शनेच्छातश्च हेतोः तं रावणमन्वयुः । श्लोकत्रयमेकान्वयि ॥ ५।१८।१६१८ ॥
स इति । कामपराः तद्भार्याः तासामधीनः ता अधीना यस्येति वा स तासां पतिः महाबलः स रावणः सीतायां सीतादर्शने आसक्तं मनो यस्य मन्दाञ्चिता मन्दत्वं प्राप्ता गतिर्यस्य सः मन्दः सीताहरणकर्तृत्वज्ञापितमन्दमतिविशिष्टः स रावणो बभौ ॥ ५।१८।१९ ॥
तत इति । ततस्तस्मिन्समये परमस्त्रीणां काञ्चीनिनादं नूपुराणां निस्स्वनं च मारुतनन्दनः शुश्राव ॥ ५।१८।२० ॥
तमिति । अप्रतिमकर्माणं सीताहरणकर्तृत्वेन स्वसदृशगर्हितकर्मरहितं द्वारदेशमनुप्राप्तं तं रावणं हनूमान् ददर्श ॥ ५।१८।२१ ॥
दीपिकाभिरिति । गन्धतैलैः अवसिक्ताभिः अग्रतो ध्रियमाणाभिः दीपिकाभिः समन्तादवभासितं कामदर्पमदैः कामः परद्रव्याद्यपरहणेच्छा, दर्पः, स्वात्यैश्वर्यजनितगर्वः, मदः तज्जनितानन्दः तैर्युक्तं जिह्ये कापट्यबोधके ताम्रे अरुणे ईक्षणे नेत्रे यस्य तम् अपविद्धशरासनं त्यक्तकुसुमबाणं समक्षं प्रत्यक्षं कन्दर्पमिव मथितामृतफेनस्य आभा इव आभा यस्य तत् अतिश्वेतमित्यर्थः, अरजः रजोहीनं सपुष्पम् अनेकविधपुष्पविशिष्टं विमुक्तं विशेषमुक्ताविशिष्टं अङ्गदे सक्तम् उत्तमं वस्त्रम् अवकर्षन्तं समीपमुपसंक्रान्तं प्राप्तं तं रावणं पत्रविटपे विपुलपत्रविशिष्टशाखायां लीनः अत एव पत्रपुष्पाणां शतैरावृतो हनूमान् विज्ञातुमुपचक्रमे । “निध्यातुं” इति पाठे ऽप्ययमेवार्थ इति भट्टाः । श्लोकचतुष्टमेकान्वयि ॥ ५।१८।२२२५ ॥
अवेक्षमाण इति । अवेक्षमाणो विशेषज्ञानाय रावणं निरीक्षमाणः कपिकुञ्जरः रावणस्य वरस्त्रियो ददर्श ॥ ५।१८।२६ ॥
ताभिरिति । सुरूपाभिस्ताभिः स्त्रीभिः परिवृतः मृगद्विजसंघुष्टं प्रमदावनं नारीविहारारण्यं प्रविष्टः क्षीबो मत्तः शङ्कुकर्णः स्तब्धीभूतश्रोत्रविशिष्टः विश्रवसः पुत्रस्तेन हनूमता दृष्टः । श्लोकद्वयमेकान्वयि ॥ ५।१८।२७,२८ ॥
तदेव भङ्ग्यन्तरेणाह वृत इति । ताराभिः चन्द्रमा इव नारीभिर्यो वृतः तं रावणं महाकपिर्ददर्श ॥ ५।१८।२९ ॥
रावण इति । पुरमध्ये गृहोत्तमे यः पुरा शेते स रावणो ऽयमेव इति संचिन्त्य अयं मद्बुद्धिस्थो हनूमान् अवप्लुतः स्वाधिष्ठितशाखायाः उर्ध्वशाखां प्राप्तः । सार्धश्लोक एकान्वयी ॥ ५।१८।३० ॥
स इति । यद्यपि स हनूमान् उग्रतेजास्तथापि तस्य रावणस्य तेजसा सनिर्धूतः कार्यविशेषसाधनाय निर्धूतत्वसहितः सन् गुह्यान्तरे छन्नशाखान्तरे सक्तः सन् संवृतो ऽभवत् ॥ ५।१८।३१ ॥
स इति । सता सज्जनानां दर्शनयोग्याम् । असितकेशान्तां सीतां दिदृक्षुः रावणः उपावर्तत तत्समीपं प्राप ॥ ५।१८।३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायशिरोमणौ सुन्दरकाण्डे ऽष्टादशः सर्गः ॥ ५।१८ ॥