०१४ अशोकवाटिकाप्रवेशः

अशोकवनिकान्वेषणमुपक्रमते स इति । स हनूमान् मुहूर्तं ध्यात्वा वनिकागमनप्रकारं संचिन्त्य तां सीतां मनसा अधिगम्य प्राप्य तस्य रावणस्य वेश्मनः वेश्मप्राकारात् प्राकारम् अशोकवनिकाया इति शेषः, अवप्लुतः उत्प्लुत्या प्राप्तः ॥ ५।१४।१ ॥

स इति । प्राकारस्थः स हनूमान् वसन्तादौ चैत्रे किंच वसन्तः आदीयते नित्यं प्रतीयते यस्यां तस्यां भूमौ पुष्पिताग्रान् द्रुमान्ददर्श ॥ ५।१४।२ ॥

द्रुमाणां नामानि निर्दिशन्नाह– सालानिति । आम्रवनसंछन्नान् आम्रवनैरावृतान् लताशतसमावृतान् अनेकलताभिः संयुक्तान् शालादीन् ददर्शेत्यनुकृष्यते । सार्धश्लोक एकान्वया ॥ ५।१४।३ ॥

ज्येति । ज्यामुक्तः नाराच इव पुष्पवाटिकां पुप्लुवे ॥ ५।१४।४ ॥

स इति । स हनूमान् चित्रकाननां चित्रकाननविशिष्टां विहगादिभिर्विचित्रां तां विचित्रमध्याम् उदितादित्यसंकाशां काले सर्वसमये पुष्पाणि उपगानि संप्राप्तानि येषु फलानि उपगानि येषु पुष्पाणि उपगच्छन्ति फलान्युपगच्छन्तीति वा ते एव ते इति कर्मधारयः । तैर्वृक्षैर्वृतां कोकिलादिभिर्नित्यं निषेवितां राजपुत्रीं सीतां मार्गमाणा प्रहृष्टा मनुजा जन्तवो यस्यां मृगपक्षिमदैराकुलां तां पुष्पवाटिकां प्रविश्य ददर्श समवल्लुलोक । श्लोकचतुष्टयमेकान्वयि ॥ ५।१४।५८ ॥

मार्गमाण इति । प्रसुप्तान् विहगान् तदुपलक्षितविहगादीन् बोधयामास ॥ ५।१४।९ ॥

उत्पतद्भिरिति । पक्षैः उत्पतद्भिः उड्डीयमानैर्द्विजगणैः पक्षिसमूहैः समाहता अनेकवर्णास्तरवः पुष्पवृष्टयः पुष्पवृष्टीर्मुमुचुः ॥ ५।१४।१० ॥

पुष्पेति । पुष्पावकीर्णः प्रपतितपुष्पैराछन्नः हनूमान् पुष्पमयो गिरिरिव शुशुभे ॥ ५।१४।११ ॥

दिश इति । सर्वा दिशः अभिधावन्तम् । अत एव वृक्षखण्डगतं वृक्षसमूहेषु प्राप्तं कपिं दृष्ट्वा सर्वाणि भूतानि रक्षांसि वसन्तः कपिरूपेण समागतऋतुराजो ऽयमिति मेनिरे ॥ ५।१४।१२ ॥

वृक्षेभ्य इति । पृथग्विधैरनेकप्रकारैः वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा वसुधा भूषिता प्रमदा इव रराज ॥ ५।१४।१३ ॥

तरस्विनेति । तरस्विना हनूमता तरसा वेगेन बहुकम्पितास्तरवो विचित्राणि कुसुमानि ससृजुः ॥ ५।१४।१४ ॥

निर्धूतेति । निर्धूतानि पत्रशिखराणि मुख्यपत्राणि येषाम् अत एव शीर्णाः पुष्पफलद्रुमाः पुष्पफलपल्लवा येषां ते तरवः पराजिताः अक्षे पराभूताः अत एव निक्षिप्तवस्त्राभरणाः धूर्ता इव आसन् इति शेषः ॥ ५।१४।१५ ॥

हनूमतेति । हनूमता कम्पिता नगोत्तमा उत्तमवृक्षाः पुष्पादीनि मुमुचुः ॥ ५।१४।१६ ॥

विहङ्गेति । मारुतेन हनुमता विनिर्धुताः विनिर्धूताः अत एव विहङ्गसङ्गैर्हीनाः अत एव स्कन्धमात्राश्रयाः अत एव अगमाः गन्तुमयोग्याः बभूवुः ॥ ५।१४।१७ ॥

विधूतेति । विधूताः प्रकम्पिताः केशाः यस्याः निपीतौ शुभदन्तौ ओष्ठौ च यस्याः नखैर्दन्तैश्च विक्षता मृदितवर्णका विगताङ्गरागा युवतिर्यथा तथा लाङ्गूलहस्तैः चरणाभ्यां च मर्दिता तथा तेनैव हेतुना भग्नपादपा अशोकवनिका अभवदिति शेषः । श्लोकद्वयमेकान्वयि ॥ ५।१४।१८,१९ ॥

महेति । प्रावृषि मेघजालानि मारुत इव महालतानां दामानि जालानि कपिर्व्यधमत् ॥ ५।१४।२० ॥

स इति । कपिः ददृशे ॥ ५।१४।२१ ॥

वापीरिति । विविधाकाराः अनेकविधावयवाः परमवारिणा पूर्णाः महार्हैः प्रशंसनीयैः मणिसोपानैः उपपन्नाः युक्ताः मुक्ताप्रवालान्येव सिकता यासु स्फाटिकाः स्फटिकमयाः आन्तरकुट्टिमाः अभ्यन्तरनिबद्धभूमयः यासु तरुभिरुपशोभिताः बुद्धानि विकसितानि पद्मोत्पलवनानि यासु नत्यूहानां दात्यूहानां रुतेन शब्देन संघुष्टा दीर्घाभिः विशालाभिः अमृतोपमतोयाभिः अत एव शिवाभिः सरिद्भिः उपसंस्कृताः नित्यं पूर्णत्वाय प्रापिताः लताशतैरवतताः व्याप्ताः संतानकुसुमैः कल्पवृक्षपुष्पैरावृताः नानागुल्मैरावृतं वनं जलं यासां करवीरैः कृतम् अन्तरं छिद्रं यासु ताः वापीः ददर्श । ततो ऽनन्तरम् अम्बुधरसंकाशं मेघसदृशं प्रवृद्धानि शिखराणि यस्य तं विचित्राणि कूटानि यस्य तं कूटैः अन्यपर्वतशृङ्गैश्च सर्वतः परिवारितं शिलागृहैः शिलामयभवनैः अवततं व्याप्तं जगति लोके रम्यं मनोहरं पर्वतं पर्वभिः अनेकग्रन्थिभिः तन्यते वर्ध्यते स तं गिरिं च ददर्श । सप्तकमेकान्वयि ॥ ५।१४।२२२८ ॥

ददर्शेति । प्रियस्य अङ्कात् समुत्पत्य पतितां प्रियामिव तस्मात् नगात् निपतितां नदीं ददर्श ॥ ५।१४।२९ ॥

जले इति । प्रियबन्धुभिर्वार्यमाणाम् अन्यत्र गमननिरोधाय प्रार्थ्यमानां क्रुद्धां प्रमदामिव जले निपतिताग्रैः पादपैस्तरुभिरुपशोभितां कान्तस्योपरि प्रसन्नाम् अत एव पुनरुपस्थितां प्राप्तां कान्तामिव पुनरावृत्ततोयां परावृत्तजलां तां नदीं ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।१४।३०,३१ ॥

तस्येति । तस्य पर्वतस्य अदूरात्समीपे पद्मिन्यः पद्मिनीः पद्मविशिष्टसरः ददर्श ॥ ५।१४।३२ ॥

कृत्रिमामिति । शीतेन वारिणा पूर्णां मुक्ता एव सिकताः ताभिः शोभितां ह्रस्व आर्षः ॥ ५।१४।३३ ॥

मृगसंघैर्विचित्रां चित्राणि काननानि यस्याः तां विश्वकर्मणा निर्मितैः प्रासादैः कृत्रिमैः काननैश्च सर्वतः समलंकृतां कृत्रिमां दीर्घिकां च ददर्श । सार्धश्लोकद्वयमेकान्वयि ॥ ५।१४।३४ ॥

ये इति । तत्र दीर्घिकासमीपे ये केचित्पादपाः सन्तीति शेषः । ते सर्वे पुष्पोपगफलोपगाः पुष्पादिप्राप्तिमन्तः सच्छत्राः छत्राकारस्थितिमन्तश्च सवितर्दीकाः अधोभागे राजतादिवेदिकासहिताः सौवर्णवेदिकाश्च सन्ति । सौवर्णवेदिका इत्यस्य सुवर्णदातारः कल्पवृक्षविशेषा इत्यर्थो वा । अर्धद्वयमेकान्वयि ॥ ५।१४।३५ ॥

लतेति । लताप्रतानादिभिर्वृताम् एकां स्वसजातीयरहितां हेममयीभिर्वेदिकाभिर्वृतां काञ्चनीं शिंशुपां वृक्षविशेषं ददर्श । सार्धश्लोक एकान्वयी ॥ ५।१४।३६,३७ ॥

स इति । भूमिभागादीन् अपश्यत् शिखिसन्निभान् अग्निसदृशान् सुवर्णवृक्षान् ददर्श ॥ ५।१४।३८ ॥

तेषामिति । मेरोरिव द्रुमाणां प्रभयोपलक्षितो महाकपिः अहं काञ्चनो ऽस्मीत्यमन्यत ॥ ५।१४।३९ ॥

तानिति । मारुतेन प्रकम्पितान् किङ्किणीशतनिर्घोषान् फलादिवत्स्वाभाविकस्वावयवीभूतानेककिङ्किणीनिःस्वनसहितान् उरुगुणान् मधुस्रवादिगुणविशिष्टान् तरुणाङ्कुरपल्लवान् तरुणाङ्कुरादिविशिष्टान् तान् तरून् दृष्ट्वा विस्मयमागमत् । सार्धश्लोक एकान्वयि ॥ ५।१४।४० ॥

तामिति । तां शिशुपामारुह्य चिन्तयामासेतिः शेषः । अर्धं पृथक् ॥ ५।१४।४१ ॥

चिन्ताकारमाह इत इति । दुःखार्ताम् अत एव इतश्चेतः इतस्ततः यदृच्छया संपतन्तीम् अत एव इहाप्यागतामिति शेषः । वैदेहीं द्रक्ष्यामि ॥ ५।१४।४२ ॥

अशोकेति । रम्या रमणीयचन्दनादिभिर्विभूषिता यस्यामियं रम्या नलिनी सेयमशोकवनिका शोकनिवर्तिकात्वेन तदभिधा अतः इमां जानकी नूनमेष्यति । एतेनैतन्नामश्रुत्या तत्र गमने ममापि शोकविध्वंसो भवितेति निश्चयवती सीतावश्यं भवेदिति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ५।१४।४३,४४ ॥

सेति । वनसंचारकुशला सा जानकी ध्रुवमेष्यति ॥ ५।१४।४५ ॥

तदेव भङ्ग्यन्तरेणाह अथवेति । रामचिन्तासु कर्षिता अथवा अत एव अस्य वनस्य विचक्षणा वनसंबन्ध्यन्वेषणादिकुशला सा सीता वनमेष्यति । एतेन केनचिद्रूपेण कश्चिद्रामानुचरो मदन्वेषणार्थं तत्रागच्छेदिति सीतासंभावना सूचिता ॥ ५।१४।४६ ॥

स्वाभाविकतया ऽप्यत्रागमनं तस्याः संभवतीत्याह रामेति । वनेचराणां पक्ष्यादीनां पुरा स्पृश्यते तद्विषयकातिप्रीतिमतीत्यर्थः, अत एव वनवासरता वनवासविषयकप्रीतिमती अत एव वनचारिणी सा सीता एष्यते एष्यति । श्लोकद्वयमेकान्वयि ॥ ५।१४।४७,४८ ॥

आगमने हेत्वन्तरमाह संध्येति । संध्याकालः समयो यस्य तस्मिन् स्नानजपादौ मनो यस्याः सा श्यामा नित्यं षोडशवार्षिकीत्वेन प्रतीयमाना जानकी संध्यार्थे सान्ध्यकर्मनिवृत्त्यर्थम् इमां नदीं ध्रुवमेष्यति ॥ ५।१४।४९ ॥

तस्या इति । पार्थिवेन्द्रस्य रामस्य संमता या पत्नी तस्याः एव इयमशोकवनिका अनुरूपा योग्या ॥ ५।१४।५० ॥

चिन्तान्तरमाह यदीति । सा सीता यदि जीवति तर्हि सा ऽवश्यम् अवश्यत्वसहितम् आगमिष्यति ॥ ५।१४।५१ ॥

एवमिति । मनुजेन्द्रपत्नीं तदागमनं प्रतीक्षमाणः अत एव अवेक्षमाणः अन्वेषणं कुर्वन् पर्णानि घनानि यस्मिन् तस्मिन् सुपुष्पिते शिंशुपाह्वतरौ निलीनो हनूमान् सर्वं वनं ददर्श ॥ ५।१४।५२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चतुर्दशः सर्गः ॥ ५।१४ ॥