००४ लङ्कापुरीप्रवेशः

लङ्कापराभवानन्तरकालिकं हनुमद्वृत्तान्तमाह– स इत्यादिभिः । स प्रसिद्धो हनूमान् निशि विक्रमेण लङ्कां पुरीं निर्जित्य अद्वारेण द्वारमार्गभिन्नेन उत्पथेनेत्यर्थः, प्राकारमवपुप्लुवे लङ्कां विवेश च । श्लोकद्वयमेकान्वयि ॥ ५।४।१,२ ॥

प्रविश्येति । कपिराजहितङ्करः सुग्रीवहितस्य कारकः स हनूमान् नगरीं लङ्कां प्रविश्य पुरो दक्षिणचरणनिधानेन प्रवेशं कृत्वा अथात एव सव्यं वामपादं शत्रूणां मूर्धनि चक्रे । प्रथमं दक्षिणपादस्य पुरो निधाने वामः पादः शत्रुविध्वंसको भवतीति प्रसिद्धम् । शत्रुपराभवं चक्रे इत्यर्थः । तथाहि “प्रयाणकाले स्वगृहप्रवेशे विवाहकाले ऽपि च दक्षिणाङिघ्रम् । कृत्वा ऽग्रतः शत्रुपुरप्रवेशे वामं निदध्याच्चरणं नृपालये” इति ॥ ५।४।३ ॥

प्रविष्ट इति । ततस्तस्यां निशायां प्रविष्टो मारुतात्मजः मुक्तपुष्पैर्विराजितं विभूषितं महापथं राजमार्गमास्थाय लङ्कामभिययौ । सार्धश्लोक एकान्वयी ॥ ५।४।४ ॥

हसितेति । तूर्यघोषपुरस्कृतैः अग्रे स्थापिततूर्यघोषैः हसितानामट्टहासानामुत्कृष्टनिनदैर्महास्वनैर्वज्राणामङ्कुशानां च निकाशा प्रतिमा येषु तैः वज्रनिर्मितैर्जालैर्गवाक्षैः पक्षिप्रवेशनिवारकावरणविशेषैर्वा विभूषितैः शोभितैः गृहमेधैः मेधाकारगृहैश्च रम्या पुरी अम्बरैः अम्बरवर्तिगृहाकारमेघैर्द्यौरिवावभासे । सार्धश्लोक एकान्वयी ॥ ५।४।५,६ ॥

प्रेति । सिताभ्रसदृशैः चित्रैरनेकविधैः पद्मस्वस्तिकानां पद्माद्यभिधचित्राणां संस्थितं विन्यासो येषु तैः पद्मादिसंज्ञकैर्वा । रक्षोगणगृहैर्वर्धमानगृहैः वर्धमानाभिधभवनैश्च लङ्का प्रजज्वाल शुशुभे । तथाहि “चतुःशालं चतुर्द्वारं सर्वतोभद्रसंज्ञकम् । पश्चिमद्वाररहितं नन्द्यावर्ताह्वयं तु तत् ॥ दक्षिणद्वाररहितं वर्धमानं धनप्रदम् । प्राग्द्वाररहितं स्वस्तिकाख्यं पुत्रधनप्रदम्” । सार्धश्लोक एकान्वयी ॥ ५।४।७ ॥

तामिति । चित्रमालाभरणां तां लङ्कां राघवस्यार्थे चरन् हनुमान् ददर्श ननन्द च । हितंकर इति अस्मादेव निर्देशात्साधु ॥ ५।४।८ ॥

भवनादिति । भवनात् भवनं भवनान्तरं गच्छन् सन् विविधाकृतिरूपाणि भवनानि ददर्श । ततस्ततः तत्र तत्र त्रिस्थानस्वरैः उरःकण्ठशिरोरूपस्थानत्रयजनितमन्दमध्यमतारस्वनविशेषैः भूषितं गीतं शुश्राव च । सार्धश्लोक एकान्वयी ॥ ५।४।९,१० ॥

स्त्रीणामिति । महात्मनां भवनेषु दिवि अप्सरसामिव मदनविद्धानां स्त्रीणां काञ्चीनिनदं नूपुराणां निःस्वनं च सोपाननिनदान् पादाघातहेतुकसोपानजनितस्वनांश्च आश्फोटितनिनदान् आस्फोटितानां विहारार्थं करास्फालनानां निनादांश्च क्ष्वेडितान् सिंहस्वनान् विहारकालकपरस्परपरिहासवचनानि वा शुश्राव । श्लोकद्वयमेकान्वयि ॥ ५।४।११,१२ ॥

शुश्रावेति । तत्र तस्मिन् समये जपतां पठतां मन्त्रान् रक्षोगृहेषु शुश्राव स्वाध्यायनिरतान् वेदपाठपरायणान् यातुधानान् रक्षोविशेषान् रावणस्तवसंयुक्तान् रावणस्तुतिकर्तृ़न् गर्जतो राक्षसांश्च समावृत्य स्थितं रक्षोगणं च ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।४।१३,१४ ॥

ददर्शेति । मध्यमे गुल्मे मध्यकक्षायां राक्षसस्य चरान् पुरवृत्तान्तबोधकप्रच्छन्नचारान् दीक्षितान् गृहीतयोगदीक्षावतः गृहस्थानित्यर्थः, गावः किरणा अजिनं चर्म अम्बरमाकाशं वासो वस्त्रं येषां तान् किरणवस्त्रत्वेन शीतनिवारकवस्त्राभावः आकाशवस्त्रत्वेन च नग्नत्वं फलति । किंच गोजिनं गवां चर्म अम्बरं च वासो येषां तान् जटिलान् मुण्डान् यतींश्च ददर्श । दर्भमुष्टयः प्रहरणानि विघ्ननिवारका येषां तान् अग्निकुण्डान्येव आयुधानि कृत्याद्युत्पादकत्वेन शस्त्राणि येषां तांश्च कूटाः रिपुणा चालयितुमशक्याः मुद्गराः पाणौ येषां तांश्च दण्डरूपायुधधरांश्च ददर्श । तत्र विकटाः विषमावयवाः । श्लोकचतुष्टयमेकान्वयि ॥ ५।४।१५१८ ॥

नेति । नातिस्थूलान् अतिस्थूलाभिन्नान् उचितस्थौल्यविशिष्टान् इत्यर्थः । एवमुत्तरत्रापि विरूपादींश्च ददर्श । दीर्घातिह्रस्वकानित्यत्र ह्रप्रेवेत्यनुशासनात् गुरुत्वाभावः । ध्वजिनः पताकिनश्चेत्यत्र छन्दोभङ्ग आर्ष इति भट्टाः । पताकाध्वजिनश्च इति क्वाचित्कः पाठः । श्लोकद्वयमेकान्वयि ॥ ५।४।१९,२० ॥

शक्तीति । शक्त्यायुधादीन् ददर्श ॥ ५।४।२१ ॥

स्कग्विण इति । यथास्वैरचरान् यथावत्स्वेच्छाविहारनिरतान् तीक्ष्णशूलधरादीन् च अधिपतिना रावणेन निर्दिष्टमाज्ञापितम् अव्यग्रं व्यग्रतारहितम् आरक्षं समन्ताद्रक्षकं मध्यमं मध्यकक्षावर्ति शतसाहस्रं लक्षसंख्याकं रक्षश्च अन्तःपुराग्रतः अन्तःपुराग्रे प्राप्तः कपिः ददर्श । सार्धश्लोकद्वयमेकान्वयि ॥ ५।४।२२,२३ ॥

स इति । स महाकपिः महाकपित्वसहितः सः हनुमान् तत् लक्षसंख्याकरक्षः दृष्ट्वा अद्रिमूर्ध्नि प्रतिष्ठितं संस्थितं पुण्डरीकावतंसाभिः श्वेतपद्मैः भूषिताभिः परिखाभिः समावृतं विख्यातं प्रसिद्धं महाहाटकाः तन्मयास्तोरणा यस्मिन् तत् राक्षसेन्द्रस्य गृहं ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।४।२४,२५ ॥

त्रिविष्टपेति । दिव्यनादैः स्तुतिशब्दैर्विनादितं वाजिहेषितैरश्वशब्दैः संघुष्टं हयादिभिः रुचिराणि द्वाराणि यस्य तत् सहस्रशो यातुधानैः रक्षितं गुप्तं विजातीयैरलक्षितं त्रिविष्यपनिभं स्वर्गसदृशं राक्षसाधिपतेर्गृहं कपिर्हनुमान् आविवेश । सार्धश्लोकत्रयमेकान्वयि ॥ ५।४।२६२९ ॥

तदेव भङ्गयन्तरेणाह स इति । स हनुमान् सहेम्ना सुवर्णसहितेन जाम्बूनदेन सुवर्णविशेषेण रचितं चक्रवालं प्राकारमण्डलं यस्य तत् महार्हमुक्तामणिभिर्भूषितः अन्तः अन्तर्भागो यस्य तत् परार्ध्यकालागरुचन्दनैः अर्हं पूजितं रावणान्तःपुरमाविवेश ॥ ५।४।३० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे चतुर्थः सर्गः ॥ ५।४ ॥