हनुमत्कर्तृकलङ्काप्रवेशनमेव वर्णयति स इत्यादिभिः । लम्बतोयदसंनिभे महामेघसदृशे लम्बे विस्तीर्णे लम्बशिखरे लम्बाभिधगिरिशिखरसमीपे सत्त्वं प्रवेशनयोग्यशनैर्गतिमास्थाय निश्चित्य महासत्त्वो ऽतिबलवान् हनूमान् निशि लङ्कां प्रविवेश । सार्धश्लोक एकान्वयी । लङ्कां वर्णयन्नाह रम्येत्यादिभिः । रम्यकाननतोयाभ्यामाढ्यां पूर्णाम् ॥ ५।३।१,२ ॥
शारदाः शरत्कालप्रभवाः ये अम्बुधरा मेघाः तत्प्रख्यैः श्वेतत्वेन तत्सदृशैः राजतैरित्यर्थः, भवनैरुपशोभितां सागरोपमः निर्घोषः राक्षसस्वनो यस्याम् ॥ ५।३।३ ॥
सुपुष्टानि यानि बलानि सैन्यानि तैः संपुष्टां दृढां विटपावतीं यथा अलकापुरीसदृशीं चारुतोरणेषु बहिर्द्वारेषु निर्यूहा मत्तगजा यस्यां पाण्डुराः सुधासंस्कारादिना श्वेताः द्वारतोरणाः अन्तर्द्वारबहिर्द्वारे यस्यां ताम् ॥ ५।३।४ ॥
भुजगानां नागानामाचरितं रक्षणार्थं संचारो यस्यां तामत एव गुप्तां नागैरभिरक्षितां भोगवतीं सर्पपुरीमिव सविद्युद्धनैः राक्षसमायानिर्मितविद्युत्सहितमेघैः आकीर्णां व्याप्तां ज्योतिर्गणैर्निषेविताम् ॥ ५।३।५ ॥
चण्डमारुतस्य निर्हादो यस्याम् अमरावतीं यथा संपत्त्या इन्द्रपुरीसदृशीं शातकुम्भेन सुवर्णप्राकारेण अभिसंवृताम् ॥ ५।३।६ ॥
पताकाभिरलंकृतां रावणपालितां पुरीमासाद्य प्राप्य हृष्टो हनूमान् प्राकारमभिषेदिवान् प्राप्तवान् । सार्धपञ्चकमेकान्वयि ॥ ५।३।७ ॥
विस्मयेति । वैदूर्यैस्तदभिधमणिभिः कृता वेदिका येषु तैर्मणिकुट्टिमैर्मणिमयबद्धभूमिभिर्भूषितैर्जाम्बूनदमयैः मणिस्फटिकमुक्ताभिः शोभितैरिति शेषः, तप्तहाटकनिर्युहैः प्रतप्तसुवर्णमयमत्तगजविशिष्टैः राजता रजतमया अमलपाण्डुरा उपरिप्रदेशा येषु ते वैदूर्यकृतानि सोपानानि येषु स्फटिकेन निर्मितमन्तर्येषु अत एव न पांशुर्धूली येषु तान्येव तानीति कर्मधारयः । तैश्चारुसंजवनैः रमणीयसभाभिरुपेतैः युक्तैः क्रौञ्चबर्हिणानां संघुष्टानि येषु तै राजहंसनिषेवितैः खमुत्पतितैरिव शुभैर्द्वारैरुपलक्षितां पुरीमालोक्य विस्मयाविष्टहृदय आसीदिति शेषः । सार्धश्लोकत्रयमेकान्वयि ॥ ५।३।८१० ॥
तूर्येति । तूर्याणामाभरणानां नूपुरादीनां च निर्घोषैः सर्वतः परिनादिताम् अत एव वस्वोकसारप्रतिमाम् अलकासदृशीं समुत्पत्तितामिव लङ्कां समीक्ष्य हनूमान् जहर्ष । सार्धश्लोक एकान्वयी ॥ ५।३।११,१२ ॥
तामिति । अनुत्तमां सर्वश्रेष्ठान् ऋद्धिमतीं सकलर्द्धिविशिष्टां राक्षसाधिपतेः रावणस्य पुरीं लङ्कां समीक्ष्य वीर्यवान् हनूमान् चिन्तयामास ॥ ५।३।१३ ॥
चिन्ताकारमाह नेति । उद्यतायुधाः पाणयो येषां तैः रावणबलैः रक्षिता इयं लङ्का अन्येन रामभिन्नेन जनेन बलात् पराक्रमात् धर्षयितुं न शक्या ॥ ५।३।१४ ॥
तत्र हेतुमाह कुमुदेति । प्रसिद्धा इयं लङ्का, कुमुदादीनामेव गतिः प्राप्या भवेत् । अन्येषां न गतिरित्यर्थः । तेन नगरीपराभवस्य अशक्यत्वं सूचितम् । श्लोकद्वयमेकान्वयि ॥ ५।३।१५,१६ ॥
चिन्तान्तरमाह समीक्ष्येति । राघवस्य रामस्य लक्ष्मणस्य च पराक्रमं विक्रान्तं वेगं च समीक्ष्य संचिन्त्य कपिः प्रीतिमान् अभवत् । एतेन तत्पराक्रमविक्रान्तयोः सर्वोत्कर्षत्वं ध्वनितम् ॥ ५।३।१७ ॥
तामिति । रत्नवसनोपेतां रत्नं रत्नाकरः रत्नमयप्राकारादिश्च तदेव वसनं तेन उपेतां युक्तां गोष्ठा अगाराणि अवतंसः कर्णभूषणं यस्याः तां यन्त्रागाराणि प्राकारोपरि स्थापितनिःक्षेपणीप्रभृतीनां गृहाण्येव स्तनानि यस्याः तां दीपैः प्रकाशकैः दीपचन्द्रादिभिः भास्वरैः प्रकाशमानैर्महागृहैर्मणिभवनैश्च नष्टतिमिरां ध्वस्तान्धकारां तां चोररूपराक्षसाश्रितां तां प्रसिद्धां राक्षसेन्द्रस्य नगरीं ददर्श । श्लोकद्वयमेकान्वयि ॥ ५।३।१८,१९ ॥
अथेति । अथ प्रवेशानन्तरं प्रविशन्तं हरिशार्दूलं नगरी लङ्का स्वेन अधिष्ठात्रीत्वेन रूपेण ददर्श ॥ ५।३।२० ॥
दर्शनप्रकारमाह सेति । सा लङ्का हरिवरं दृष्ट्वा स्वयमेव उत्थिता महानादं मुञ्चमाना च सती वायुसूनोः पुरस्तात् अग्रे अतिष्ठत् इदमब्रवीच्च । श्लोकद्वयमेकान्वयि ॥ ५।३।२१,२२ ॥
तद्वचनाकारमाह क इति । वनालय हे वानर त्वं कः कस्य पुत्रादिरित्यर्थः । केन कार्येण च त्वम् इह प्राप्तः यावत्प्राणास्ते त्वां धरन्ति न त्यजन्तीत्यर्थः, तावत् तत्त्वं यथार्थं कथयस्व ॥ ५।३।२३ ॥
ननु किमर्थं पृच्छसीत्यत आह नेति । रावणबलैः समन्ततो ऽभिगुप्ता व्याप्ता अत एव रक्षिता इयं लङ्का त्वया प्रवेष्टुं न शक्या । किंच अभितश्चतुर्दिक्षु गुप्ता राक्षसविजातीयनिरीक्षणार्थमलक्षरूपेण स्थिताः राक्षसाः यस्यास्ताम् ॥ ५।३।२४ ॥
अथेति । अथ तत्प्रश्नश्रवणानन्तरं यत्त्वं पृच्छसि तदहं कथयिष्यामि इति हनूमान् अब्रवीत् । कथयामीत्यपहाय कथयिष्यामीत्युक्त्या अहमपि किंचित्पृच्छामीति सूचितम् ॥ ५।३।२५ ॥
तत्प्रश्नाकारमाह केति । विरूपनयना त्वं पुरद्वारे अवतिष्ठसे सा का किंनामादिरित्यर्थः, मां च किमर्थं क्रोधात् निर्भर्त्सयसि ॥ ५।३।२६ ॥
हनुमदिति । हनुमद्वचनं श्रुत्वा क्रुद्धा कामरूपिणी लङ्का परुषं वचनमब्रवीत् ॥ ५।३।२७ ॥
तद्वचनाकारमाह अहमिति । दुर्धर्षा धर्षयितुमशक्या अहं रावणस्य आज्ञाप्रतीक्षा सती इमां नगरीं रक्षामि ॥ ५।३।२८ ॥
नेति । माम् अवज्ञाय अनादृत्य इमां नगरीं प्रवेष्टुं न शक्यं कैश्चिदिति शेषः, अतः मया निहतः अत एव प्राणैस्त्यक्तस्त्वं स्वप्स्यसे स्वप्स्यसि ॥ ५।३।२९ ॥
अहमिति । हे प्लवङ्गम अहं स्वयं स्वेन रूपेण नगरी लङ्का ऽस्मीति शेषः, अतः सर्वतः परिरक्षामि अत एव मया कथितं परुषमुक्तम् ॥ ५।३।३० ॥
लङ्काया इति । यत्नवान् अतिप्रयत्नशीलो हनूमान् अपरशैल इव स्थित इति शेषः ॥ ५।३।३१ ॥
स इति । स्त्रीरूपं विकृतं यस्याः तां कर्मधारयो वा, किंच स्त्रीरूपेण विकृतां प्रकटितां तां लङ्कां स हनूमान् आबभाषे ॥ ५।३।३२ ॥
तद्भाषणप्रकारमाह द्रक्ष्यामीति । साट्टप्राकारतोरणाम् अट्टादिसहितां नगरीम् अहं द्रक्ष्यामि इत्यर्थमिह संप्राप्तः । दर्शने हेतुः मे परं कौतूहलमाश्चर्यं भातीति शेषः ॥ ५।३।३३ ॥
तदेव भङ्ग्यन्तरेणाह वनानीति । इह अस्मिन् समये लङ्काया वनादीनि द्रष्टुं मे आगमनम् । तत्र वनमकृत्रिमं, काननं कृत्रिमम् इति न पौनरुक्त्यम् ॥ ५।३।३४ ॥
तस्येति । तस्य हनूमतः तद्वचनं श्रुत्वा लङ्का परुषाक्षरं पुनर्बभाषे ॥ ५।३।३५ ॥
तद्वचनाकारमाह मामिति । राक्षसेश्वरपालितां मामनिर्जित्य इयं लङ्का ते द्रष्टुं न शक्या ॥ ५।३।३६ ॥
तत इति । ततस्तद्वचनश्रवणानन्तरं पुरीं दृष्ट्वा अहं यथागतं यास्ये किंचन न ग्रहीष्यामीत्यर्थः, इति निशाचरीं लङ्कामुवाच ॥ ५।३।३७ ॥
तत इति । ततः हनुमद्वचनश्रवणानन्तरं सा लङ्का वानरश्रेष्ठं हनूमन्तं तलेन ताडयामास ॥ ५।३।३८ ॥
तत इति । ततः लङ्काकर्तृकताडनानन्तरं लङ्कया ताडितो हरिशार्दूलः सुमहानादं यथा भवति तथा ननाद ॥ ५।३।३९ ॥
तत इति । ततः स्वकृतमहानादानन्तरं वामहस्तस्य अङ्गुलीः संवर्तयामास एकीचकार मुष्टिं बबन्धेत्यर्थः । एनां लङ्कां मुष्टिना ऽभिजघान च ॥ ५।३।४० ॥
स्त्रीति । इयं स्त्री क्रोधानर्हेत्यर्थः । इति स्वयं मन्यमानेन हनुमता अतिक्रोधो न कृतः । अर्धं पृथक् । सेति । तेन हनुमत्कर्तृकेण प्रहारेण विह्वलाङ्गी निशाचरी सा लङ्का विकृताननं दर्शयति सा सती भूमौ सहसा पपात । अर्धद्वयमेकान्वयि ॥ ५।३।४१ ॥
तत इति । ततः लङ्काया निपातनानन्तरं वीरो हनुमान् तान्दृष्ट्वा स्त्रियं मन्यमानः सन् कृपां चकार कृपालुत्वचेष्टया तस्थावित्यर्थः ॥ ५।३।४२ ॥
तत इति । ततः निपतनानन्तरं भृशमुद्विग्ना लङ्का अगर्वितं गद्गदाक्षरं वाक्यमुवाच ॥ ५।३।४३ ॥
तद्वचनाकारमाह प्रसीदस्वेति । यतः सत्त्ववन्तः पुरुषा समये प्रार्थनाकाले तिष्ठन्ति अनुग्रहं कुर्वन्तीत्यर्थः, अतः प्रसीदस्व अत एव त्रायस्व ॥ ५।३।४४ ॥
अहमिति । लङ्का ऽहं विक्रमेण स्वयं त्वयैव निर्जिता ऽस्मीति शेषः, हं महान् खेदोयम् ॥ ५।३।४५ ॥
इदमिति । हे हरीश्वर तथ्यं ब्रुवन्त्या मम वचो यथावत् शृणु । तद्वचनाकारमाह– स्वयंभुवा ब्रह्मणा मम वरदानं दत्तम् ॥ ५।३।४६ ॥
तद्वरदानाकारमाह यदेति । यदा कश्चिद्वानरः विक्रमात्त्वां वशमानयेत् तदा आगतं रक्षसां भयं विनाशः त्वया विज्ञेयम् ॥ ५।३।४७ ॥
स इति । तव दर्शनात् त्वत्कर्तृकदर्शनपूर्वकपराभवात् स राक्षसविनाशकारी समयः प्राप्तः । तत्र हेतुः स्वयंभूविहितः ब्रह्मणोक्तः सत्यः अतस्तस्य समयस्य व्यतिक्रमो विपर्ययो नास्ति । अतः सीतानिमित्तं रावणस्य रक्षसां च विनाशः समुपागतः ॥ ५।३।४८,४९ ॥
तदिति । तत् राक्षसविनाशस्यावश्यकत्वाद्धेतोः पुरीं लङ्कां प्रविश्य यानि यानि कार्याणि वाञ्छसि तानि सर्वकार्याणि विधत्स्व ॥ ५।३।५० ॥
उपसंहरन्नाह प्रविश्येति । हरीश्वरस्त्त्वं शापोपहतां पुरीं लङ्कां यदृच्छया प्रविश्य सतीं पतिव्रताशिरोमणिं सर्वत्रगः सन् यथासुखं विमार्ग ॥ ५।३।५१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे तृतीयः सर्गः ॥ ५।३ ॥