हनुमत्कर्तृकरामप्रशंसामुपक्रमते प्रशस्येति । हरिपुङ्गवो हनूमान् सीतां प्रशस्य गुणैरभिरामं रामं संस्मृत्य चिन्तापरो ऽभवत् ॥ ५।१६।१ ॥
स इति । स हनूमान् मुहूर्तं ध्यात्वा सीतां सीतादुःखमाश्रित्यावलोक्य विललाप विविधमुवाच ॥ ५।१६।२ ॥
तदाकारमाह– मान्येति । गुरुभिर्विनीतस्य शिक्षितस्य लक्ष्मणस्य गुरुप्रिया गुरोः रामस्य प्रिया सीता यदि दुःखार्ता तर्हि कालः परमात्मसंकेतः दुरतिक्रमः अतिक्रमितुमशक्यः ॥ ५।१६।३ ॥
रामस्येति । देवी सीता यतो रामस्य लक्ष्मणस्य च व्यवसायज्ञा अनिवार्यपराक्रमविज्ञात्री अतो ऽत्यर्थमत्यन्तं न क्षुभ्यते । तत्र दृष्टान्तः जलदागमे वर्षर्तौ गङ्गा प्रयागस्थजाह्नवीव ॥ ५।१६।४ ॥
तुल्येति । तुल्यानि रामशीलादिसदृशानि शीलं वयश्च वृत्तमाचरणं च यस्याः तुल्ये अभिजनः कुलं लक्षणं सामुद्रिकोक्तसुलक्ष्म यस्याः तां वैदेहीं राघव एवार्हति अत एव इयं वैदेही एव तं राघवमर्हति ॥ ५।१६।५ ॥
तामिति । लोकः कान्तः शोभावान् यया यत्कान्त्यैव सर्वः प्रकाशते इत्यर्थः, तां श्रियमिव नवहेमाभां तां सीतां दृष्ट्वा मनसा रामं जगाम इदमब्रवीच्च ॥ ५।१६।६ ॥
तद्वचनाकारमाह– अस्या इत्यादिभिः । अस्याः हेतोर्वाली हतः वीर्ये रावणप्रतिमो रावणसदृशः कबन्धश्च निपातितः ॥ ५।१६।७ ॥
विराध इति । महेन्द्रेण शम्बर इव विराधश्च हतः अस्या हेतोरित्यनुकृष्यते एवमुत्तरेष्वपि ॥ ५।१६।८ ॥
चतुरिति । रक्षसां चतुर्दश सहस्राणि निहतानि ॥ ५।१६।९ ॥
खर इति । खरादिर्निहतः ॥ ५।१६।१० ॥
ऐश्वर्यमिति । वालिपालितम् अत एव दुर्लभम् अन्यैरलभ्यं वानराणामैश्वर्यं वानरनिरूपितेश्वरत्वम् अस्या निमित्ते सुग्रीवः प्राप्तवान् ॥ ५।१६।११ ॥
सागर इति । निरीक्षिता ऽवलोकिता ॥ ५।१६।१२ ॥
यदीति । अस्याः कृते प्राप्तये समुद्रान्तां मेदिनीं जगत् त्रिलोकीं वा परिवर्तयेत् भ्रामयेत् तर्हि युक्तमेव इति मे मतिर्निश्चयः ॥ ५।१६।१३ ॥
तत्र हेतुमाह– राज्यमिति । त्रिषु लोकेषु राज्यमधिकमिति शेषः, सीता वा ऽधिकेति विचार्यमाणे सतीति शेषः, सकलं त्रैलोक्यराज्यं सीतायाः कलां शोडशांशमपि नाप्नुयात् ॥ ५।१६।१४ ॥
इयमिति । भर्तृदृढव्रतेयं सीता हलमुखेन क्षते आकृष्टे क्षेत्रे मेदिनीं भित्त्वा पद्मरेणुनिभैः केदारपांसुभिः कीर्णां व्याप्ता सती उत्थिता । श्लोकद्वयमेकान्वयि ॥ ५।१६।१५,१६ ॥
विक्रान्तस्येति । विक्रान्तस्य अतिपराक्रमविशिष्टस्य आर्यशीलस्य क्षत्रियपरमधर्मप्रवृत्तिस्वभावस्य अत एव संयुगेषु संग्रामेषु अनिवर्तिनो दशरथस्य एषा ज्येष्ठा स्नुषा धर्मज्ञस्य रामस्य दयिता अतिप्रिया भार्या इयं सीता राक्षसीवशम् आगता प्राप्ता । श्लोकद्वयमेकान्वयि ॥ ५।१६।१७,१८ ॥
सर्वानिति । भर्तृस्नेहबलात् सर्वान् भोगान् परित्यज्य कष्टानि अचिन्तयित्वा च कृता सहगमनविषयकप्रयत्नवती सीता वनं प्रविष्टा ॥ ५।१६।१९ ॥
संतुष्टेति । भर्तृशुश्रूषणापरा पतिशुश्रूषणे निरता या सीता भवने इव वने ऽपि परां प्रीतिं भजते । अनर्थानां दुःखानाम् अभागिनी प्राप्त्योग्येत्यर्थः सेयं सीता एतां यातनां सहते । शुश्रूषणेति युजन्तम् । श्लोकद्वयमेकान्वयि ॥ ५।१६।२०,२१ ॥
इमामिति । रावणेन प्रमथितां हिंसितप्रायाम् इमां सीतां पिपासितः प्रपामिव राघवो द्रष्टुमिच्छति ॥ ५।१६।२२ ॥
अस्या इति । मेदिनीं पृथ्वीं पुनः प्राप्य राज्यपरिभ्रष्टः राजा इव अस्याः सीतायाः लाभात् राघवः प्रीतिमेष्यति प्राप्स्यति ॥ ५।१६।२३ ॥
कामेति । कामभोगैः परित्यक्ता सीता तत्समागमकाङ्क्षिणी रामसमागमविषयकोत्कटेच्छावती सती आत्मनो देहं धारयति ॥ ५।१६।२४ ॥
नेति । एकस्थहृदया एषा सीता राममेवानुपश्यति अतः राक्षस्यो राक्षसीः पुष्पफलद्रुमांश्च न पश्यति ॥ ५।१६।२५ ॥
भर्तेति । भर्ता भूषणादप्यधिकं भार्याशोभनं स्त्रीशोभाहेतुः अतः शोभनार्हा ऽपि एषा सीता तेन रामेण रहिता सती न शोभते ॥ ५।१६।२६ ॥
दुष्करमिति । अनया हीनो रामः यदात्मनो देहं धारयति दुःखेन अवसीदति च न तत् दुष्करं कुरुते ॥ ५।१६।२७ ॥
इमामिति । असिताः कृष्णाः केशाः यस्याः तां, तां प्रसिद्धां इमां दुःखितां ज्ञात्वा ममापि मनो व्यथितम् ॥ ५।१६।२८ ॥
क्षितीति । क्षितेरिव क्षमा यस्याः सा या सीता राघवलक्ष्मणाभ्यां रक्षिता सा सीता विकृतेक्षणाभिः राक्षसीभिः वृक्षमूले संरक्ष्यते ॥ ५।१६।२९ ॥
हिमेति । व्यसनस्य दुःखस्य परम्परया निपीड्यमाना अत एव हिमेन हता नलिनी कमलिनी इव जनकसुता सहचरेण चक्रकेण रहिता चक्रवाकीव कृपणां शोचनीयां दशां प्राप्ता ॥ ५।१६।३० ॥
अस्या इति । पुष्पैरवनताः अग्रशाखाः येषां ते अस्याः वनिकायाः अशोकाः हिमव्यपायेन अतिहिमस्याभावात् अभ्युत्थितः प्रकाशितः अनेकसहस्ररश्मिः चन्द्रश्च अस्याः सीतायाः दृढं शोकं जनयन्ति ॥ ५।१६।३१ ॥
इतीति । इति अनेन प्रकारेण इयं सीतैव इति जातबुद्धिः कपिः अर्थं प्रयोजनसिद्धिम् अन्ववेक्ष्य तस्मिन् शिंशुपाभिधे वृक्षे संश्रित्य निषसाद ॥ ५।१६।३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षोडशः सर्गः ॥ ५।१६ ॥