०१५ हनुमता सीतादर्शनम्

शिंशुपोपरिस्थितहनुमदन्वेषणप्रकारमाह स इत्यादिभिः । तत्रस्थः शिंशुपाह्वतरौ स्थितः सः हनूमान् मैथिलीं मार्गमाणः अत एव अवेक्षमाणः इतस्ततो ऽवलोकयन् अत एव महीम् अवेक्षमाणश्च सन् सर्वां दिशम् अन्ववैक्षत ॥ ५।१५।१ ॥

संतानकेति । संतानकादिभिः उपशोभिताम् अत एव नन्दनसंकाशां नन्दनवनसदृशीं वापीभिरुपशोभितां बहुभिः आसनैः कुथैः महाराजस्थितियोग्यकम्बलविशेषैरुपेतां सर्वर्तुकुसुमैः पादपैः अशोकानां श्रिया च सूर्योदयप्रभाम् असकृत् विनिष्पतद्भिर्विहगैर्निष्पन्नशाखामिव क्रियमाणां चित्रैः पुष्पावतंसकैरुपलक्षितैः समूलपुष्परचितैः समूलानि मूलसहितानि यानि पुष्पाणि तैः रचितैः पुष्पभारेण अतिपुष्पधारणेन अतिभारो येषां तैर्मेदिनीं स्पृशद्भिरिव शोकनाशनैरशोकैरशोकविशेषैः प्रदीप्तामिव अशोकवनिकां तत्रस्थः शिंशुपायां स्थितो मारुतिः समुदैक्षत । सप्तकमेकान्वयि ॥ ५।१५।२८ ॥

स इति । पुन्नागादयः शोभन्ते अत एव स देशः तेषां प्रभया प्रदीप्त इव । सार्धश्लोक एकान्वयी ॥ ५।१५।९ ॥

शातेति । केचित् शातकुम्भनिभाः सुवर्णघटसदृशाः तत्र सहस्रशः अशोकाः अशोभन्तेति शेषः । अर्धद्वयमेकान्वयि ॥ ५।१५।१० ॥

नन्दनमिति । विबुधोद्यानं नन्दनवनमिव नन्दनम् आनन्दकं चैत्ररथं कुबेरवनमिव चित्रं यथेत्युभयान्वयि । अतिवृत्तम् उपमानीभूतवनद्वयाभ्यामधिकं द्वितीयमाकाशमिव पुष्परूपज्योतिर्गणैः आयुतं व्याप्तं पञ्चमं सागरमिव पुष्परूपानेकरत्नैश्चित्रं सर्वेषु ऋतुषु पुष्पाणि येषु तैः पादपैः निचितं व्याप्तं नानानिनदैः अनेकविधनिनादविशिष्टैः मृगगणद्विजैः रम्यं गन्धाढ्यं द्वितीयं गन्धमादनमिव अनेकगन्धप्रवहम् अत एव पुण्यगन्धैर्मनोहरम् उद्यानं शुशुभे इति शेषः । श्लोकचतुष्टयमेकान्वयि ॥ ५।१५।१११४ ॥

अशोकेति । ऊर्जितम् अत्युछ्रितं स्म्भसहस्रेण स्थितं कैलासवत्पाण्डुरं प्रवालैः कृतानि सोपानानि यस्मिन् चक्षूंषि मुष्णन्तं चोरयन्तमिव श्रिया द्योतमानं निर्मलं प्रांशुभावत्वात् अत्युन्नतत्वात् अम्बरमुल्लिखन्तमिव चैत्यप्रासादं वर्तुलाकारप्रासादविशेषम् अशोकवनिकायां ददर्श । अर्धषट्कमेकान्वयि ॥ ५।१५।१५१७ ॥

तत इति । ततः प्रासाददर्शनानन्तरं मलिनसंवीतां मलिनवस्त्रेणाच्छादितां राक्षसीभिः समावृतां पुनः पुनर्निःश्वसन्तीं शुक्लपक्षादौ चन्द्ररेखामिव अमलां दोषसंसर्गरहितां सीतां ददर्श । सार्धश्लोक एकान्वयी ॥ ५।१५।१८,१९ ॥

मन्देति । मन्दं प्रख्यां दैन्यबोधनमयते प्राप्नोति तेन रूपेण रुचिरप्रभा यस्या तां धूमजालेन पिनद्धाम् आच्छादितां विभावसोरग्नेः शिखामिव ॥ ५।१५।२० ॥

क्लिष्टेन जीर्णतया प्रतीतेन पीतेन एकेन उत्तमवाससा संवीताम् अनलङ्काराम् अलङ्कृतिरहिताम् अत एव विपद्मां पद्मरहितां पद्मिनीं सरसीमिव सपङ्कां मलिनाम् ॥ ५।१५।२१ ॥

दुःखसन्तप्तां वियोगजनितदुःखाक्रान्तामत एव अङ्गारकेण भौमेन ग्रहेण पीडितां रोहिणीमिव पीडिताम् ॥ ५।१५।२२ ॥

अत एव अश्रुपूर्णमुखीम् अत एव दीनां क्षीणां तत्त्वेन प्रतीयमानाम् अत एव दीनां प्राप्तग्लानिम् अत एव अनशनेन भोजनाभावेन कृशाम् अत एव शोकध्यानपरां शोकहेतुकचिन्ताक्रान्तां प्रियं जनम् अपस्यन्तीं राक्षसीगणं पश्यन्तीम् अत एव स्वगणेन स्वकीययूथेन हीनां श्वगणेन शुनां समुदायेन च आवृताम् अत एव नित्यदुःखपरायणां मृगीमिव दीनाम् ॥ ५।१५।२३,२४ ॥

नीलनागाभयाकृष्णसर्पसदृश्याजघ्ननं पृष्टान्तदेशं गतया प्राप्तया एकया केशविन्यासाभावेन जटीभूतया वेण्या उपलक्षितां नीरदापाये धनापगमे नीलया वनराज्या महीमिव स्थितां सीतां ददर्शेत्यनुकृष्यते । श्लोकषट्कमेकान्वयि ॥ ५।१५।२५ ॥

सुखार्हामिति । सुखार्हां सुखयोग्यां व्यसनानां दुःखानाम् अकोविदाम् अविज्ञात्रीं दुःखसंतप्तां तां सीतां विलोक्य उपपादिभिः सीताबोधनसमर्थैः कारणैः इयं सीतेति तर्कयामास । सार्धश्लोक एकान्वयी ॥ ५।१५।२६ ॥

तर्कप्रकारमाह ह्रियमाणेति । तेन रावणेन ह्रियमाणा सा सीता तदा हरणसमये यथारूपा दृष्टा तथारूपैव इयमङ्गना । एतेनेयं सीतैव भवितुमर्हतीति सूचितम् ॥ ५।१५।२७ ॥

सीतामेव वर्णयन्नाह– पूर्णेति । पूर्णचन्द्राननां पूर्णचन्द्रसदृशाननविविष्टां चारू मनोहरौ वृत्तौ वर्तुलौ पयोधरौ यस्यास्ताम् ॥ ५।१५।२८ ॥

प्रभया स्वशरीरकान्त्या सर्वाः दिशः वितिमिराः कुर्वतीं बिम्बोष्ठीम् ॥ ५।१५।२९ ॥

मन्मथस्य संबन्धिनीं रतिं यथा अतिरूपत्वेन तत्सदृशीं सर्वस्य जगतः इष्टां पूज्याम् ॥ ५।१५।३० ॥

नियतां यतचित्तां तापसीमिव भूमौ आसीनां भुजगेन्द्रवधूमिव भीरुम् ॥ ५।१५।३१ ॥

विततेन विस्तृतेन महता शोकजालेन न राजतीम् ईषद्दीप्ताम् अत एव धूमजालेन संसक्तां संबद्धां विभावसोः अग्रेः शिकामिव ॥ ५।१५।३२ ॥

संदिग्धाम् अर्थनिश्चयविषयकसंदेहविशिष्टां स्मृतीं स्मृतिमिव संदिग्धां शरीरस्थितिविषयकसंदेहविशिष्टां निपतिता भीत्या चौरादिभिः क्वचिन्निःक्षिप्ताम् ऋद्धिं मण्यादिसमूहमिव विहतां नास्तिकबुद्ध्या अनादृतां श्रद्धामिव प्रतिहतां लाभाभावान्निवृत्ताम् आशामिव ॥ ५।१५।३३ ॥

सोपसर्गां विघ्नैः संयुक्तां सिद्धिमिव सकलुषां संशयादिना विशिष्टां बुद्धिमिव अभूतेन अजातेन अपवादेन मिथ्याभूतकलङ्केनेत्यर्थः, निपतितां कीर्तिमिव ॥ ५।१५।३४ ॥

रामोपरोधेन रामसेवानिरोधेन व्यथितां रक्षोगणनिपीडितां रक्षःसमूहवद्देशवासेन प्राप्तपीडाम् अत एव कृष्णवक्राक्षिपक्ष्मणा नेत्रेण ततस्ततो वीक्षमाणां पुनः पुनर्निःश्वसन्तीम् ॥ ५।१५।३५,३६ ॥

मलपङ्कधरां स्नानाभावादिनिष्पन्नमलरूपपङ्कयुतां मण्डनार्हां शोभायोग्याम् अमण्डितां वियोगेन शोभारहिताम् अत एव कालमेघैरावृतां नक्षत्रराजस्य चन्द्रमसः प्रभामिव आम्रायानाम् अभ्यासानाम् अयोगेन प्रशिथिलां विद्यामिव तां सीतां निरीक्ष्य तस्य हनुमतो बुद्धिः संदिदिहे । सार्धश्लोकदशकमेकान्वयि ॥ ५।१५।३७,३८ ॥

दुःखेनेति । संस्कारेण यथोचितस्नानादिरूपसंस्कृत्या हीनाम् अत एव अर्थान्तरं गतां वाचमिव अनलंकृतां सीतां दुःखेन बुबुधे ॥ ५।१५।३९ ॥

तामिति । तां सीतां समीक्ष्य कारणैर्हेतुभिरुपपादयन् सन् इयं सीतेति तर्कयामास अनुमानेन निश्चयं चकार ॥ ५।१५।४० ॥

तत्प्रकारमाह वैदेह्या इति । तदा प्रस्थानसमये वैदेह्या अङ्गेषु यान्याभरणजालानि रामो ऽन्वकीर्तयत् तानि गात्रशोभीनि अलक्षयत् अपश्यत् ॥ ५।१५।४१ ॥

आभरणान्येवाह सुकृताविति । सुकृतौ निपुणतया निर्मितौ कर्णवेष्टौ कुण्डले श्वदंष्ट्रौ शुनां दंष्ट्राकृती कर्णाभरणविशेषौ च मणिविद्रुमैश्चित्राणि चिरयुक्तत्वात् श्यामानि तथासंस्थानवन्ति रामोक्तावयवविन्यासयुक्तानि हस्तेष्वाभरणानि एतानि सर्वाणि यानि रामो ऽन्वकीर्तयत् तान्येव अहं मन्ये । एतेन तद्युक्तत्वात्सीतैवेयमिति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ५।१५।४२,४३ ॥

हेत्वन्तरमाह तत्रेति । तत्र रामाज्ञापिताभरणेषु यानि अवहीनानि ऋष्यमूकादौ पतितान्यहं नोपलक्षये यानि न अवहीनानि तानि एव इमानि संशयः अत्र संदेहो न ॥ ५।१५।४४ ॥

अन्तरीयवस्त्रमात्रधारणमपि हेतुरिति बोधयन्नाह– पीतमिति । कनकपट्टस्याभा दीप्तिर्यस्मिन् तत्पीतमुत्तरीयं नगासक्तं वृक्षे संसक्तं प्लवङ्गमैर्वानरैस्तदा आसञ्जनसमये दृष्टम् ॥ ५।१५।४५ ॥

भूषणानीति । अनयैव अपविद्धानि परिक्षिप्तानि भूषणानि दृष्टानि ॥ ५।१५।४६ ॥

इदमिति । यद्यपि चिरगृहीतत्वाद्धेतोरिदं वसनं क्लिष्टवत्तरम् अतिबाधिताभं तथापि तद्वर्णं पतिवर्णविशिष्टं तथा श्रीमत् बह्वैश्वर्यलभ्यं यथा इदम् अन्तरीयं तथा इतरत् तद्वृक्षासक्तोत्तरीयमपि ॥ ५।१५।४७ ॥

इयमिति । प्रनष्टापि यस्य रामस्य मनसः सती महिषी न प्रणश्यति तस्य रामस्य सा प्रिया श्रिया इयमेव ॥ ५।१५।४८ ॥

इयमिति । चतुर्भिः कारुण्यादिभिर्यत्कृते यदर्थं रामस्तप्यते सा इयमेव ॥ ५।१५।४९ ॥

कारुण्यादीनि यथाविभागं हेतुत्वेन प्रकल्प्याह स्त्रीति । स्त्री आपत्काले संरक्षणीय कान्ता प्रनष्टा इति हेतोः कारुण्यात्, आश्रिता प्रनष्टा इत्यानृशंस्यतः क्रूरत्वापवादात्, पत्नी नित्यसंयोगवतीत्वेन सकलधर्महेतुभूता प्रनष्टेति शोकेन च प्रिया प्रनष्टेति मदनेन च संतप्तो ऽभवदिति शेषः ॥ ५।१५।५० ॥

अस्या इति । अस्याः यथा रूपादि तथा तस्य रामस्यास्तीति शेषः । यथा रामस्य रूपादि तथा अस्या अस्ति अनयोरेव परस्परं सादृश्यमस्तीत्यर्थः । अत इयं रामस्यैव ॥ ५।१५।५१ ॥

अस्या इति । अस्याः मनः तस्मिन् रामे तस्य रामस्य च मनः अस्यां तेन हेतुना इयं स च जीवति मुहुर्तमपि अन्यथा न जीवेदित्यर्थः ॥ ५।१५।५२ ॥

दुष्करमिति । अनया हीनः रामः आत्मनो देहं धारयति शोकेन च न अवसीदति सर्वविस्मारकखेदं प्राप्नोति तत् दुष्करं कृतवान् ॥ ५।१५।५३ ॥

एवमिति । तदा तस्मिन् काले एवं सीतां दृष्ट्वा हृष्टः पवनसंभवः रामं मनसा जगाम प्रशशंस च ॥ ५।१५।५४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चदशः सर्गः ॥ ५।१५ ॥