सीतान्वेषणमेव वर्णयन्नाह स इत्यादिभिः । लाघवेनातिवेगेन समन्वितः कपिर्हनूमान् विमानेषु सप्तभूमिकप्रासादेषु विचरन् सन् निकामं यथेच्छं लङ्कां विचचार ॥ ५।६।१ ॥
आससादेति । लक्ष्मीवान् अतिवीर्यसंपत्तिविशिष्टो हनुमान् प्राकारेणाभिसंवृतं राक्षसेन्द्रनिवेशनमाससाद प्राप ॥ ५।६।२ ॥
रक्षितमिति । सिंहैर्महद्वनमिव राक्षसैः रक्षितं भवनं समीक्षमाणः कपिकुञ्जरश्चकाशे ॥ ५।६।३ ॥
रूप्यकेति । रूप्यकेण रजतेन उपहतैर्लिखितैः चित्रैः हेमभूषितैः तोरणैर्बहिर्द्वारैश्च रुचिरैः द्वारैरन्तर्द्वारैश्च कक्ष्याभिश्च आवृतम् ॥ ५।६।४ ॥
गजेति । गजास्थितैः गजारूढैः महामात्रौ असंहार्यैः संहर्तुमशक्यैः शूरैश्च स्यन्दनयायिभिः रथवाहकैर्हयैश्च उपस्थितं संप्राप्तम् ॥ ५।६।५ ॥
सिंहव्याघ्राः सिंहव्याघ्रचर्मनिर्मितानि तनुत्राणानि वर्माणि येषु तैः दान्तकाञ्चनराजतीः दन्तादिमयीः प्रतिमाः संधारयद्भिरिति शेषः, घोषवद्भिश्चित्रैः रथैः सदा विचरितं संप्राप्तम् ॥ ५।६।६ ॥
बहुरत्नसमाकीर्णं परार्ध्यासनैर्भूषितं महारथानाम् “एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते” इत्यादावुक्तानां समावापः सदा स्थितिर्यस्मिन् अत एव महारथानां महासनानि यस्मिन् तत् ॥ ५।६।७ ॥
परमोदारैः अतिमहद्भिः अत एव दृश्यैर्विविधैः अनेकप्रकारैः तैस्तैः प्रसिद्धैः बहुसाहस्रैः मृगपक्षिभिः परिपूर्णम् ॥ ५।६।८ ॥
विनीतैः अन्तपालैर्बहिः स्थित्या रक्षकैः रक्षोभिः सुरक्षितं मुख्याभिः प्रधानाभिर्वरस्त्रीभिः परिपूर्णम् ॥ ५।६।९ ॥
मुदितानि प्रमदारत्नानि श्रेष्ठप्रमदा यस्मिन् तत् राक्षसेन्द्राणां निवेशनं प्रवेशो यस्मिन् वराभरणसंह्रादैः उत्तमभूषणनिःस्वनैः समुद्रस्वनसदृशः निस्वनो यस्मिन् तत् ॥ ५।६।१० ॥
तद्राजगुणसंपन्नं तैः प्रसिद्धैः राजगुणैः राजकीयपदार्थैः संपन्नं युक्तं वरचन्दनैश्च संपन्नमिति शेषः, सिंहैर्महद्वनमिव महाजनसमाकीर्णम् ॥ ५।६।११ ॥
भेरीमृदङ्गैः अभिरुतं शब्दितं पर्वसु सुतं सोमसवनं यस्मिन् तत् राक्षसैः पूजितं कृतसंमार्जनादिकम् ॥ ५।६।१२ ॥
समुद्रमिव गम्भीरं महारत्नानि महारत्नमयाः परिच्छदाः अलङ्कारादयो यस्मिन् ॥ ५।६।१३ ॥
महात्मनो रावणस्य वपुषा विराजमानं महत् विशालं महात्मनो वेश्म गृहं महाकपिर्हनुमान् ददर्श । दशानामेकत्रान्वयः ॥ ५।६।१४ ॥
लङ्केति । तत्र तस्मिन्समये हनुमान् इतीदं गृहं लङ्काभरणममन्यत रावणस्य समीपतो रावणभवनसमीपे चचार च ॥ ५।६।१५ ॥
गृहादिति । राक्षसानां गृहात् गृहं गृहान्तरं सर्वशः उद्यानानि च प्रासादांश्च वीक्षमाणः असंत्रस्तः संत्रासरहितः हनूमान् चचार ॥ ५।६।१६ ॥
अवप्लुत्येति । महावेगो हनूमान् प्रहस्तस्य तदभिधराक्षसस्य निवेशनं गृहमवप्लुत्य ततो ऽन्यत् महापार्श्वस्य वेश्म पुप्लुवे ॥ ५।६।१७ ॥
अथेति । मेघप्रतीकाशं मेघसदृशम् ॥ ५।६।१८ ॥
महोदरस्येति । सार्धश्लोक एकान्वयी ॥ ५।६।१९ ॥
शुकस्येति । इन्द्रजितः मेघनादस्य वेश्म जगाम ॥ ५।६।२० ॥
जाम्बुमालेरिति । अर्धं पृथक् ॥ ५।६।२१ ॥
रश्मीति ॥ ५।६।२२ ॥
धूम्रेति । क्रमेण धूम्राक्षादीनां भवनेषु प्लवमानो हनूमान् ऋद्धिमतां तेषां राक्षसानां भवनानां वा ऋद्धिं ददर्श । श्लोकपञ्चकमेकान्वयि ॥ ५।६।२३२७ ॥
सर्वेषामिति । सर्वेषां भवनानि समतिक्रम्य अथ पुनः राक्षसेन्द्रनिवेशनमाससाद ॥ ५।६।२८ ॥
रावणस्येति । रावणस्य उपशायिन्यः उपशायिनीः समीपशयनशीलाः पर्यङ्करक्षिका इत्यर्थः, राक्षसीः हरिसत्तमः हरयः सत्तमाः यस्य सः बहुमहावानराधीश इत्यर्थः, हरिशार्दूलो ददर्श ॥ ५।६।२९ ॥
शूलेति । रक्षः पतेर्गृहे गुल्मान्राक्षसीसमूहान्ददर्श ॥ ५।६।३० ॥
राक्षसानिति । सितान् बद्धान् रक्तान् श्वेतांश्च हरीन् अश्वांश्च परगजारुजान् रिपुगजविनाशकान् अत एव परसैन्यानां निहन्तृ़न् क्षरतो वर्षतो मेघानिव स्रवतः प्रस्रवतो गिरीन् यथाप्रस्रवं गिरिसदृशान् समरे परैर्दुर्धषान् गजांश्च ददर्श । सार्धश्लोकत्रयमेकान्वयि ॥ ५।६।३१३३ ॥
सहस्रमिति । जाम्बूनदपरिष्कृताः सुवर्णभूषिताः सहस्रं बह्वीः वाहिनीः सेनाः हेमजालैरपि छन्नाः सर्वतो भूषिता इत्यर्थः, तरुणादित्यसंनिभाः विविधाकाराः शिबिकाश्च रावणस्य निवेशने कपिर्ददर्श । अर्धचतुष्टयमेकान्वयि ॥ ५।६।३४,३५ ॥
लतेति । चित्राणि लतागृहाणि चित्रशालागृहाणि विचित्रशालारूपवेश्मानि च दारुनिर्मिताः पर्वताः येषु तानि क्रीडागृहाणि च कामस्य गृहकं रतिवेश्म दिवागृहकं दिवसविहारगृहं च रावणस्य निवेशने ददर्श । अर्धचतुष्टयमेकान्वयि ॥ ५।६।३६,३७ ॥
स इति । स हनूमान् मन्दरतलप्रख्यं मन्दराचलतलसदृशं मयूरस्थानैः क्रीडाहेतुकमयूरस्थितिभिः संकुलं व्याप्तं ध्वजयष्टिभिराकीर्णं व्याप्तं भवनोत्तमं ददर्श ॥ ५।६।३८ ॥
अनन्तेति । अनन्तरत्नानां निचयो यस्मिन् निधिजालं निधिसमूहविशिष्टं धीरैः निष्ठितम् अनुष्ठितकर्माङ्गं निधिरक्षकक्रियावयवो यस्मिन् भूतपतेर्बह्मणः गृहमिव गृहसदृशं रत्नानाम् अर्चिर्भिः रावणस्य तेजसा च उपलक्षितं तद्वेश्म रश्मिभिः किरणैः रश्मिमान् सूर्य इव विरराज । श्लोकद्वयमेकान्वयि ॥ ५।६।३९,४० ॥
जाम्बूनदेति । जाम्बूनदमयानि शयनादीनि ददर्श ॥ ५।६।४१ ॥
मध्वेति । मध्वासवाभ्यां कृतः क्लेदः आर्द्रत्वं यस्मिन् असंबाधं संबाधारहितं विशालमित्यर्थः, कुबेरभवनं यथा कुबेरभवनसदृशं नूपुरघोषादिभिः घोषवद्भिर्बाह्मान्तरैश्च विनादितं प्रासादसंघातैर्युतं संव्युढाः विशालाः कक्ष्या यस्मिन् तत् महागृहं हनूमान् प्रविवेश । श्लोकत्रयमेकान्वयि ॥ ५।६।४२४४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे षष्ठः सर्गः ॥ ५।६ ॥