दर्शनान्तरमाह तत्रेत्यादिभिः । अवेक्षमाणः सीतान्वेषणं कुर्वन् हनूमान् दिव्योपमं स्वर्गस्थशयनासनसदृशं स्फाटिकं स्फटिकमणिमयं रत्नभूषितं महार्हास्तरणोपेतैर्बहुमूल्यास्तरणयुक्तैर्दान्तकाञ्चनचित्राङ्गैः दन्तभयत्वकाञ्चनमयत्वाभ्यां चित्राण्यङ्गानि पादादीनि येषां तैर्वैदूर्यैर्दूर्यमणिमयैश्च महाधनैर्बहुमूल्यकैर्वरासनैरल्पपर्यङ्कैरुपपन्नं महापर्यङ्कावरोहणाय संयोजितं मुख्यं शयनासनं महापर्यङ्कं ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।१०।१।२ ॥
तस्येति । तस्य महापर्यङ्कस्य एकतमे एकस्मिन्देशे दिव्यमाल्योपशोभितं ताराधिपतिसन्निभं पाण्डुरं श्वेतं छत्रं ददर्श ॥ ५।१०।३ ॥
जातरूपेति । जातरूपेण सुवर्णेन परिक्षिप्तं निर्मितं चित्रभानोः सूर्यस्य समप्रभम् अशोकमालाविततं शोकापहारकमालाभिः संयुतं विविधैर्गन्धैश्चन्दनैर्जुष्टम् आविकाजिनेन स्वाभाविकातिकोमलोर्णायुचर्मणा संवृत्तम् आस्तीर्णं वरमाल्यानां मनोहरसुगन्धादिनोत्तमपुष्पाणां दामभिर्मालाभिः उपशोभितं वालव्यजनहस्ताभिः समन्ततो वीज्यमानं परमासनं महापर्यङ्कस्थपर्यङ्कविशेषं ददर्श । श्लोकत्रयमेकान्वयि ॥ ५।१०।४६ ॥
तस्मिन्निति । जीमूतसंकाशं श्यामत्वेन मेघसदृशं प्रदीप्तानि उज्ज्वलकुण्डलानि यस्य महारजतं स्वर्णतन्तुनिर्मितं वासो यस्य ॥ ५।१०।७ ॥
लोहितेन रक्तेन चन्दनेन अनुलिप्ताङ्गं सतडिद्गुणं तडिद्रूपगुणसहितं संध्यारक्तं संध्याहेतुकारुण्यविशिष्टम् आकाशे तोयदं मेघमिव तडिदुपमेयत्वं स्वर्णवस्त्रस्य ॥ ५।१०।८ ॥
दिव्यैः आभरणैः वृतं सवृक्षवनैर्वृक्षसमूहसहितैर्गुल्मैर्लताविशेषैराढ्यं मन्दरमिव ॥ ५।१०।९ ॥
प्रसुप्तं सुरूपं शोभनरूपविशिष्टं क्रीडित्वा उपरतं निवृत्तं पीत्वा ऽपि उपरतं वराभरणभूषितं कामरूपिणं रावणं तस्मिन् परमासने ददर्श । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ५।१०।१० ॥
भास्वरे इति । भास्वरे प्रकाशमाने शयने प्रसुप्तं नागमिव निःश्वसन्तं रावणं वानरोत्तमो हनूमान् आसाद्य प्राप्य परमोद्विग्नः भविष्यदेतदैश्वर्यध्वंसहेतुकोद्वेगविशिष्टः सन् सुभीतवत् उपासर्पत् । एतेन हनूमतो दयालुत्वातिशयः सूचितः । सार्धश्लोक एकान्वयी ॥ ५।१०।११,१२ ॥
अथेति । अथ उपसर्पणानन्तरं वेदिकान्तरमासाद्य प्राप्य आरोहणं सोपानमाश्रितः सन् क्षीबं मत्तं राक्षसशार्दूलं प्रेक्षते स्म ॥ ५।१०।१३ ॥
शुशुभे इति । स्वपतो राक्षसेन्द्रस्य शयनं गन्धहस्तिना संनिविष्टं प्रविष्टं प्रस्रवणं गिरिविशेष इव शुशुभे ॥ ५।१०।१४ ॥
काञ्चनेति । काञ्चनाङ्गदाभ्यां संनद्धौ संयुक्तौ विक्षिप्तौ राक्षसेन्द्रस्य भुजौ ददर्श ॥ ५।१०।१५ ॥
भुजावेव वर्णयन्नाह ऐरावतेति । ऐरावतविषाणाग्रैः आपीडने युद्धे कृतं व्रणं ययोस्तौ वज्रेण उल्लिखितौ प्राप्तक्षतौ पीनांसौ ययोः विष्णुचक्रेण परिक्षतौ युद्धे प्राप्तव्रणौ ॥ ५।१०।१६ ॥
पीनौ स्थूलौ समौ सुजातौ सुन्दरौ अंसौ ययोः सङ्गतौ शरीरसदृशौ बलसंयुतौ बलिष्ठौ सुलक्षणं नखाङ्गुष्ठं ययोः स्वङ्गुलीयकलक्षितौ शोभनाङ्गुलीयकैर्लक्षितौ ॥ ५।१०।१७ ॥
संहतौ पुष्टौ वृत्तौ वर्तुलौ अत एव करिकरोपमौ शुण्डादण्डसदृशौ पञ्चशीर्षौ उरगाविव ॥ ५।१०।१८ ॥
शशक्षतजकल्पेन शशरुधिरसदृशेन परार्ध्येन अत्युत्तमेन चन्दनेन स्वनुलिप्तौ स्वलंकृतौ शोभनालङ्कारविशिष्टौ ॥ ५।१०।१९ ॥
उत्तमस्त्रीभिः विमृदितौ शनैर्निपीडितौ यक्षादीनां राविणौ ॥ ५।१०।२० ॥
मन्दरस्यान्तरे सुप्तौ रुषितौ क्रुद्धौ महाही इव शयनसंस्थितौ तस्य रावणस्य बाहू कपिर्ददर्श । श्लोकषट्कमेकान्वयि ॥ ५।१०।२१ ॥
ताभ्यामिति । परिपूर्णाभ्यां सल्लक्षणैर्युक्ताभ्यामुभाभ्यां भुजाभ्यामचलसंकाशो राक्षसेन्द्रः शृङ्गाभ्यां मन्दर इव शुशुभे ॥ ५।१०।२२ ॥
चूतेति । चूतपुन्नागसुरभिः चूतपुन्नागसुरभिसदृशसुरभिविशिष्टः बकुलोत्तमसंयुतः उत्तमबकुलगन्धमिश्रः मृष्टान्नरससंयुक्तः मृष्टान्नरसगन्धविशिष्टः पानगन्धः सुरादिसुरभिः पुरस्सरो यस्य स राक्षसराजस्य विनिःश्वासः राक्षसराजस्य मुखात् निश्चक्राम । श्लोकद्वयमेकान्वयि ॥ ५।१०।२३,२४ ॥
मुक्तेति । काञ्चनेन स्वर्णमयेन विराजता शोभमानेन अपवृत्तेन परिवर्तनादिना विपर्यस्तेन सुकुटेनोपलक्षितं कुण्डलाभ्यामुज्ज्वलितमाननं यस्य ॥ ५।१०।२५ ॥
रक्तचन्दनदिग्धेन अरुणचन्दनलिप्तेन शोभिना हारेण चाभिविराजता पीनायतविशालेन वक्षसोपलक्षितम् ॥ ५।१०।२६ ॥
अपविद्धेन विपर्यस्तेन पाण्डुरेण क्षौमेण पट्टवस्त्रविशेषेण सुसंवीतं पीतेनोत्तरवाससा च संवीतम् ॥ ५।१०।२७ ॥
माषराशिप्रतीकाशं हरितनीलवर्णत्वेन माषराशिसदृशं भुजङ्गवत् निःश्वसन्तं गाङ्गे गङ्गासंबन्धिनि महति तोयान्ते कुञ्जरमिव प्रसुप्तम् ॥ ५।१०।२८ ॥
चतुर्दिशं चतुर्दिक्षु दीपैर्दीप्यमानं “कालाध्वनो” इति द्वितीया । अत एव विद्युद्गुणैर्मेघमिव प्रकाशीकृतसर्वाङ्गं रावणम् ॥ ५।१०।२९ ॥
सप्रियभार्यस्य प्रियभार्यासहितस्य पत्नीश्च रक्षःपतेग्रृहे स्थितो हनूमान् ददर्श । श्लोकषट्कमेकान्वयि ॥ ५।१०।३० ॥
पत्नीरेव वर्णयन्नाह शशीति । कपिर्ददर्श ॥ ५।१०।३१ ॥
नृत्येति । निषण्णाः पत्नयो ददृशे समुदायस्य कर्मतया अन्वयात् न द्वितीया ॥ ५।१०।३२ ॥
वज्रेति । वज्रवैदूर्यगर्भाणि कुण्डलानि अङ्गदानि च श्रवणान्तेषु ददर्श । अङ्गदानां श्रवणान्ते दर्शनं तु बाहोरुपबर्हणत्वात् ॥ ५।१०।३३ ॥
तासामिति । ललितानि कुण्डलानि येषु तैः वक्त्रैः विमानं पर्यङ्खविशेषः तारागणैर्नभ इव विराजत व्यराजत ॥ ५।१०।३४ ॥
मदेति । मदव्यायामेन मदवृद्या तद्धेतुकातिरत्येत्यर्थः, खिन्नाः प्राप्तपीडाः योषितः तेषु तेषु अन्यसङ्गमहेतुकेषु अवकाशेषु प्रसुप्ता बभुवुरिति शेषः ॥ ५।१०।३५ ॥
अङ्गेति । विन्यस्तानि विधिना निर्मितानि संस्थापितानि वा शुभान्यङ्गानि यस्याः सा कोमलैरङ्गहारैरुपलक्षिता प्रसुप्ता अन्या नृत्यनिपुणा योषित् नृत्यशालिनी जाग्रद्वासनावशात् नृत्याश्रयीभूता प्रतीता ऽभवदिति शेषः ॥ ५।१०।३६ ॥
काचिदिति । वीणां परिष्वज्य प्रसुप्ता काचित् योषित् महानदीप्रकीर्णा महानद्यां प्रक्षिप्ता पोतमाश्रिता अकस्मात् नौकासंनिहिता नलिनी कमलिनीव संप्रकाशते ॥ ५।१०।३७ ॥
अन्येति । अन्या कक्षगतेन मड्डुकेन वाद्यभेदेन बालपुत्रा बालपुत्रसहितेव भाति ॥ ५।१०।३८ ॥
पटहमिति । चारुसर्वाङ्गी अन्या चिरस्य बहुकालात् रमणं पतिं लब्ध्वा अत एव परिष्वज्य कामिनीव पटहं न्यस्य परिष्वज्य शेते ॥ ५।१०।३९ ॥
काचिदिति । काचित् प्रियतमं गृह्य गृहीत्वा सकामा कामिनीव वीणां परिष्वज्य सुप्ता ॥ ५।१०।४० ॥
विपञ्चीमिति । काचित् भामिनी विपञ्चीं वीणाविशेषं परिगृह्य सहकान्तेव निद्रावशं प्राप्ता ॥ ५।१०।४१ ॥
अन्येति । अन्या कनकसंकाशैरङ्गैः मृदङ्गं परिविध्य निपीड्य प्रसुप्ता बभूवेति शेषः ॥ ५।१०।४२ ॥
भुजेति । भुजरूपपाशान्तरस्थेन कक्षगेन कक्षं प्राप्तेन पणवेन मर्दलेन सह अनिन्द्या काचित् सुप्ता ॥ ५।१०।४३ ॥
डिण्डिममिति । आसक्तडिण्डिमा अन्या तरुणं वत्समुपगूह्येव डिण्डिमं परिगृह्य प्रसुप्ता ॥ ५।१०।४४ ॥
काचिदिति । काचिन्नारी आडम्बरं वाद्यविशेषं भुजसंभोगेन भुजालिङ्गनेन पीडितं कृत्वा प्रसुप्ता ॥ ५।१०।४५ ॥
कलशीमिति । प्रसुप्ता कलशीं जलपूर्णघटीमपविध्य हस्तप्रक्षेपादिना विपर्यास्य परिमार्जिता प्रसुप्ता पुष्पशबला शबलितपुष्पा ऽन्या परिमार्जिता ग्नानिदूरीकरणाय कृतमार्जना पुष्मालेव भाति ॥ ५।१०।४६ ॥
पाणिभ्यामिति । काचिदबला पाणिभ्यां कुचौ उपगृह्य निद्रावशमुपागता ॥ ५।१०।४७ ॥
अन्येति । अन्या अन्यां सुश्रोणीमालिङ्ग्य निद्रावशमुपागता ॥ ५।१०।४८ ॥
आतोद्यानीति । अन्या वरस्त्रियः कामुकान् परिष्वज्य कामिन्य इव आतोद्यानि वाद्यविशेषान् कुचैर्निपीड्य सुप्ताः ॥ ५।१०।४९ ॥
तासामिति । तासां समीपे एकान्तविन्यस्ते शयने शयानां रूपसंपन्नां ताम् उत्तमां स्वश्रिया सुशोभया भवनोत्तमं विभूषयन्तीं गौरीं गौरवर्णाम् इष्टां रावणोत्कटेच्छाविषयीभूताम् अन्तःपुरेश्वरीं स्त्रियं ददर्श । सार्धश्लोकद्वयमेकान्वयि ॥ ५।१०।५०,५१ ॥
कपिरिति । सः कपिः तत्र शयानां मन्दोदरीं दृष्ट्वा रूपयौवनसंपदा अद्भुतरूपादिना सीतेति तर्कयामास ॥ ५।१०।५२,५३ ॥
हर्षेणेति । चारित्रदर्शनात् अनुचिताचरणावलोकनात् दीनो ऽपि हरियूथपः सीतेति दृष्ट्वा निश्चित्य महता हर्षेण आगमनप्रयोजनसिद्धिजनितसंतोषेण युक्तः सन् ननन्द । एतेन तादृशानन्देन दैन्यं पराभूतमिति सूचितम् ॥ ५।१०।५४ ॥
आस्फोदयामासेति । स्वां स्वकीयां कपीनां प्रकृतिं दर्शयन् आस्फोटनादिकम् आनन्दसूचकस्वजातिधर्मं चकार । अत एव स्तम्भात् अरोहत् निपपात च ॥ ५।१०।५५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे दशमः सर्गः ॥ ५।१० ॥