मन्दोदर्यां जातसीताबुद्धिनिवारकं हनुमतः चिन्तान्तरमुपक्रमते– अवधूयेति । ताम् इयं सीतेत्येतद्रूपां बुद्धिम् अवधूय वक्ष्यमाणहेतुभिर्दूरीकृत्य सीतां प्रति अपरां चिन्तां जगाम ॥ ५।११।१ ॥
चिन्ताप्रकारमाह– नेति । रामेण वियुक्ता । सीता स्वापादि कर्तुं नार्हति ॥ ५।११।२ ॥
नेति । अन्यं नरं सुराणामीश्वरं च उपस्थातुं स्वस्थचित्ततया समीपे आसितुं नार्हतीति शेषः । ननु रामभ्रमात्तिष्ठतु इत्यत आह– त्रिदशेष्वपि रामसमः कश्चिन्न विद्यते ॥ ५।११।३ ॥
अन्येति । इयम् अन्या सीताभिन्ना इति निश्चीय सीतासंदर्शनोत्सुको हनूमान् पानभूमौ चचार ॥ ५।११।४ ॥
क्रीडितेनेति । अपराः क्रीडितेन क्लान्ताः बभूवुरिति शेषः, अपराः नृत्येन क्लान्ताः अपराः पानविप्रहताः अतिपानवतीरित्यर्थः, ददर्शेति शेषः ॥ ५।११।५ ॥
मुरजेष्विति । अपराः सुरजादिषु वाद्यविशेषेषु संस्थिता आस्थावत्यः सत्यः तथा निद्रितात्वेन आस्तरणमुख्येषु संविष्टाः ददर्शेति शेषः ॥ ५।११।६ ॥
अङ्गनानामिति । विभूषणैर्भूषितेन युक्तगीतार्थभाषिणा उचितोक्तार्थकथनशीलेन देशकालाभियुक्तेन देशकालाभिज्ञेन युक्तवाक्याभिधायिना उचितवाक्यकथनशीलेन रताधिकेन अधिकरतिविशिष्टेन अङ्गनानां सहस्रेण संयुक्तां पानभूमिं ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।११।७,८ ॥
अन्यत्रेति । अन्यत्र अन्यपानभूमावपि प्रसुप्तं युवतीनां सहस्रं ददर्श ॥ ५।११।९ ॥
तदेव भङ्ग्यन्तरेणाह देशेति । रताविरतसंसुप्तं रताविरतेन रत्यनिवृत्तिजनितश्रमेण संसुप्तं युवतीनां सहस्रमिति शेषः, ददर्श । अत्र अन्यत्रापीत्यादिश्लोकद्वयं नव्याः प्रमादान्न पठन्तीति भट्टैरुक्तम् ॥ ५।११।१० ॥
तासामिति । तासां स्त्रीणां मध्ये राक्षसेश्वरः रावणः गवां मध्ये वृष इव शुशुभे ॥ ५।११।११ ॥
स इति । ताभिः स्त्रीभिः परिवृतः सः रावणः करेणुभिः परिकीर्णः परिवृतः महाद्विप इव शुशुभे ॥ ५।११।१२ ॥
सर्वेति । सर्वकामैरुपेतां रक्षःपतेः पानभूमिं ददर्श ॥ ५।११।१३ ॥
मृगाणामिति । भागशो न्यस्तानि मृगादीनां मांसानि पानभूमौ ददर्श ॥ ५।११।१४ ॥
रौक्मेष्विति । रौक्मेषु स्वर्णमयेषु भाजनेषु अभक्षितान् अनुच्छिष्टानित्यर्थः, मयूरान् कुक्कुटांश्च तत्तन्मांसानीत्यर्थः, कपिशार्दूलो हनुमान् ददर्श ॥ ५।११।१५ ॥
वराहेति । दध्ना सौवर्चलेन लवणविशेषेण च आयुतान् यथायोग्यं संभिश्रान् वराहादीनन्ववैक्षत । तत्र वाध्रीणसः पक्षिविशेषः । तथाहि “कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहंगमः । स वै वाध्रीणसः प्रोक्तः” इति विष्णुधर्मोक्तवचनम् । छागविशेषश्च । तथाहि “त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाध्रीणसं च तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि” इति स्मृत्यन्तरम् । त्रिपिबशब्दार्थस्तु त्रिभिर्मुखकर्णैः पिबतीति प्रसिद्धश्च पानसमये छागानां कर्णयोरपि जलस्पर्शः मृगपरो ऽपि “वाध्रीणसः खड्गमृगः” इति हलायुधः । अत्रत्यमयूरशब्दस्य मयूरावान्तरजातिपरत्वान्न पौनरुक्त्यम् । एषैव गतिरन्यत्रापि ॥ ५।११।१६ ॥
कृकरानिति । कृकरान् पक्षिविशेषान् “कुररक्रकरौ समौ” इत्यमरः । विविधान्छागाँश्च शशकान् अर्धभक्षितान्महिषाँश्च एकशल्यान् मत्स्यविशेषांश्च कृतनिष्टितान् परिपक्वान् मेषांश्च आम्ललवणौ उत्तंसौ जिह्वाशैथिल्यपरिहारकौ येषु तैः विविधैः रागखाण्डवैः सह लेह्यादींश्चान्ववैक्षतेति पूर्वेणान्वयः । रागखाण्डवाश्च “सितामध्वादिमधुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो रागः सान्द्रश्चेत्खाण्डवः स्मृतः” इत्यादिनोक्ताः । श्लोकद्वयमेकान्वयि ॥ ५।११।१७,१८ ॥
महेति । अपविद्धैः विपर्यस्तैर्महानृपुरकेयुरैः विक्षिप्तैः पानभाजनैश्च फलैश्च उपलक्षिता कृतः पुष्पोपहारः पुष्पबलिर्यस्यां सा भूः अधिकां श्रियं पुष्यति पोपयति । सार्धश्लोक एकान्वयी ॥ ५।११।१९ ॥
तत्रेति । विन्यस्तैः संस्थापितैः सुश्लिष्टैः संमिलितैः शयनासनैरुपलक्षिता पानभूमिः वह्निं विना ऽपि प्रदीप्तेवोपलक्ष्यते । अर्धद्वयमेकान्वयि ॥ ५।११।२० ॥
बह्विति । बहुप्रकारैरितस्ततः संस्थापितैः विविधैः अनेकक्रियादिना अनेकविधैः वरसंस्कारैर्दधिकाश्मीरादिभिः संस्कृतैः कुशलसंयुक्तैः निपुणपक्तृभि संपादितैः पृथक् पृथक् पानभूमिं गतैः मांसैः सहिताः प्रसन्नाः स्वच्छा विविधा दिव्याः वृक्षकोटरादिद्वारा वरुणादिप्रेषिताः सुराः तैस्तैः तत्तदुपयोगित्वेन प्रसिद्धैः विविधैर्वासचूर्णैर्मृष्टाः संस्कृताः शर्करासवप्रभृतयः कृतसुरा अपि अदृश्यन्तेति शेषः । तत्र शर्करासवः शर्कराजनितः माध्वीको मधुजनितः पुष्पासवः मधूकपुष्पादिकृतः फलासवः खर्जूरफलादिजनित इति विवेकः । सार्धश्लोकद्वयमेकान्वयि ॥ ५।११।२१२३ ॥
संततेति । बहुसंस्थितैः अनेकप्रकारैः माल्यैः कलशैर्भाजनैश्च संतता व्याप्ताः करकैर्द्विमुखपात्रैरभिसंवृता भूमिः शुशुभे । सार्धश्लोक एकान्वयी ॥ ५।११।२४ ॥
राजतेष्विति । रजतमयादिषु कुम्भेषु पानानि पेयानि श्रेष्ठानि यस्यां तां भूमिं कपिर्ददर्श । अर्धद्वयमेकान्वयी ॥ ५।११।२५ ॥
स इति । सीधोर्मद्यस्य मणिमयानि शातकुम्भानि पूर्णानि भाजनानि पानपात्राणि च महाकपिरपश्यत् ॥ ५।११।२६ ॥
दर्शनप्रकारमाह क्वचिदिति । अर्धावशेषादीनि ददर्श ॥ ५।११।२७ ॥
क्वचिदिति । भक्ष्यादीनि शून्यानि नारीणां शयनानि च पश्यन् विचचार । सार्धश्लोक एकान्वयी ॥ ५।११।२८,२९ ॥
परस्परमिति । काश्चित् समाश्लिष्य सुप्ताः निद्राबलपराजिता काचिदबला वस्त्रमपहृत्य उपगम्य तत्समीपं प्राप्य उपगूह्य तामालिङ्ग्य सुप्ता । सार्धश्लोकः संमिलितान्वयी ॥ ५।११।३० ॥
तासामिति । गात्रजं गात्रस्थमित्यर्थः । चित्रं वस्त्रमाल्यं मन्दमनिलं प्राप्येव उच्छ्वासवातेन अत्यर्थं न स्पन्दते ॥ ५।११।३१ ॥
चन्दनस्येति । चन्दनादीनां गन्धमुद्वहन् मारुतो ववाविति शेषः । सार्धश्लोक एकान्वयी ॥ ५।११।३२।३३ ॥
रसानामिति । रसादीनां तद्गन्धैर्मूर्च्छितः प्रवृद्धः सुरभिर्गन्धः प्रववौ प्रव्याप “स्नानानां चन्दनानाम्” इति पाठे स्नानार्हचन्दनार्हमित्यर्थ इति भट्टाः ॥ ५।११।३४ ॥
श्यामेति । श्यामावदातादयो याः प्रमदाः तासां निद्रावशत्वात् हेतोः मदनेन तद्धेतुकातिरत्या विमूर्छितं तासां रूपमाकृतिः प्रसुप्तानां रात्रौ मुकुलितानां पद्मिनीनामिवासीत् । श्लोकद्वयमेकान्वयि ॥ ५।११।३५,३६ ॥
एवमिति । कपिः रावणान्तःपुरमशेषेण ददर्श । जानकीं च न ददर्श ॥ ५।११।३७ ॥
निरीक्षमाण इति । ताः स्त्रियो निरीक्षमाणो महाकपिः धर्मसाध्वसेन धर्मलोपहेतुकभयेन शङ्कितः सन् महतीं शङ्कां चिन्तां जगाम ॥ ५।११।३८ ॥
चिन्ताकारमाह परेत्यादिभिः । परदारावरोधस्य परस्त्रीसमूहस्य निरीक्षणं धर्मलोपं करिष्यति ॥ ५।११।३९ ॥
ननु पापदृष्ट्या परदारावलोकनं दोषावहं तव तु नेत्यत आह नेति । हि यद्यपि मम दृष्टिः परदाराणां विषयवर्तिनी विषयप्रवर्तिका न तथापि परदारपरिग्रहः । सीतापहारकः अयं रावणो मया दृष्टः एतेनैतद्दर्शनजनितपापस्य परिहारो न दृश्यते इति सूचितम् ॥ ५।११।४० ॥
तस्येति । निश्चितेन संसर्गबुद्ध्या एतद्दर्शनाकरणात् यत्नान्तरेण स्वामिकार्यस्यासाध्यत्वाच्चैतद्दर्शनमपि न दोषावहमिति निश्चयेन एकान्तं स्थिरं चित्तं यस्य तस्य चिन्ता हनुमतः कार्यनिश्चयदर्शिनी अन्वेषणबुद्धिसंपादिका अन्या चिन्ता प्रादुरभूत् ॥ ५।११।४१ ॥
तदाकारं वर्णयितुमाह काममिति । येन मया रावणस्य स्त्रियो दृष्टास्तस्य मे मनसः वैकृत्यं विकारो न उपपद्यते प्राप्नोति ॥ ५।११।४२ ॥
ननु किं तेनेत्यत आह मन इति । यत् मनः शुभाशुभासु धर्माधर्मसंपादिकासु अवस्थासु क्रियासु इन्द्रयाणां प्रवर्तने मन एव हेतुः तत् मे मनः सुव्यवस्थितं धर्मे संस्थितम् । एतेनाधर्मशङ्का नास्तीति सूचितम् ॥ ५।११।४३ ॥
ननु वशीकृतेन्द्रियाणामपि स्त्रीसन्निधावागमनमनुचितमित्यत आह नेति । अन्यत्र परिमार्गितुं वैदेही न शक्या । हि यतः संपरिमार्गणे सम्यक्परिमार्गणसमये स्त्रियः स्त्रीष्वेव दृश्यन्ते अन्वेष्यन्ते ॥ ५।११।४४ ॥
विजातीयेष्वन्वेषणमनुचितमिति बोधयितुमाह यस्येति । यस्य सत्वस्य प्राणिनो या योनिः तस्यामेव तत्परिमार्ग्यते अत एव नष्टा प्रमदा मनुष्यस्त्री मृगीषु परिमार्गितुं न शक्यम् । सामान्ये नपुंसकम् ॥ ५।११।४५ ॥
तदिति । तत् उक्तहेतोः रावणान्तःपुरं परिमार्गितं जानकी तु न दृश्यते ॥ ५।११।४६ ॥
देवेति । देवकन्यादीनवेक्षमाणो हनुमान् जानकीं नैवापश्यत ॥ ५।११।४७ ॥
तामिति । तां सीतामपश्यन् कपिः अन्याः स्त्रियः पश्यन् सन् अपक्रम्य उत्प्लुत्य प्रस्थातुमुपचक्रमे ॥ ५।११।४८ ॥
स इति । यत्नमास्थितो मारुतिः आपानभूमिमुत्सृज्य त्यक्त्वा विचेतुं प्रचक्रमे ॥ ५।११।४९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकादशः सर्गः ॥ ५।११ ॥