विमानमेव वर्णयन्नाह स इत्यादिभिः । स हनूमान् प्रतप्तजाम्बूनदजालेन कृत्रिमं रचितं महद्विमानं ददर्श ॥ ५।८।१ ॥
तदिति । अप्रमेयैः सौन्दर्यादिभिः प्रमातुमशक्यैः प्रतिकारैः प्रतिमाभिः कृत्रिमं रचितम् विश्वकर्मणा स्वयं साधु निर्मितमितिहेतोर्दिवङ्गते वायुपथे प्रतिष्ठितम् अत एव आदित्यपथस्य लक्ष्मवत् बोधकमिव तद्विमानं व्यराजत । आदित्यपथ इति वायुपथस्य नामान्तरमिति न विरोधः ॥ ५।८।२ ॥
नेति । यत् संस्थानं प्रयत्नतो न कृतं तत् तत्र विमाने किंचिन्न सर्वं प्रयत्नतः कृतमित्यर्थः, यत् महार्हरत्नवत् न तत् तत्र किञ्चिन्न यत् महाविशेषवत् अतिरचनाविशिष्टं न तत् किञ्चिन्न अत एव ते पुष्पकविमानस्थरचनासदृशा विशेषाः महारचनाः सुरेषु सुरविमानेष्वपि न ॥ ५।८।३ ॥
तप इति । तपस्समाधानाभ्यां कृच्छ्रचान्द्रायणादिदेवविशेषध्यानाभ्यां जातेन पराक्रमेण अर्जितं रावणेन प्राप्तं मनस्समाधानस्य एकाग्रमनसः विचारेण गमनेनेव चारोगमनमस्त्यस्मिन् तम् अर्धर्चादित्वात्पुंस्त्वं संज्ञापूर्वकविधेरनित्यत्वाल्लुगभावो वा । अनेकैर्बहुभिः संस्थानविशेषैः विलक्षणावयवैः निर्मितं मनोवेगत्वात् विलक्षणवयवविशिष्टत्वाच्च हेतोः तुल्यविशेषयोर्निर्मितं प्रक्षेपो यस्मात् । समाधिकरहितमित्यर्थः ॥ ५।८।४ ॥
मनस्समाधाय स्वामिमनोनुसृत्यैव शीघ्रगामिदुरासदं पराभवितुमशक्यं महर्द्धिनां महत् ऋद्धं तपोवृद्धिरस्ति येषु तेषाम् । एतेन दीर्घाभाव आर्ष इति भट्टोक्तिश्चिन्त्या महात्मनामग्र्यमुदाम् अत्यानन्दानामालयमिव ॥ ५।८।५ ॥
विशेषं विशेषगमनादि आलम्ब्य विशेषे वायुपथे संस्थितं विचित्राणि कूटानि शिखराणि यस्मिन् तत् बहुकूटमण्डितं समीपस्थबहुकूटैः शोभितम् अत एव मनोभिरामं विचित्रकूटं गिरेः शिखरं यथा शृङ्गमिव ॥ ५।८।६ ॥
निशाचराः निशायामधिकं चरणशीलाः विवृतानि आघूर्णितानि विध्वस्तानि निमेषरहितानि विशालानि लोचनानि येषां ते सहस्रशो भूतगणा यं वहन्ति तत् ॥ ५।८।७ ॥
वसन्तपुष्पोत्करेण वसन्तकालिकपुष्पसमूहेन चारु दर्शनं यस्य अत एव वसन्तमासात् वसन्तकालादपि चारु दर्शनं यस्य तत् विमानसत्तमं पुष्पकं वानरवीरसत्तमो हनूमान् ददर्श । श्लोकपञ्चकमेकान्वयि ॥ ५।८।८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे ऽष्टमः सर्गः ॥ ५।८ ॥