अन्वेषणमेव वर्णयन्नाह तस्येत्यादिभिः । आलयवरिष्ठस्य महाभवनस्य मध्ये विमलं रजःप्रभृतिमलरहितम् आयतं भवनं ददर्श ॥ ५।९।१ ॥
अर्धेति । अर्धयोजनविस्तीर्णं योजनम् एकयोजनपरिमितमायतं दीर्घं राक्षसेन्द्रस्य भवनं सीतां मार्गमाणो हनूमान् परिचक्राम । श्लोकद्वयमेकान्वयि ॥ ५।९।२,३ ॥
उत्तममिति । राक्षसावासं राक्षसानां गृहं अवलोकयन् सन् लक्ष्मीवान् शौर्यादिसंपत्तिविशिष्टो हनूमान् उत्तमं राक्षसेन्द्रनिवेशनं रावणमुख्यगृहम् आससाद प्राप ॥ ५।९।४ ॥
निवेशनमेव वर्णयन्नाह चतुरित्यदिभिः । चतुर्विषाणैः दन्तचतुष्टयविशिष्टैः त्रिविषाणैश्च द्विरदैः परिक्षिप्तं परिवृतम् उदायुधैः राक्षसैरिति शेषः, राक्षसीभिश्च रक्ष्यमाणम् आहृताभिः पत्नीभिः राजकन्याभिश्च आवृतं नक्रमकराकीर्णं पन्नगैर्युतं सागरमिव सागरसदृशं तत् रावणस्य निवेशनं ददर्शेति शेषः । श्लोकत्रयमेकान्वयि ॥ ५।९।५७ ॥
येति । या लक्ष्मीः वैश्रवणे कुबेरे हरिवाहने हरितास्वरूपवाहनवति इन्द्रे च सा अनपायिनी विनाशरहिता लक्ष्मीः रावणगृहे नित्यमेव वसतीति शेषः ॥ ५।९।८ ॥
तदेव भङ्ग्यन्तरेणाह येति । कुबेरादिगृहे यादृशी ऋद्धिः तादृशी तद्विशिष्टा ततो ऽधिका वा रक्षोगृहेष्वस्ति ॥ ५।९।९ ॥
तस्येति । तस्य अर्धयोजनविस्तीर्णत्वाद्रिमतः हर्म्यस्य मध्यस्थं सुनिर्मितं बहुनिर्व्यूहैर्मत्तगजैः संयुतमन्यद्विलक्षणं वेश्म पुष्पकं ददर्श ॥ ५।९।१० ॥
ब्रह्मण इति । दिवि स्वर्गे ब्रह्मणो ऽर्थे यत्पुष्पकं विश्वकर्मणा कृतं यच्च कुबेरः तपसा पितामहाल्लेभे तत्पुष्पकं राक्षसेश्वरो रावणः कुबेरं जित्वा लेभे । श्लोकद्वयमेकान्वयि ॥ ५।९।११,१२ ॥
ईहेति । ईहामृगाः वृकाः तैस्तत्प्रतिमाभिः समायुक्तैः कार्तस्वरहिरण्मयैः सुकृतैः शोभनकृत्या निर्मितैः स्तम्भैः राजितं श्रिया शोभया प्रदीप्तमिव । कार्तस्वरहिरण्ययोः अवान्तरभेदात् न पौनरुक्त्यम् ॥ ५।९।१३ ॥
मेर्विति । मेरुमन्दरसंकाशैः अत एव अम्बरमाकाशमुल्लिखद्भिरिव ज्वलनार्कप्रतीकाशैः कूटागारैः अपरिज्ञेयगृहैः शुभागारैर्विहारोचितगृहैः समलंकृतम् विश्वकर्मणा सुकृतं निर्मितम् हेमसोपानैर्युक्तं चार्व्यो मनोहराः प्रवराः उन्नताः वेदिकाः यस्मिन् तत् ॥ ५।९।१४,१५ ॥
काञ्चनैः स्फाटिकैश्च जालैर्वातायनैर्गवाक्षैश्च युक्तम् इन्द्रनीलमहानीलमणिभ्यां प्रवरा प्रकाशितेत्यर्थः, वेदिका यस्मिन् इन्द्रनीलमहानीलयोः अवान्तरभेदान्न पौनरुक्त्यम् ॥ ५।९।१६ ॥
विद्रुमादिना निस्तुलाभिः उपमारहिताभिर्मुक्ताभिश्च उपलक्षितेन तलेन कुट्टिमप्रदेशेन अभिविराजितम् ॥ ५।९।१७ ॥
तपनीयनिभेन सुवर्णवर्णेन पुण्यगन्धिना रक्तेन चन्दनेन युक्तम् आदित्यतरुणोपमं तरुणादित्यसदृशं पुष्पकं विमानं महाकपिरारुरोह । सार्धश्लोकपञ्चकमेकान्वयि ॥ ५।९।१८ ॥
तत्रेति । तत्रस्थः तद्विमानस्थितो हनूमान् संमूर्छितं व्याप्तं दिव्यपानादिसंभवं गन्धं रूपवन्तमनिलमिव जिघ्रत् अजिघ्रत् ॥ ५।९।१९ ॥
स इति । यत्र रावणस्तत्र विद्यमानः स गन्धः महासत्त्वं हनूमन्तं बन्धुरुत्तमं बन्धुमिव इतः अत्र एहि इति उवाच इव ॥ ५।९।२० ॥
तत इति । ततः रावणसमीपात् प्रस्थितो हनुमान् कान्तां शोभितां वरस्त्रियमिव रावणस्य महाकान्ताम् अतीच्छाविषयीभूतां मणिसोपानविकृतां मणिमयेन सोपानेन विशेषतो रचितां हेमजालविराजितां शालां ददर्श । सार्धश्लोक एकान्वयी ॥ ५।९।२१,२२ ॥
स्फाटिकैरिति । स्फाटिकैरावृतं तलं कुट्टिमभूमिर्यस्यां सा तां दन्तान्तरितैः प्रतिमध्यभागविन्यासितगजदन्तैः रूपकं प्रशस्तरूपं यस्याः सा तां मुक्तादिभिर्विभूषितां शोभनाः स्तम्भाः येषु तैः स्थलविशेषैर्भूषितां समैः समानाकारैः ऋजुभिर्वक्रतारहितैः पक्षैरिव अत्युच्चैः स्तम्भैः दिवं संप्रस्थितामिव पृथिवीलक्षणाङ्क्या पृथिवीलक्षणानां तरुसरित्समुद्रादीनामङ्को रेखा यस्यां तया महत्या विशालया कुथया चित्रकम्बलास्तरणेन आस्तीर्णाम् अत एव पृथिवीमिव मत्तविहगैर्नादितां परार्ध्यैरुत्तमैः आस्तरणैः आस्तरणान्तरैरुपेतां युक्तां हंसवत्पाण्डुरवर्णां पत्रादिनोपहारे कल्माषीं शबलवर्णां वसिष्ठधेनुमिव सुप्रभां सर्वकामप्रदात्रीमित्यर्थः, वर्णस्य शरीरशोभाया अपि प्रसाधिनीं शोकनाशिनीं श्रियः संपत्तेः सञ्जननीमुत्पादिकामिव ददर्श । सार्धश्लोकषट्कानां पूर्वेणान्वयः ॥ ५।९।२३२८ ॥
इन्द्रियाणीति । तदा रावणपालिता शाला पञ्चभिरिन्द्रियार्थैः शब्दस्पर्शरूपरसगन्धैः पञ्चेन्द्रियाणि श्रोत्रत्वक्चक्षूरसनाघ्राणानि मातेव तर्पयामास ॥ ५।९।२९ ॥
स्वर्ग इति । मारुतिः अयं स्वर्गो भवेदित्याद्यमन्यत ॥ ५।९।३० ॥
प्रध्यायत इति । काञ्चनान् काञ्चनमयान् प्रदीपान् मङ्गलार्थं स्तम्भप्रदेशेषु संस्थापितदीपान् देवनेन द्यूतेन महाधूर्तैः अतिवञ्चितैः पराजितान् अत एव ध्यायतः धनविध्वंसात् नयननिमीलनादिचेष्टया ध्यानमिव कुर्वतो धूर्तानिव अपश्यत् । रावणातितेजसा पराभूतत्वात् दीपा न प्रकाशन्ते इत्यर्थः ॥ ५।९।३१ ॥
दीपानामिति । दीपादीनां प्रकाशादिना प्रदीप्ता प्रज्वलिता लङ्केति शेषः, इत्यभ्यमन्यत ॥ ५।९।३२ ॥
तत इति । कुथासीनम् आस्तृतकुथासु शयानं नानावर्णाः अम्बरस्रजो यस्य तत् नारीणां सहस्रमपश्यत् । संज्ञापूर्वकविधेरनित्यत्वादम्लुग्विरहः । भागुरिमतेन वा समाधेयम् ॥ ५।९।३३ ॥
परीति । अर्धरात्रे प्रवृत्ते प्राप्ते तु क्रीडितोपरतं क्रीडितात् क्रीडाया निवृत्तं पाननिद्रावशं तम् अत एव बलवद्दृढं प्रसुप्तं नारीसहस्रं रात्रौ अपश्यत् इत्यनुकृष्यते ॥ ५।९।३४ ॥
तदिति । निश्शब्दः शब्दरहितः अन्तरो मध्यभागो यस्य तस्मिन् भूषितं प्रसुप्तं तत् नारीसहस्रं निःशब्दा हंसभ्रमरा यस्मिन् तत्पद्मवनमिव विरुरुचे ॥ ५।९।३५ ॥
तासामिति । संवृता आच्छादिता दन्ता येषु तानि सुयोषितां वदनानि अपश्यत् ॥ ५।९।३६ ॥
प्रबुद्धानीति । तासां वदनानीति शेषः । क्षपाक्षये निशापगमे प्रबुद्धानि विकसितानि भूत्वा रात्रौ पुनः संवृतपत्राणि पद्मानि इव बभुः ॥ ५।९।३७ ॥
इमानीति । इमानि प्रदृश्यमानानि मुखपद्मानि फुल्लानि अम्बुजानीव षट्पदाः पुनः पुनः प्रार्थयन्ति नित्यं तत्र स्थातुं प्रयाचन्त इत्यर्थः, इत्येव अमन्यत अन्वमिनोत् । अत एव तानि वदनानि उपपत्त्या ऽनुमानयुक्त्या सलिलोद्भवैः कमलैः समानि मेने । अर्धचतुष्टयमेकान्वयि ॥ ५।९।३८,३९ ॥
सेति । स्त्रीभिर्विराजिता शाला ताराभिरभिशोभिता द्यौरिव शुशुभे ॥ ५।९।४० ॥
स इति । ताभिः स्त्रीभिः परिवृतः स रावणः ताराभिः संवृत उडुपतिरिव शुशुभे ॥ ५।९।४१ ॥
या इति । तदा तस्मिन् काले पुण्यशेषसमावृता भोगावशिष्टपुण्यैर्युक्ता यास्तारा अम्बरात् स्वर्गात् च्यवन्ते ता एव कृत्स्नाः सकला इमाः प्राप्ता इति हरिर्हनुमान् मेने ॥ ५।९।४२ ॥
ताराणामिति । महतीनां ताराणां प्रभा वर्णप्रसादा इव योषितां प्रभावर्णप्रसादा विरेजुः ॥ ५।९।४३ ॥
व्यावृत्तेति । पानव्यायामकालेषु पानकालेषु अधररसपानसमयेषु व्यायामकालेषु रतिसमयेषु व्यावृत्ता मर्दिताः कुचाः पीनस्रजश्च यासां ता अत एव प्रकीर्णानि परिक्षिप्तानि वरभूषणानि यासां ताः । द्वयोः कर्मधारयः । निद्रोपहतचेतसः बभूवुरिति शेषः ॥ ५।९।४४ ॥
व्यावृत्तेति । काश्चित् व्यावृत्तानि अपमार्जितानि तिलकानि सिन्दूरकस्तूर्यादिरेखा यासां ताः काश्चित् उद्भ्रान्ताः स्वस्थानात्प्रस्खलिताः नूपुराः यासां ताः काश्चित् पार्श्वे समीपे गलितहाराश्च परमयोषितो दृश्यन्त इति शेषः ॥ ५।९।४५ ॥
मुक्तेति । अन्याः मुक्ताहारैर्वृताः आच्छन्नाः केशादिग्रथितमुक्ताहारवत्य इत्यर्थः, काश्चित्प्रशस्तवाससः प्रच्युतवसनाः काश्चिद्व्याविद्धरशनादामाः प्रच्युतकाञ्चीगुणा अत एव वाहिताः प्रपतितभाराः किशोर्यः वडवा इव यथोत्तारितभारा वडवा निर्मुक्तबन्धनाः सत्यः श्रमापनयनाय भुवि लुठन्ति तथा अदृश्यन्तेति शेषः ॥ ५।९।४६ ॥
अकुण्डलेति । अकुण्डलधराः कुण्डलधारणरहिताः प्रच्युतकुण्डला इत्यर्थः, विच्छिन्नाः आमृदिताश्च स्रजो यासां ताः अन्याः गजेन्द्रमृदिताः फुल्ला लता इव अदृश्यन्तेति शेषः ॥ ५।९।४७ ॥
चन्द्रेति । चन्द्रांशूनां सोमकिरणानामाभा इव आभा येषां ते योषितां स्तनमध्येषु उद्गताः संस्थिताः हाराः सुप्ताः हंसा इव बभुः ॥ ५।९।४८ ॥
अपरासामिति । अपरासां वैदूर्याः वैडूर्यहाराः कादम्बाः जलकाकाः पक्षिण इव अभवन् । अन्यासां हेमसूत्राणि चक्रवाका इव पीतत्वेन चक्रवाकसदृशाः अभवन् ॥ ५।९।४९ ॥
हंसेति । पुलिनैरिव जघनैरुपलक्षिताः ताः स्त्रियः हंसैः कारण्डवैर्जलकाकैश्चोपेताः चक्रवाकोपशोभिताः आपगा नद्य इव रेजुः ॥ ५।९।५० ॥
किङ्किणीति । किङ्किणीजालान्येव संकोशा सुकुलानि यासु हेमानि हेमाभरणान्येव विपुलाम्बुजानि यासु ताः भावा शृङ्गारचेष्टाः एव ग्राहाः यासु ताः यशांसि पत्यनुकूलवर्तनजनितकीर्तयः तीराणि यासु ता सुप्ताः ताः स्त्रियः नद्य इव बभुः ॥ ५।९।५१ ॥
मृदुष्विति । कासाञ्चित् पतितभूषणानामित्यर्थः, कुचाग्रेषु संस्थिताः भूषणराजयः भूषणजनितरेखा भूषणानीव बभूवुः ॥ ५।९।५२ ॥
अंशुकान्ता इति । कासाञ्चित् स्त्रीणां मुखमारुतेन मुखश्वासेन कम्पिताः अंशुकान्ताः पटप्रदेशाः वक्त्राणामुपर्युपरि पुनः पुनर्व्याधूयन्ते कम्पन्ते षष्ठ्याः साधुत्वमत एव निर्देशात् एको परिशब्दार्थो व्याधूननान्वयी वा अधिकं कम्पन्त इति तदर्थः ॥ ५।९।५३ ॥
ता इति । नानापाकादिवशेन अनेकविधानि वर्णानि येषां तानि सुवर्णानि तन्मयाभरणानि यासां तासां पत्नीनां रावणस्त्रीणां वक्त्रमूलेषु रुचिरप्रभाः ताः अंशुकान्तव्यक्तयः उद्धूताः पताका इव रेजिरे ॥ ५।९।५४ ॥
ववल्गुरिति । शुभार्चिषां शोभनदीप्तिमतीनां कासाञ्चित् योषितां कुण्डलानि मुखमारुतसंकम्पैर्मन्दं मन्दं ववल्गुः चकम्पिरे । एतेन कुण्डलानामतिलघुत्वं सूचितं तेन तासां भारासहिष्णुत्वं सूचितं तेन सौकुमार्यातिशयो ध्वनितः ॥ ५।९।५५ ॥
शर्करेति । शर्करासवस्य आसवविशेषस्य गन्धः सुगन्धो यस्मिन् सः प्रकृत्या स्वभावतो ऽपि सुरभिः शोभनगन्धविशिष्टः अत एव सुखः सुखप्रदः स प्रसिद्धः तासां वदननिःश्वासः रावणं सिषिवे ॥ ५।९।५६ ॥
रावणेति । काश्चित् रावणयोषितः रावणाननशङ्का रावणमुखमिदमिति भ्रान्तिविशिष्टाः सत्यः सपत्नीनां मुखानि पुनः पुनरुपाजिघ्रन् ॥ ५।९।५७ ॥
ननु तदाघ्राणं घ्रायमाणमुखाः कथं न निवारयामासुरित्यत आह अत्यर्थमिति । रावणे अत्यर्थमत्यन्तं सक्तमनसः अत एव अस्वतन्त्राः ता रावणसंबन्धिन्यो वरस्त्रियः सपत्नीनां प्रियं तदाघ्राणसहनं स्वकर्तृकाघ्राणं च आचरन् अकुर्वन् । अत्यर्थं सक्तमनस इत्यनेन रावण एव जिघ्रतीति तासामपि भ्रान्तिः सूचिता ॥ ५।९।५८ ॥
बाहूनिति । अन्याः प्रमदाः पारिहार्यैः वलयैः विभूषितान् बाहून् अंशुकानि वस्त्राणि च उपनिधाय उपबर्हणत्वेन प्रकल्प्य शिश्यिरे ॥ ५।९।५९ ॥
अन्येति । अन्या काचित् अन्यस्याः तस्याः पूर्वोक्तायाः वक्षसि भुजमुपनिधाय शिश्ये इति शेषः । एवमुत्तरत्रापि यथायोग्यं शेषकल्पना । अपरा अन्यस्याः कुचौ उपनिधाय शिश्ये ॥ ५।९।६० ॥
ऊरू इति । अन्यो ऽन्यस्य ऊर्वादि समाश्रिताः अत एव परस्परनिविष्टाङ्ग्यः मदस्नेहेन वशानुगाः अत एव अन्योन्यस्य अङ्गसंस्पर्शात् प्रीयमाणाः एकीकृतभुजाः सर्वा योषितः सुपुपुः । अर्धचतुष्टमेकान्वयि ॥ ५।९।६१,६२ ॥
अन्यो ऽन्येति । अन्यो ऽन्यभुज एव सूत्रं तेन ग्रथिता स्त्रीमालामत्ताः षट्पदा भ्रमराः यस्यां सा सूत्रे ग्रथिता माला इव शुशुभे उपमेये षट्पदप्रतिनिधयः कचकुचोपरिभागादयः ॥ ५।९।६३ ॥
लतानामिति । वायुसेवनात् हेतोः उद्धूतम् अन्योन्यमालाग्रथितं मालाकारेण संबद्धम् अत एव प्रतिवेष्टिता अन्योन्यमश्लिष्टाः सुस्कन्धाः शाखा यस्मिन् तत् अत एव संसक्ताः परस्परं मिलिताः कुसुमोच्चया यस्मिन् अत एव अन्योन्यभ्रमरैः आकुलं व्याप्तं माधवे वसन्ते मासि लतानां वनमिव रावणस्य स्त्रीवनमासीत् । उपमानविशेषणानि उपमेये ऽपि योजनीयानि । तत्र वायुशब्देन मारुतेर्ग्रहणं कुसुमशब्दः वेण्यादिग्रथितकुसुमपरः, भ्रमरशब्दः चिकुरपरः “भ्रमरश्चिकुरः” इति विश्वः । अर्धचतुष्टयमेकान्वयि ॥ ५।९।६४,६५ ॥
उचितेष्वपि उचितेषु योग्येषु सुव्यक्तं सुस्फुटं विन्यस्तानामिति शेषः, तासां योषितां संबन्धिनीनाम् भूषणाङ्गाम्बरस्रजां विवेकम् इमे भूषणादयः अस्या अन्यस्या वेति निश्चयमाधातुं कर्तुं न शक्यम् । एतेनान्योन्यसंश्लेषः सूचितः ॥ ५।९।६६ ॥
रावणेति । रावणे सुखसंविष्टे सुप्ते सतीत्यर्थः । ज्वलन्तः काञ्चना दीपाः तदभिमानिदेवविशेषाः अनिमिषा निमेषरहिताः सन्तः विविधप्रभाः ताः रावणसंबन्धिनीः स्त्रियः प्रेक्षन्ते । एतेन रावणजागरणसमये तत्स्त्रीदर्शनं देवानामपि दुर्लभमिति व्यञ्जितं तेन रावणस्य प्रतापातिशयः सूचितः ॥ ५।९।६७ ॥
नन्वेवंविधस्त्रीणां प्राप्तिः कथं तस्येत्यत आह– राजर्षीति । राजर्षिप्रभृतीनां कन्याः कामवशं गताः सत्यः तस्य रावणस्य योषितो ऽभवन् । कन्या इत्युक्त्या रावणस्याधर्मसंसर्गाभावो ध्वनितः । तेन ब्रह्मराक्षसत्वादुक्तकन्याविवाहयोग्यत्वं रावणस्य ध्वनितम् ॥ ५।९।६८ ॥
तदागमनप्रकारमाह युद्धेति । सर्वा बहवः स्त्रियः युद्धकामेन हरणहेतुकतत्पित्रादिभिः युद्धमिच्छता रावणेन हृताः समदाः काश्चित्तु मदनेनैव मोहिताः सत्यः आगताः स्वयं प्राप्ताः । एतेन रावणस्य सौन्दर्यातिशयः सूचितः ॥ ५।९।६९ ॥
जनकात्मजाहरणं रावणविघातार्थमेवेति द्योतयन्नाह नेति । वरार्हां श्रेष्ठपूजायोग्यां जनकात्मजां विना गुणेन अतिसौन्दर्यादिनोपलक्षिता अपि काश्चित् अनिच्छन्त्यः प्रमदाः वीर्योपपन्नेन रावणेन प्रसह्य हठात् न लब्धाः गृहीताः अन्यकामाः पत्यन्तरमिच्छन्त्यो न लब्धाः स्वेतरेच्छावत्यो न हृता इत्यर्थः, अन्यपूर्वा विवाहिता आत्ममात्रमिच्छन्त्यो ऽपीत्यर्थः, न लब्धा । एतेन रावणविध्वंसो ऽचिरं भवितेति सूचितम् ॥ ५।९।७० ॥
नेति । अकूलीना निषिद्धकुलोत्पन्ना तस्य रावणस्य भार्या नाभवत् हीनरूपां च नाभवत् अदक्षिणा अकुशलापि नाभवत् अनुपचारयुक्ता उत्तमभूषणरहिता नाभवत् हीनसत्त्वा हीनबलापि न कान्तस्य रावणस्य न कामनीया अनीप्सितापि भार्या नाभवत् ॥ ५।९।७१ ॥
बभूवेति । इमा राक्षसराजभार्याः यथा स्वपतिस्मरणादिषु निरताः ईदृशी तथा रामस्मरणादिनिरता यदि राघवधर्मपत्नी तत्स्मरणादीनां विघ्नो न कृतः स्यादित्यर्थः । तदा अस्य रावणस्य सुजातं कल्याणमेवेत्यर्थः, इति साधुबुद्धेर्हरीश्वरस्य बुद्धिर्निश्चयो बभूव ॥ ५।९।७२ ॥
पुनरिति । गुणतः सर्वसद्गुणैर्विशिष्टा सर्वतो ऽधिका सीता ऽस्तीति ध्रुवं निश्चितम् । अथ अतः महात्मा लङ्केश्वरः यत् अस्यां सीतायामनार्यकर्म अपहरणरूपक्षुद्रक्रियां कृतवान् तत्कष्टम् अनुचितं तद्विघातकमित्यर्थः ॥ ५।९।७३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे नवमः सर्गः ॥ ५।९ ॥