०१२ हनूमन्निर्वेदः

अन्वेषणान्तरमुपक्रमते स इति । तस्य रावणस्य भवनस्य मध्ये संस्थितो हनूमान् सीतां प्रति दर्शनोत्सुकः सन् लतागृहान् लताच्छादितवेश्मानि चित्रगृहान् अनेकविधचित्रलिखितभवनानि निशागृहान् रात्रिनिवासयोग्यभवनानि च जगाम । सीतां च नैव पश्यति ॥ ५।१२।१ ॥

समिति । ततः तस्मिन् समये रघुनन्दनस्य प्रियाम् अपश्यन् महाकपिः संचिन्तयामास । चिन्ताकारमाह यथा यथावद्विचिन्वतो मम दर्शनं दृष्टिपथं मैथिली न एति अतः ध्रुवं नित्यमपि स्वजीवनं न ध्रियते । एतेन सीतायाः अघटितघटनापटीयस्त्वं व्यञ्जितम् ॥ ५।१२।२ ॥

चिन्तान्तरमाह सेति । परे सर्वोत्कृष्टे आर्यपथे महात्मनां रीतौ स्थिता अत एव स्वशीलस्य स्वपतिमात्रनिष्ठत्वस्य संरक्षणे तत्परा अत एव सती पतिव्रताशिरोमणिः सा सीता प्रतिदुष्टकर्मणा सर्वं प्रति दुष्टचरणेन अनेन रावणेन हता भवेत् ॥ ५।१२।३ ॥

चिन्तान्तरमाह विरूपेति । विरूपाणि छिन्नैकनासिकादिमन्ति शरीराणि यासामत एव विकृताः विविधविकारविशिष्टाः अत एव दीर्घाः बृहच्छरीराः विरूपाणां राक्षसानां दर्शनं निरन्तरं दृष्टिर्यासु ता एव ता इति कर्मधारयः । अत एव विवर्चसः भयंकरवर्चोविशिष्टा राक्षसराजयोषितः ताः राक्षसीः समीक्ष्यावलोक्य जनकेश्वरात्मजा भयाद्विनष्टा ॥ ५।१२।४ ॥

चिन्तान्तरमाह सीतामिति । वानरैः सह चिरंकालं विहृत्य सीताम् अदृष्ट्वा अत एव पौरुषं पुरुषार्थम् अनवाप्य अप्राप्य सुग्रीवसमीपगा सुग्रीवसमीपप्रापिका मे गतिर्मार्गो नास्ति । तत्र हेतुः वानरः सुग्रीवः तीक्ष्णदण्डः बलवांश्च ॥ ५।१२।५ ॥

दृष्टमिति । राक्षसयोषितो दृष्ट्वा सर्वमन्तःपुरं मया दृष्टं सीता तु न दृश्यते । अतः मम श्रमः समुद्रलङ्घनादिजनितखेदः वृथा ॥ ५।१२।६ ॥

किमिति । गतं सीतासंदेशं विना प्राप्तं मां हे वीर तत्र लंकायां गत्वा त्वया किं कृतं तत् नो वदस्व इति किं नु वक्ष्यन्ति प्रक्ष्यन्त्येवेत्यर्थः ॥ ५।१२।७ ॥

ननु किं तेनेत्यत आह– अदृष्ट्वेति । जनकात्मजाम् अदृष्ट्वा अहं किं प्रवक्ष्यामि नोत्तरमस्तीत्यर्थः, अतः कालस्य सुग्रीवपरिकल्पितसमयस्य व्यतिवर्तने उल्लङ्गने स्थितो ऽहं प्रायं प्रायोपवेशनं ध्रुवमासिष्ये ॥ ५।१२।८ ॥

किमिति । समुद्रस्य पारम् उत्तरतीरं गतं प्राप्तं मां जाम्बवान् किं वक्ष्यति वानराश्च किं वक्ष्यन्तीति वचनविपरिणामेनान्वयः ॥ ५।१२।९ ॥

स्वामिकार्यविघातः दुःसहः इत्युत्साहावलम्बिचिन्तान्तरमाह अनिर्वेद इत्यादिभिः । अनिर्वेदः कृत्यात् निवृत्तिर्यस्मात् सः उत्साह इत्यर्थः । श्रियः संपत्तेः मूलं कारणम् अत एव अनिर्वेदः परं सुखं परमसुखहेतुः । अत एव यत्र विचयो ऽन्वेषणं न कृतः तत्र भूयो विचेष्यामि ॥ ५।१२।१० ॥

उत्साहस्य संपत्तिमूलत्वमुपपादयन्नाह अनिर्वेद इति । सर्वार्थेषु निखिलकर्तव्येषु प्रवर्तकः सो ऽनिर्वेदः यत् कर्म जन्तुः करोति तत् जन्तोः कर्म सफलं करोति ॥ ५।१२।११ ॥

तस्मादिति । तस्मात् अनिर्वेदस्य फलसंपादकत्वात् हेतोः अनिर्वेदकरम् अनिर्वेदनोत्थापितं यत्नमहं चेष्टे करोमि । चेष्टामेवाह अदृष्टान् देशान् विचेष्यामि ॥ ५।१२।१२ ॥

आपानेति । आपानशालाप्रभृतयो मया विचिताः अतः अन्यत्र विचेतव्यमित्यर्थः, इति संचिन्त्य विचेतुमुपचक्रमे । तत्र निष्कुटान्तररथ्याः गृहारामवीथ्यः भूमीगृहाः भुवो ऽन्तराले निर्मितभवनानि गृहात् गृहकाः गृहोपरिविद्यमानगृहाणीति कतकः मुख्यगृहाद्दूरे विहारार्थं निर्मितानीति तीर्थः । सार्धश्लोक एकान्यी ॥ ५।१२।१३,१४ ॥

उत्पतन्निति । उत्पतनादि कुर्वन् महाकपिः अवकाशम् अन्वेषितातिरिक्तदेशमपि विचचार । अत एव यमवकाशं महाकपिर्न जगाम सो ऽवकाशो देशः चतुरङ्गलमात्रो ऽपि न विद्यते । अर्धषट्कमेकान्वयि ॥ ५।१२।१५१७ ॥

प्राकारेति । प्राकारान्तरवीथ्यादि सर्वं तेन हनूमता ऽवलोकितं चैत्यः चतुष्पथवर्ती तरुः ॥ ५।१२।१८ ॥

राक्षसस्य इति । विविधाकाराः राक्षस्यः हनूमता दृष्टाः जनकात्मजा तु न दृष्टा ॥ ५।१२।१९ ॥

रूपेणेति । रूपेण अप्रतिमाः विद्याधरस्त्रियः हनूमता दृष्टाः राघवनन्दिनी सीता तु न दृष्टा ॥ ५।१२।२० ॥

नागेति । नागकन्या दृष्टाः जनकात्मजा न दृष्टा ॥ ५।१२।२१ ॥

तदेव भङ्ग्यन्तरेणाह– प्रमथ्येति ॥ ५।१२।२२ ॥

स इति । अन्याः स्त्रियः पश्यन् तां सीताम् अपश्यंश्च महाबाहुरतिप्रयत्नवान् महाबाहुर्हनुमान् विषसाद ॥ ५।१२।२३ ॥

उद्योगमिति । वानरेन्द्राणाम् उद्योगमन्वेषणं सागरस्य प्लवनं च व्यर्थं निष्फलं वीक्ष्य अनिलसुतः चिन्तामुपागतः ॥ ५।१२।२४ ॥

तदेव भङ्ग्यन्तरेणाह– अवतीर्येति । हनूमान् शोकोपहतचेतनः सन् चिन्तामुपजगाम ॥ ५।१२।२५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्वादशः सर्गः ॥ ५।१२ ॥