०१७ हनुमता राक्षस्यावृतसीतादर्शनम्

हनुमत्कर्तृकस्पष्टदर्शनं वर्णयितुमाह तत इति । कुमुदखण्डाभः कुमुदसमूहसदृशः निर्मलोदयः चन्द्रः निर्मलं नभः प्रजगाम । तत्र दृष्टान्तः, हंसो नीलमुदकमिव ॥ ५।१७।१ ॥

साचिव्यमिति । शीतै रश्मिभिरुपलक्षितः निर्मलप्रभश्चन्द्रमाः प्रभया स्वकान्त्या साचिव्यं साहाय्यमिव कुर्वन् पवनात्मजं सिषेवे ॥ ५।१७।२ ॥

स इति । स हनूमान् शोकभारैः न्यस्तां नतामिव अत एव भारैर्न्यस्तामम्भसि नावमिव प्रतीयमानां सीतां ददर्श ॥ ५।१७।३ ॥

दिदृक्षमाण इति । वैदेहीं दिदृक्षमाणो ऽत्यन्तमवलोकनेच्छुः हनूमान् अविदूरस्थाः राक्षसीः ददर्श ॥ ५।१७।४ ॥

दर्शनप्रकारमाह एकेत्यादिभिः । एकाक्षीप्रभृतीः रोमहर्शणदर्शनाः ताः राक्षसीः ददर्श । तस्य शिंशुपाभिधतरोः अधस्तात् देवीं सीतां च ददर्श । तत्र कर्णावेव प्रावरणौ शरीराच्छादकौ यस्याः अतविशालकर्णविशिष्टामित्यर्थः, मस्तके उच्छ्वासहेतुभूतनासिका यस्यास्तां तन्वी सूक्ष्मा दीर्घा स्थूला शिरोधरा ग्रीवा यस्यास्तां चिबुकौ चिबुकसंबद्धौ ओष्ठौ यस्यास्ताम् ॥ ५।१७।५ ॥

निखातशिरसः कबन्धवत् उरःप्रदेशप्राप्तशिरसः किंच निखातेन खातविशेषेण युक्तानि शिरांसि यासां ताः हरेः सिंहस्येव कर्णौ यासां पादचूलिकाः पादयोः संल्लग्नाः चूलाः शिरःकेशाः यासां ताः सुरामांसानि सदा प्रियाणि यासाम् अत एव पानं मद्यादि सततं पिबन्तीःस्कन्धवन्तं वनस्पतिं परिवार्य उपासीना इत्यर्थः । चतुर्दशश्लोका एकान्वयिनः ॥ ५।१७।६१८ ॥

लक्षयामासेति । हनूमन् शोकसंतप्तां निष्प्रभां जनकात्मजां लक्षयामास ॥ ५।१७।१९ ॥

तामेव वर्णयन्नाह क्षीणेति । क्षीणपुण्याम् अत एव निपतितां तारामिव चारित्रव्यपदेशेन मुख्याचरणेन आढ्यां भर्तृदर्शनं दुर्गतं दुष्प्रापं यस्याः तां भर्तृवात्सल्येन पत्युरतिप्रीत्या भूषितां राक्षसाधिपेन संरुद्धाम् अत एव बन्धुभिर्विनाकृताम् अत एव सिंहसंरुद्धां वियूथां यूथहीनां बद्धां स्वयूथविषयकातिस्नेहयुक्तां गजवधूमिव पयोदान्ते वर्षापाये शारदाभ्रैरावृतां चन्द्ररेखामिव असंस्पर्शात् पतिस्पर्शराहित्यात् क्रिष्टरूपां पराभूतस्वरूपाम् अत एव अयुक्तां वादकहीनां वल्लकीं वीणामिव भर्तृहिते युक्तां रक्षसां वशे अयुक्ताम् अयोग्यां शोकसागरमाप्लुतां सग्रहां क्रूरग्रहविशिष्टां रोहिणीमिव ताभिः पूर्वोक्तराक्षसीभिः परिवृताम् अकुसुमितां कुसुमरहितां लतामिव तां सीतां स हनूमान् ददर्श । सार्धश्लोकपञ्चकमेकान्वयि ॥ ५।१७।२०२४ ॥

सेति । मलेन दिग्धं प्रवृद्धमङ्गं यस्याः सा वपुषा शरीरकान्त्या अलंकृता पङ्कदिग्धा कर्दमसंलग्ना मृणाली इव विभाति न भाति च । अर्धद्वयमेकान्वयि ॥ ५।१७।२५ ॥

मलिनेति । मलिनेन अत एव परिक्लिष्टेन बाधितशोभेन वस्त्रेण संवृतां मृगशावाक्षीं मृगबालनयनसदृशनयनविशिष्टां दीनवदनां क्षीणमुखां भर्तृतेजसा रामतेजःस्मरणेन अदीनां दैन्यरहितचित्तां स्वेन स्वकीयेन शीलेन भर्तृविषयकसमाधिना रक्षिताम् असितलोचनां तां सीतां ददर्श । अर्धचतुष्टयमेकान्वयि ॥ ५।१७।२६,२७ ॥

तामिति । त्रस्तां मृगकन्यामिव समन्ततो वीक्षमाणां निःश्वासैर्वृक्षान् दहन्तीमिव शोकानां संघातमिव दुःखस्य दुःखोदधेः उत्थितां तामूर्मिमिव सुविभक्तानि अङ्गानि यस्यास्तां विना ऽ ऽभरणेन शोभिनीं प्रेक्ष्यमैथिलीं प्रेक्ष्या चासौ मैथिली चेति कर्मधारयस्तां सीतां दृष्ट्वा मारुतिः अतुलं प्रहर्षं लेभे । श्लोकत्रयमेकान्वयि ॥ ५।१७।२८३० ॥

हर्षेति । तां सीतां दृष्ट्वा हर्षजानि अश्रूणि मुमोच राघवं नमश्चक्रे च ॥ ५।१७।३१ ॥

नमस्कृत्वेति । सीतादर्शनसंहृष्टो हनूमान् रामाय लक्ष्मणाय च नमस्कृत्वा संवृतः शाखाविशेषे निलीनो ऽभवत् ॥ ५।१७।३२ ॥

इति श्रीमद्वाल्मकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे सप्तदश सर्गः ॥ ५।१७ ॥