अन्तःपुरप्रवेशानन्तरकालिकं हनुमद्वृत्तान्तमाह तत इत्यादिभिः । ततः अन्तःपुरप्रवेशानन्तरं धीमान् स हनुमान् मध्यं ताराणामन्तः गतं प्राप्तं भानुमन्तं सूर्यमिव ज्योत्स्नावितानं चन्द्रिकाविस्तारं भुवि उद्वमन्तं कुर्वन्तं गोष्ठे भ्रमन्तं वृषमिव अंशुमन्तं चन्द्रमसं ददर्श । इव उभयान्वयी ॥ ५।५।१ ॥
तदेव भङ्ग्यन्तरेणाह लोकस्येत्यादिभिः । लोकस्य पापानि निशि जायमानचुरादीनि विनाशयन्तं महोदधिं समेधयन्तं भूतानि विराजयन्तं प्रकाशयन्तमभियान्तं शीतांशुं चन्द्रमसं ददर्श ॥ ५।५।२ ॥
येति । भुवि पृथिव्यां मध्ये या लक्ष्मीर्मन्दरस्था सती यथा भाति प्रकाशते प्रदोषेषु च सागरस्था या यथा प्रकाशते तोयेषु च पुष्करस्था सती या यथा प्रकाशते सा चारुनिशाकरस्था सती तथैव रराज । मन्दरसागरयोरधिकलक्ष्मीप्रकाशो महात्मनां प्रत्यक्ष इति गम्यते ॥ ५।५।३ ॥
हंस इति । राजतपञ्जरस्थादिः हंसादिरिव अम्बरस्थः चन्द्रो ऽपि बभ्राज ॥ ५।५।४ ॥
स्थित इति । तीक्ष्णशृङ्गः ककुद्मान् वृष इव स्थितः ऊर्ध्वशृङ्गः श्वेतो महाचलः हिमगिरिरिव जाम्बूनदबद्धशृङ्गः सुवर्णबद्धदन्तः हस्तीव परिपूर्णशृङ्गः उत्थितशृङ्गाकारङ्कवान् इत्यर्थः, चन्द्रो विभाति ॥ ५।५।५ ॥
विनष्टेति । विनष्टः हिमालयस्य दूरत्वात् अपगतः शीताम्बुतुषाररूपपङ्कः यस्य सः महाग्रहः सूर्यः तस्य ग्राहः किरणसंक्रमः तेन विनष्टः विनाशितः पङ्कस्तम्भो येन । किंच महान्तो ये ग्रहग्राहाः ग्रहवशकर्तारः महाग्रहा इत्यर्थः, ते विनष्टपङ्का निरस्तप्रकाशकत्वगर्वा येन सः प्रकाशलक्ष्म्याश्रयेण प्रकाशरूपसंपत्त्याश्रयेण निर्मलः अङ्को लाञ्छनं यस्य स शशाङ्को रराज ॥ ५।५।६ ॥
शिलेति । शिलातलादीन्प्राप्य मृगेन्द्रप्रभृतिरिव चन्द्रो विरराज ॥ ५।५।७ ॥
प्रकाशेति । प्रकाशचन्द्रस्योदयेन नष्टो दोषस्तमो यस्य अत एव रामाणां स्त्रीणामभिरामाय ईरितः प्राप्तः चित्तदोषः पुरुषमनोत्यासक्तिर्यस्मिन् प्रवृद्धा रक्षस्सु पिशिताशदोषा यस्मिन् स्वर्गे ऽपि प्रकाशः शोभनत्वेन प्रख्यातिर्यस्य भगवान् धर्मात्मभ्यः सफलैश्वर्यदातेत्यर्थः, प्रदोषः रराजेत्यनुकृष्यते । यद्वा प्रदोषे चन्द्रनियन्तृत्वमारोप्याह प्रकाशेति । प्रकाशचन्द्रस्य प्रकाशविशिष्टचन्द्रमसः उदयेन नष्टो विनाशितः दोषः स्त्रीविषयकपुरुषदयाभावो येन प्रवृद्धाः रक्षस्सु पिशिताशदोषाः रुधिरपानरूपदुर्गुणाः यस्मिन् रामस्याभिरामाय सीतया सह रमणाय ईरितः चन्द्रो दापनेन प्रापितः चित्तदोषः सीताविषयकराममनोत्यासक्तिरूपदोषो दोषाभासो येन अत एव स्वर्गस्य सुखविशेषस्य प्रकाशः धर्मात्मसुप्रापकः अत एव भगवान् समर्थः प्रदोषो रराजेत्यनुकृष्यते ॥ ५।५।८ ॥
तन्त्रीति । कर्णसुखाः श्रोत्रानन्दप्रदाः तन्त्रीस्वरा वीणानादाः प्रवृत्ता पतिभिः सुपृक्ताः संयुक्ता नार्यः राक्षसपत्न्यः स्वपन्ति अत्यद्भुतरौद्रवृत्ता नक्तञ्चरा राक्षसा विहर्तुं प्रवृत्ताः ॥ ५।५।९ ॥
मत्तेति । मत्तैः ऐश्वर्यादिहेतुकमदविशिष्टैर्युक्ताः प्रमत्ता मद्यपानादिहेतुकमदविशिष्टाः सन्ति येषु तानि रथादिभिः संकुलानि व्याप्तानि वीरश्रिया वीरसंपत्त्या च समाकुलानि व्याप्तानि समाकुलानि परस्परं संमिलितानि कुलानि भवनसमूहान् कपिः स हनूमान् ददर्श । भद्रासनं स्वर्णपीठम् ॥ ५।५।१० ॥
परस्परमिति । मत्तानि रक्षांसि परस्परम् अधिकमाक्षिपन्ति उत्तरप्रत्युत्तराभ्याम् आक्षेपवचनमुच्चारयन्ति अत एव भुजान् अधिविक्षिपन्ति परिक्षिपन्ति अत एव मत्तप्रलापान् अधिविक्षिपन्ति अधिकमुच्चारयन्ति अत एव अन्योन्यम् अधिक्षिपन्ति तिरस्कुर्वन्ति अत एव वक्षांसि विक्षिपन्ति ताडयन्ति कान्तासु स्वस्वपत्नीषु गात्राणि करादीनि विक्षिपन्ति संस्थापयन्ति रूपाणि प्रशस्तरूपविशिष्टानि चित्राणि विक्षिपन्ति कुर्वन्ति चापानि विक्षिपन्ति आक्षिपन्तीत्यादीनां शत्रन्तत्वे तु मत्तानि रक्षांसि ददर्शेति पूर्वेणोत्तरेण वा ऽन्वयो बोध्यः । श्लोकद्वयं संमिलितान्वयि ॥ ५।५।११,१२ ॥
ददर्शेति । समालभन्त्यः चन्दनाद्यनुलेपं कुर्वन्त्यः “समालम्भो ऽनुलेपनम्” इत्यमरः । अपराः अन्याः स्वपत्न्यः अपराः स्वरूपवक्त्रा अवलोक्येति शेषः, हसन्त्यः परा विनिस्वसन्त्यः कान्ता ददर्श । अपराः स्वरूपवक्त्रा इति कान्ताविशेषणत्वे तु नावलोक्येति शेषप्रयोजनं समुदायस्य कर्मतया ऽन्वयात् । “तथाचोत्पत्तयः शुभाः” इत्यादाविव न द्वितीया ॥ ५।५।१३ ॥
महागजैरिति । नदद्भिर्महागजैः सुपूजितैः सुसद्भिः विभीषणादिभिः विनिःश्वसद्भिर्भुजङ्गैरुपलक्षितो महाह्रद इव रराज ॥ ५।५।१४ ॥
बुद्धीति । बुद्धिप्रधानान् अतिबुद्धिमतः रुचिराभिधानान् शोभनवचनान् संश्रद्दधानान् गुरुवाक्यादौ विश्वासयुक्तान् जगतः इतस्ततो गच्छतः नानाविधान् येषां तान् रुचिराभिधानान् शोभननामयुक्तान् प्रधानान् यातुधानान् तस्यां लङ्कायां ददर्श ॥ ५।५।१५ ॥
ननन्देति । सुरूपान् आत्मगुणानुरूपान् आत्मगुणेन रामसेवकत्वेन अनुरूपान् स्वसदृशान् विद्योतमानान् विभीषणादीन् दृष्ट्वा स तान् चोरत्वेन सहितान् सुरूपान् विरूपांश्च ददर्श ॥ ५।५।१६ ॥
तत इति । ततो ऽनन्तरं वरार्हाः उत्तमपूजनसामग्रीमतीः सुविशुद्धः भावो ऽन्तःकरणं यासाम् अत एव सुस्वभावाः महानुभावाः अतिप्रभाववतीः प्रियेषु प्रत्युत्पादकेषु पानेषु सक्तः भावो मनो यासां ताः तारा इव तारकासदृशीः तेषां स्त्रियः तत्र लङ्कायां ददर्श ॥ ५।५।१७ ॥
श्रियेति । श्रिया रूपादिसंपत्त्या ज्वलन्तीः प्रकाशमानाः त्रपया लज्जया उपगूढाः युक्ताः रमणोपगूढाः पत्यालिङ्गिताः अत एव प्रमदोपगूढाः प्रमोदविशिष्टाः काश्चित् स्त्रियः विहगेन पक्षिविशेषेणोपगूढा विहङ्गा इव ददर्श । अत्युन्नतप्रासादेषु शयनादीदृगुपमानोपमेयभावः ॥ ५।५।१८ ॥
अन्या इति । अन्या उक्ताभ्यो भिन्ना हर्म्यतलोपविष्टाः मदनोपविष्टाः कामयुक्ताः अत एव तत्र हर्म्ये प्रियाङ्केषु सुखोपविष्टाः भर्तुः पराः तर्पिकाः तत्र हेतुर्धर्मपरेषु पतिसेवारूपधर्मेषु आनिविष्टाः स्त्रियः धीमान् हनूमान् ददर्श ॥ ५।५।१९ ॥
अप्रावृता इति । अप्रावृताः प्रावरणरहिताः कान्तप्रहीणाः पतिरहिताः अत एव काञ्चनराजिवर्णाः सुवर्णरेखासदृशीः कृशाङ्गीरित्यर्थः, काश्चिद्ददर्श । परार्ध्याः अत्युत्तमाः तपनीयवर्णाः सुवर्णवर्णसदृशवर्णविशिष्टाः अतः एव शशलक्ष्मवर्णाः चन्द्रकान्तीः अत एव रुचिराङ्गवर्णाः काश्चिद्ददर्शेति पूर्वेणान्वयः ॥ ५।५।२० ॥
तत इति । ततो ऽनन्तरं मनोभिरामान् प्रियान् प्राप्य सुप्रीतियुक्ताः अत्यन्तप्रीतिविशिष्टाः सुमनोभिरामाः अत्यन्तमनोभिरामदात्र्यः परमाभिरामाः अतिसुन्दरीः हृष्टाः रामाः गृहेषु ददर्श ॥ ५।५।२१ ॥
चन्द्रेति । चन्द्रप्रकाशाः चन्द्रसदृशप्रकाशविशिष्टाः वक्त्रमालाः मुखसमूहान् वक्राः कुटिलनिरीक्षणाः सुपक्ष्माः शोभनपक्ष्मविशिष्टाः सुनेत्रमालाश्च शतह्रदानां चारुमाला इव विभूषणानां मालाश्च ददर्श ॥ ५।५।२२ ॥
नेति । मनसा परमात्मसंकल्पमात्रेण पथि सनातनधर्ममार्गे स्थिते राजकुले अभिजातां प्रादुर्भूतां परममत्यैश्वर्यप्रापकमभिजातं प्राकट्यं यस्याः ताम् अत एव साधुजातां शोभनप्राकट्यवतीं किं च साधोः साधुतायाः रामकर्तृकमहात्मोपकृतेरित्यर्थः । जातं जन्म यस्याः तां प्रजातां प्रफल्ललतामिव तन्वीं सूक्ष्माङ्गीं सनातने परंपराप्राप्ते वर्त्मनि पतिव्रताधर्मे सन्निविष्टाम् अत एव रामेक्षणीं राममात्रेक्षणकत्रीं मदने वियोगेन प्राप्तदैन्ये अभिविष्टां स्थितां श्रीमत् भर्तुर्मनः अनु प्रविष्टां पराभ्यः स्त्रीभ्यो लक्ष्म्यादिभ्यः सदा नित्यं विशिष्टामधिकाम् उष्णार्दितां वियोगजनिततापपीडिताम् अत एव सानुसृतास्रैः निरन्तरनिस्सृतबाष्पैः सहितः कण्ठो यस्याः तां पुरा संयोगकाले वरः अर्हः प्रशंसा यस्य तेन उत्तमनिष्केण विशिष्टभूषणेन युक्तः कण्ठो यस्यास्तां सुजातपक्ष्मां शोभनपक्ष्मविशिष्टां अभिरक्तः मधुरस्वरवत्वेनानुरागोत्पादकः कण्ठो यस्यास्तां नीलकण्ठीं मयूरीमिव वने प्रवृत्तां सीतां नैव ददर्श । श्लोकत्रयमेकान्वयि ॥ ५।५।२३२५ ॥
अव्यक्तेति । न व्यक्ता रेखा कलङ्को यस्यां तां चन्द्ररेखां द्वितीयाचन्द्रमिव पांशुपदिग्धां धूलीधूसरां हेमरेखामिव क्षतेन बाणकृतहिंसनेन प्ररूढां निष्पन्नां वर्णरेखां वर्णनीयव्रणचिह्नमिव वायुप्रभग्नां वायुना चालितां मेघरेखामिव रामस्य पत्नीं सीतां चिरस्य बहुकालमपश्यन् सन् प्लवङ्गमो हनुमान् अचिरस्य अल्पकालं दुःखोपहतः सन् मन्दः शिथिल इव बभूव । श्लोकद्वयमेकान्वयि ॥ ५।५।२६,२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५।५ ॥