अन्वेषणान्तरमाह– विमानादित्यादिभिः । स हनूमान् विमानात्प्राकारं संक्रम्य संप्राप्य घनान्तरे विद्युदिव वेगवान् आसीत् ॥ ५।१३।१ ॥
समिति । हनूमान् रावणस्य निवेशनान् गृहान् संपरिक्रम्य अन्वेषणार्थं संप्राप्य अब्रवीत् ॥ ५।१३।२ ॥
तद्वचनाकारमाह भूयिष्ठमिति । प्रियं चरता मया लङ्का भूयिष्ठमत्यन्तं लोडिता अन्विष्टा हि तथापि वैदेहीं नैव पश्यामि ॥ ५।१३।३ ॥
तदेव भङ्ग्यन्तरेणाह– पल्वलानीति । पल्वलादयः मया लोलिताः । सार्धश्लोक एकान्वयी ॥ ५।१३।४ ॥
अलाभस्याश्चर्यं मत्वा आह इहेति । इह अस्मिन् रावणस्य निवेशने सीता स्थितेति शेषः, गृध्रराजेनाख्याता सा सीता किं कथं न दृश्यते अत्र कारणं न पश्यामीत्यर्थः । अर्धद्वयमेकान्वयि ॥ ५।१३।५ ॥
दृष्टमन्दोदरीं सीतात्वेनाशङ्क्य निराकरोति किमिति । बलात् रावणेन हृता सीता उपतिष्ठेत रावणसमीपं तिष्ठेत् किं नेत्यर्थः । एतेन सा न सीतेति सूचितम् ॥ ५।१३।६ ॥
चिन्तान्तरमाह– क्षिप्रमिति । रामबाणानां रामबाणेभ्यो बिभ्यतः अत एव सीतामादाय क्षिप्रमुत्पततः रक्षसः समीपात् अन्तरा मध्ये पतिता भवेत् इति मन्ये ॥ ५।१३।७ ॥
पातस्यासंभवं मत्त्वा पक्षान्तरमाह– अथवेति । सिद्धनिषेविते पथि ह्रियमाणाया अत एव सागरं प्रेक्ष्य भीताया इति शेषः, सीतायाः हृदयं मनः पतितम् उत्क्रान्तं मनउत्क्रमणस्य मरणत्वान्मृतेत्यर्थः, इत्यहं मन्ये ॥ ५।१३।८ ॥
चिन्तान्तरमाह– रावणस्येति । उरुवेगेन रावणस्य भुजाभ्यां पीडितेन गाढं ग्रहणेन हेतुना तया सीतया जीवितं त्यक्तम् इति मन्ये ॥ ५।१३।९ ॥
चिन्तान्तरमाह– उपरीति । सागरम् उपरि उपरि क्रमतो रावणस्य समीपे विचेष्टमाना लुण्ठन्ती जनकात्मजा समुद्रे पतिता ॥ ५।१३।१० ॥
चिन्तान्तरमाह– अहो इति । आत्मनः शीलं पातिव्रत्यं रक्षन्ती अबन्धुः बन्धुरहिता सीता क्षुद्रेण अनेन रावणेन भक्षिता ॥ ५।१३।११ ॥
चिन्तान्तरमाह– अथवेति । दुष्टभावाभिः क्रूरस्वभावाभिः राक्षसेन्द्रस्य पत्नीभिः सा सीता भक्षिता भविष्यति ॥ ५।१३।१२ ॥
चिन्तान्तरमाह– समिति । संपूर्णचन्द्रप्रतिमं पूर्णचन्द्रसदृशं रामस्य वक्त्रं ध्यायन्ती सीता पञ्चत्वं मरणं गता ॥ ५।१३।१३ ॥
तदेव भङ्ग्यन्तरेणाह हेति । हा रामेत्यादि बहु विलप्य न्यस्तदेहा भविष्यति ॥ ५।१३।१४ ॥
चिन्तान्तरमाह अथवेति । रावणस्य निवेशने क्वचित् गोप्यस्थले निहिता पञ्जरस्था सारिका इव भृशं लालप्यते मरणभावपरीक्षार्थं किंचित् वक्तुं प्रेर्यते ॥ ५।१३।१५ ॥
चिन्तान्तरमाह– जनकस्येति । रामपत्नी रावणस्य वशं कथं व्रजेत् प्राप्नुयात् न प्राप्नुयादित्यर्थः ॥ ५।१३।१६ ॥
ननु शीघ्रं गत्वा यथावृत्तं रामसन्निधावुच्यतामित्यत आह– विनष्टेति । विनष्टा अत्रैव क्वचिद्गोपितात्वेन अदृष्टा प्रणष्टा वा इतो ऽन्यत्र विद्यमानत्वेन अदृष्टा वा मृता लोकान्तरं प्राप्ता वा प्रियभार्यस्य रामस्याग्रे निवेदयितुं कथयितुं न क्षमम्, त्रयाणामप्यनिश्चितत्वात् किंचिद्वक्तुं न शक्यते इत्यर्थः । सामान्ये नपुंसकम् ॥ ५।१३।१७ ॥
निवेद्यमाने इति । निवेद्यमाने अन्यतमं कथ्यमाने दोषो मिथ्यासंसर्गित्वं स्यात् । अनिवेदने ऽपि दोषः मूर्खत्वादिः स्यात् अतः विषममशक्यत्वमित्यर्थः, निवेदनानिवेदनयोरिति शेषः, मे प्रतिभाति अतो मया कथं कर्तव्यम् ॥ ५।१३।१८ ॥
अस्मिन्निति । कार्ये कर्तव्ये एवंगते अशक्यत्वं प्राप्ते सति किमपि क्षममुचितकृत्यं प्राप्तकालं भवेदिति निश्चयं प्रविचारयन् कुर्वन्नास्तेति शेषः ॥ ५।१३।१९ ॥
निश्चयस्यासत्त्वे दोषमाह– यदीति । यदि सीतामदृष्ट्वा वानरेन्द्रपुरीं गमिष्यामि ततो मे पुरुषार्थः को भविष्यति न को ऽपीत्यर्थः ॥ ५।१३।२० ॥
ममेति । लङ्घनादि व्यर्थं भविष्यति ॥ ५।१३।२१ ॥
किमिति । सुग्रीवप्रभृतिः किं वक्ष्यति धिक् त्वामिति कथयिष्यतीत्यर्थः ॥ ५।१३।२२ ॥
सीतावृत्तान्ताप्राप्तौ सर्वेषां विध्वंसो भवितेति बोधयन्नाह गत्वेति । काकुत्स्थं रामं गत्वा प्राप्य सीता न दृष्टेति परुषं यदि वक्ष्यामि ततः कथनात् जीवितं त्यक्ष्यति ॥ ५।१३।२३ ॥
परुषमिति । परुष रूक्षम् अत एव दारुणं हृदयविदारकम् अत एव इन्द्रियतापनम् अत एव तीक्ष्णं सोढुमशक्यम् अत एव क्रूरं सीतानिमित्तं सीतादर्शनाभावबोधकमित्यर्थः, दुर्वाक्यं स रामः श्रुत्वा न भविष्यति इहलोके न स्थास्यति ॥ ५।१३।२४ ॥
तमिति । कृछ्रगतं कष्टं प्राप्तम् अत एव पञ्चत्वे मरणसदृशे गतं मानसं यस्य तं रामं दृष्ट्वा भृशानुरक्तः तद्विषयकात्यनुरागवान् लक्ष्मणः न भविष्यति ॥ ५।१३।२५ ॥
विनष्टाविति । भ्रातरौ विनष्टौ श्रुत्वा भरतो ऽपि मरिष्यति लोकान्तरं गमिष्यति ॥ ५।१३।२६ ॥
पुत्रानिति । कौशल्याप्रभृतयः मातरो न भविष्यन्ति ॥ ५।१३।२७ ॥
कृतज्ञ इति । तथागतं रामं दृष्ट्वा सुग्रीवो जीवितं त्यक्ष्यति ॥ ५।१३।२८ ॥
दुर्मना इति । भर्तृशोकेन पीडिता रुमा जीवितं त्यक्ष्यति ॥ ५।१३।२९ ॥
वालिजेनेति । वालिजेन वालिवधजनितेन दुःखेन पीडिता अत एव पञ्चत्वम् आगता मरणे कृतनिश्चया तारापि न भविष्यति ॥ ५।१३।३० ॥
मातेति । तस्मात् तदनन्तरम् अङ्गदो ऽपि जीवितं विजहिष्यति विहास्यति ॥ ५।१३।३१ ॥
भर्तृजेनेति । भर्तृजेन स्वस्वामिविघातजनितेन दुःखेन अभिभूताः वनौकसः तलैः पाण्यन्तर्भागैर्मुष्टिभिश्च शिरांसि अभिहनिष्यन्ति ॥ ५।१३।३२ ॥
सान्त्वेनेति । कपिनाथेन सुग्रीवेण सान्त्वादिना करणेन लालिताः वानराः प्राणांस्त्यक्ष्यन्ति अत एव कपिकुञ्जराः समेत्य एकीभूय क्रीडां नानुभविष्यन्ति प्राप्स्यन्ति । श्लोकद्वयमेकान्वयि ॥ ५।१३।३३,३४ ॥
मरणप्रकारमाह सेति । भर्तृव्यसनपीडिताः वानराः शैलाग्रेभ्यः पतिष्यन्ति विषं वा प्रचरिष्यन्ति भक्षयिष्यन्ति उद्बन्धनादि वा प्रचरिष्यन्ति करिष्यन्ति शस्त्रं वा प्रचरिष्यन्ति स्वस्वशरीरे प्रवेशयिष्यन्ति । श्लोकद्वयमेकान्वयि ॥ ५।१३।३५,३६ ॥
उपसंहरन्नाह– घोरमिति । मयि गते सति आरोदनादि भविष्यति इत्यहं मन्ये ॥ ५।१३।३७ ॥
स इति । मैथिलीं मैथिलीवृत्तान्तलाभं विना सुग्रीवं द्रष्टुं नैव शक्ष्यामि । अत एव इतः लङ्कायाः किष्किन्धां नैव गमिष्यामि ॥ ५।१३।३८ ॥
लङ्कायामेव स्थितौ गुणो ऽप्यस्तीति आह– मयीति । इहस्थे मयि आगच्छति सति धर्मात्मानौ रामलक्ष्मणौ आशया धरिष्येते प्राणानिति शेषः, अत एव वानराः सुग्रीवाङ्गदप्रभृतयश्च धरिष्यन्ते ॥ ५।१३।३९ ॥
स्वस्थितिप्रकारमाह हस्तेति । हस्तादानः हस्तप्राप्तफलादिग्रहीता मुखादानः मुखपतितफलादिग्राहको वा वृक्षमूलिकः वृक्षमूलनिवसनशीलः नियतः यतचित्तः वानप्रस्थः अहं भविष्यामि ॥ ५।१३।४० ॥
सागरेति । बहुमूलफलादेके बहुमूलादिविशिष्टे सागरानूपजे सागरजलसमीपजे देशे चितिं कृत्वा समिद्धं प्रज्वलितम् अरणीसुतम् अरणीनिष्पन्नवह्निं प्रवेक्ष्यामि ॥ ५।१३।४१ ॥
उपेति । लिङ्गिनम् ऊर्ध्वगतिसाधकचिह्नं सम्यक् साधयिष्यतः अत एव उपविष्टस्य चितां प्रविष्टस्य मम शरीरं वायसाः श्वापदानि च भक्षयिष्यन्ति ॥ ५।१३।४२ ॥
इदमिति । जानकीं न पश्यामि चेत् आपः अपः प्रवेक्ष्यामि । तत्र हेतुः इदं जलप्रवेशेन मयि निर्याणम् ऋषिभिर्दृष्टम् उत्तमत्वेन निर्दिष्टम् ॥ ५।१३।४३ ॥
सुजातेति । चिररात्राय बहुकालं सीताम् अपश्यतो मम सुजातमूला सुजातं रामसुग्रीवसंबन्धहेतुकवार्ताहरत्वेन निष्पन्नं मूलं यस्याः सा सुभगा शोभनैश्वर्यदात्री यशस्विनी मुद्रिकादानोपलक्षितरामप्रीतिपात्रत्वहेतुकातियशोविशिष्टा कीर्तिमाला प्रभग्ना अतः तापसो विचारपरो भविष्यामि तां सीतामदृष्ट्वा इतो न प्रतिगमिष्यामि । श्लोकद्वयमेकान्वयि ॥ ५।१३।४४,४५ ॥
यदीति । अङ्गदो न भविष्यति इह लोके न स्थास्यति ॥ ५।१३।४६ ॥
चिन्तान्तरमाह– विनाश इति । विनाशे मद्विध्वंसे बहवो दोषाः उभयकुलविध्वंसो भविष्यतीत्यर्थः । तस्मात्प्राणान् धरिष्यामि । ननु तव प्राणधारणे ऽपि जानकीवृत्तान्तालाभे वानरैः सुग्रीवसमीपगमने तत्प्राणविघातः गमनाभावे वृत्तान्तलाभानापत्या उभयकुलविनाशो भविष्यत्येवेति किं तव प्राणधारणेनेत्यत आह–, जीवति सति । संगमः सुखप्राप्तिर्ध्रुवो निश्चितः अतः जीवन्ममात्मा भद्रकं कल्याणं प्राप्नोति प्राप्स्यति ॥ ५।१३।४७ ॥
एवमिति । एवम् अनेन प्रकारेण बहुविधं दुःखं मनसा बहु धारयन् विचारयन् शोकस्य पारं नाध्यगच्छत् ॥ ५।१३।४८ ॥
तत इति । ततः शोककाले धैर्यवान् कपिकुञ्जरः विक्रमं युद्धोत्साहम् आसाद्य प्राप्य वा अथवा रावणं वधिष्यामि । ननु रावणवधे ऽपि सीताप्राप्त्यभावे तव किं सेत्स्यतीत्यत आह– सीता हृता ऽस्तु प्रत्याचीर्णं वैरनिर्यातने तु कामं भविष्यति इति चिन्तयामासेति शेषः । सार्धश्लोक एकान्वयी ॥ ५।१३।४९,५० ॥
चिन्तान्तरमाह– अथवेति । अथवा एनं रावणं सागरमुपर्युपरि समुत्क्षिप्य पशुपतेः पशुपतये पशुमिव रामाय उपहरिष्यामि ॥ ५।१३।५१ ॥
इतीति । सीताम् अनधिगम्य अप्राप्य इति उक्ताकारां चिन्तां समापन्नः अत एव ध्यानशोकपरीतात्मा चिन्ताजनितशोकविशिष्टमनाः वानरश्चिन्तयामास ॥ ५।१३।५२ ॥
एतच्चिन्ताकारमाह– यावदिति । यावत् रामपत्नीं न पश्यामि तावत् लङ्कां पुनः पुनर्विचिनोमि ॥ ५।१३।५३ ॥
ननु संपातिवचनं प्रमाणीकृत्य राममिहानय किं कालविलम्बकारकान्वेषणेनेत्यत आह संपातीति । संपातिवचनादेव यदि रामम् आनयामि तर्हि भार्याम् अपश्यन् केनचित्कारणेनानवलोकयन् राघवः सर्ववानरान् निर्दहेत् ॥ ५।१३।५४ ॥
ननु अन्वेषणे ऽपि यदि सीताया अलाभः तर्हि किं करिष्यसीत्यत आह इहेति । इहैव वत्स्यामि तत्र हेतुः मत्कृते सीतावृत्तान्तलाभाभावसूचकमद्वचनश्रवणनिमित्तं नरवानराः न विलश्येयुः ॥ ५।१३।५५ ॥
अशोकेति । इयम् अशोकवनिका महती अतः मम मया न विचिता अतः इमाम् अधिगमिष्यामि विचेष्यामि ॥ ५।१३।५६ ॥
वसूनिति । वस्वादीनि नमस्कृत्वा रक्षसां शोकवर्धनो ऽहं गमिष्यामि ॥ ५।१३।५७ ॥
जित्वेति । राक्षसान् जित्वा तपस्विने सिद्धीः तपःफलानीव देवीं सीतां रामाय संप्रदास्यामि ॥ ५।१३।५८ ॥
स इति । चिन्तया विग्रथितानि व्याप्तानि इन्द्रियाणि यस्य स हनूमान् मुहूर्तं ध्यात्वा आत्मानुसंधानं कृत्वेव उदतिष्ठत् ॥ ५।१३।५९ ॥
तात्कालिकं हनुमत्कृतमङ्गलमाह नम इति । रामादिभ्यः नमो ऽस्तु इत्युवाचेति शेषः ॥ ५।१३।६० ॥
स इति । सः मारुतसदृशः स हनूमान् तेभ्यः पूर्वोक्तेभ्यो नमस्कृत्वा सुग्रीवाय नमस्कृत्वा सर्वा दिशः समालोक्य अशोकवनिकां गतः । “सो वायुः परदेशदूरगमनम्” इत्यभियुक्तोक्तिः ॥ ५।१३।६१ ॥
स इति । हनूमान् पूर्वं मनसा अशोकवनिकां गत्वा उत्तरं चिन्तयामास ॥ ५।१३।६२ ॥
चिन्ताकारमाह ध्रुवमिति । सर्वसंस्कारसंस्कृता अशोकवनिका रक्षोबहुला बहुराक्षसविशिष्टा ध्रुवं भविष्यति ॥ ५।१३।६३ ॥
रक्षिण इति । विहिताः नियुक्ताः रक्षिणः पादपान् ध्रुवं रक्षन्ति अतः विश्वात्मा वायुरपि अतिक्षोभं यथा भवति तथा न प्रवाति ॥ ५।१३।६४ ॥
समिति । रामार्थे रावणस्य वनिकायामयं मयात्मा देहः संक्षिप्तः प्रवेशितः मे सिद्धिं तु सर्षिगणा देवा दिशन्तु । किंच संक्षिप्तशब्दस्य लघ्वीकृत्व इत्यर्थः । रावणस्य समासघटकीभूतार्थे ऽन्वयः । सविशेषणानामित्यस्य तु न विषयः अर्थस्य विशेष्यत्वात् रावणसंबद्धार्थशब्दस्य विनाशपरत्वं वनिकानिरीक्षणार्थमित्यध्याहारो वा ॥ ५।१३।६५ ॥
ब्रह्मेति । ब्रह्मादयो मम सिद्धिं दास्यन्ति ये पथि गोचरा मार्गरक्षका अदृष्टा इदानीं मया न स्मृताः । ते ऽपि सिद्धिं दास्यन्ति । श्लोकत्रयमेकान्वयि ॥ ५।१३।६६६८ ॥
तदिति । उन्नसमुन्नतनासं पाण्डुरा दन्ता यस्मिन् अव्रणं विस्फोटकादिहेतुकव्रणरहितं तत् राममुखात् श्रुतम् आर्यावदनम् सीतामुखं कदा द्रक्ष्ये ॥ ५।१३।६९ ॥
क्षुद्रेणेति । अलंकृतवेषधारिणा स्वकल्पितवेषविशिष्टेन रावणेन बलाभिभूता हठात् हृता सा सीता मे दृष्टिपथे कथं भवेत् ॥ ५।१३।७० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे त्रयोदशः सर्गः ॥ ५।१३ ॥