००७ हनुमता पुष्पकविमानदर्शनम्

पुरीमेव वर्णयन्नाह स इत्यादिभिः । बलवान् स हनुमान् व्यासक्तानि खचितानि वैदूर्याणि येषु तान्येव सुवर्णजालानि स्वर्णमयगवाक्षाणि यस्मिन् सविहङ्गजालं विहङ्गसमूहसहितं वेश्मजालं गृहसमूहं विद्युत्पिनद्धं प्रावृषि मेघजालमिव ददर्श ॥ ५।७।१ ॥

निवेशनानामिति । प्रधानैः शङ्खायुधचापैः शालन्ते शोभन्ते ताः निवेशनानां

गृहाणां विविधाः शालाः अवान्तरगृहाणि मनोहराः विशालाश्च वेश्माद्रिषु अद्रिसदृशवेश्मसु चन्द्रशालाः शिरोगृहाणि चन्द्रकान्तमणिसंबद्धावान्तरगृहाणि वा पुनर्ददर्श ॥ ५।७।२ ॥

गृहाणीति । नानावसुभिः अनेकविधधनैः राजितानि देवासुरैरपि सुपूजितानि अतिप्रशंसितानि स्वबलार्जितानि रावणबलेन कुबेरात्प्राप्तानि गृहाणि कपिर्ददर्श ॥ ५।७।३ ॥

तानीति । प्रयत्नेन अभिसमाहितानि चतुर्दिक्षु क्रमेण संनिवेशितानि मयेन साक्षान्निर्मितानीव विश्वकर्मणा निर्मितत्वे ऽपि अनेकमायामयत्वान्मयनिर्मितसदृशानीत्यर्थः, सर्वगुणोत्तराणि सर्वगुणैः श्रेष्ठानि गृहाणि ददर्श ॥ ५।७।४ ॥

तत इति । उच्छ्रितमेघस्य रूपमाकार इव रूपं यस्य काञ्चनस्य चारुरूपमिव रूपं यस्य तत् रक्षोधिपस्य रावणस्य आत्मबलानुरूपं तद्बलसदृशम् अत एव अप्रतिरूपम् उपमारहितं रूपं स्वरूपं यस्य तत् महीतले प्रकीर्णं पतितं स्वर्गमिव कुसुमावकीर्णं कुसुमैर्व्याप्तं रक्षोधिपस्य गृहोत्तमम् उत्तमं गृहं रजसा पुष्पाणामिति शेषः, अवकीर्णं व्याप्तं गिरेरग्रमिव ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।७।५,६ ॥

नारीति । तडिद्भिरर्च्यमानमम्भोधरं मेघमिव नारीप्रवेकैः नारीश्रेष्ठैर्दीप्यमानं हंसप्रवेकैः हंसश्रेष्ठैः खे वाह्यमानं विमानमिव सुकृतं शोभनं कृतं कृतिः रचना यस्मिन् तत् नगाग्रं शैलाग्रं भागमिव युक्तीकृतेन युक्त्या निर्मितेन चारुमेघेन चित्रं विमानं ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।७।७,८ ॥

महीति । यत्र विमाने मही स्थितिभूमिः पर्वतराजिपूर्णा कृता निर्मितपर्वतैः पूरितेत्यर्थः, शैलास्तु वृक्षवितानैः तरुसमूहैः पूर्णाः कृताः पुष्पं च केसरपत्राभ्यां पूर्णं कृतम् एकावल्यलङ्कृतिः ॥ ५।७।९ ॥

यस्मिन् पाण्डुराणि वेश्मानि गृहाणि कृतानि सुपुष्पाः शोभनपुष्पविशिष्टाः पुष्करिण्यः सरस्यः कृताः सकेसराणि पद्मानि कृतानि चित्राणि सरोवराणि वरसरोयुक्तानि वनानि कृतानि ॥ ५।७।१० ॥

तत् रत्नप्रभाभिः विराजमानं विघूर्णमानमितस्ततो भ्रमन्तं वेश्मोत्तमानां वेश्मीभूतदेवविमानानां मध्ये उच्चः अधिकः मानः सत्कारो यस्य तत् पुष्पाह्वयं नाम महाविमानं महाकपिर्ददर्श इत्यनुकृष्यते । श्लोकत्रयमेकान्वयि ॥ ५।७।११ ॥

कृता इति । तस्मिन् विमाने वैदूर्यमयाः विहङ्गाः कृताः रूप्यप्रवालैश्च विहङ्गाः कृताः नानावसुभिः अनेकविधमणिभिः चित्राः भुजङ्गा कृताः अनुरूपाः विमानस्थितियोग्याः जात्या शोभनजात्योपलक्षिताः शुभाङ्गाः तुरगाः अश्वाः कृताः ॥ ५।७।१२ ॥

प्रवालेति । प्रवालैः जाम्बूनदपुष्पैश्च युक्ताः पक्षाः येषाम् अत एव सुपक्षाः शोभनपक्षविशिष्टाः सलीलं लीलापूर्वकम् आवर्जिताः शिल्पविशेषेण मक्षिकादिवर्जनक्रियाविशिष्टाः जिह्यपक्षाः येषां ते सुमुखाः विहङ्गाः कृताः अत एव तेषां पक्षाः कामस्य कामाश्रयीभूतमनसः पक्षाः प्रग्रहीतार इव भान्ति तत्पक्षदर्शनमात्रेण विमाने स्थितिः प्रतीयत इत्यर्थः ॥ ५।७।१३ ॥

नियुज्यमाना इति । पद्मिनि पद्मविशिष्टे विमानसरसि उत्पलपत्रहस्ताः अत एव सकेसराः गजा नियुज्यमानाः निर्मिता बभूवुः । पद्महस्ता पद्मयुक्तकरा अत एव सुहस्ता शोभनहस्तविशिष्टाः देवीः अतिप्रकाशविशिष्टा लक्ष्मीः कृता निर्मिता बभूव । बभूवेति वचनविपरिणामेन पूर्वान्वय्यपि ॥ ५।७।१४ ॥

इतीवेति । चारुकन्दरं शोभनकोटरविशिष्टं परमसुगन्धि नगं वृक्षमिव सुन्दरं परमसुगन्धि नगं पर्वतमिव तत् गृहं पुनः पुनरभिगम्य सविस्मयः विस्मयसहितः अभवदिति शेषः ॥ ५।७।१५ ॥

तत इति । दशमुखबाहुनिर्जितां रावणेन वशीकृतां पूजिताम् अतिप्रशंसाविशिष्टां पुरीं लङ्कामभिपत्य प्राप्य चरन् सीतान्वेषणार्थम् इतस्ततो विचरन् सन् सुपूजितां महात्मभिः अतिप्रशंसितां सुदुःखितां वियोगदुःखं प्राप्तां पतिगुणवेगनिर्जितां पतिगुणानां समाधिकरहितवात्सल्यादीनां वेगेन स्मरणजनितोद्वेगेन निर्जितां स्थातुमशक्यां जनकसुताम् अदृश्य अदृष्ट्वा दुःखितो ऽभवदिति शेषः ॥ ५।७।१६ ॥

तदेव भङ्ग्यन्तरेणाह– तत इति । बहुविधेन दास्याद्यनेकप्रकारभावनया भावितः परिशीलितः आत्मा परात्मा रामो येन तस्य अत एव सचक्षुषः अप्राकृतचक्षुर्विशिष्टस्य कृतात्मनः कृतान्वेषणप्रयत्नस्य सुवर्त्मनः शोभनमार्गावलम्बिनः प्रविचरतः जनकसुताम् अपश्यतः महात्मनो हनुमतो मनः अतिदुःखितमभवत् ॥ ५।७।१७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे सप्तमः सर्गः ॥ ५।७ ॥