तीर्णसागरस्य हनुमतो वृत्तान्तमेवाह स इत्यादिभिः । अनाधृष्यं धर्षयितुमशक्यं सागरं स हनूमान् अतिक्रम्य त्रिकूटस्य गिरिवर्याभिधस्य तटे स्वस्थः स्थितः सन् लङ्कां ददर्श ॥ ५।२।१ ॥
तत इति । ततः तत्र स्थित्यनन्तरं पादपमुक्तेन तरुभिः त्यक्तेन पुष्पवर्षेण अभिवृष्टः ततः तस्माद्धेतोः पुष्पमयः हरिर्हनुमान् तत्र त्रिकूटतटे बभौ ॥ ५।२।२ ॥
योजनानामिति । उत्तमविक्रमः कपिः हनूमान् योजनानां सुबहूनि शतानि अहं क्रमेयं क्रामेयं क्रमितुं शक्त इत्यर्थः, अतः संख्यातं बहुभिर्ज्ञातं शतयोजनपरिमितं सागरस्यान्तं सुबद्धसागरं क्रमेयं पुनरिति किं विचार्येति शेषः, अनिश्वसन् श्रमहेतुकनिश्वासरहितः सन् योजनानां शतं तीर्त्वा ऽपि तत्र तरणसमये ग्लानिं नाधिगच्छति अध्यगच्छत् प्राप्नोत् । श्लोकद्वयमेकान्वयि ॥ ५।२।३,४ ॥
स इति । स हनूमान् महोदधिं तीर्त्वा लङ्कां जगाम ॥ ५।२।५ ॥
शाद्वलानीति । शाद्वलानि कोमलदूर्वादिविशिष्टानि नीलानि मधुमन्ति मधुविशिष्टानि नगवन्ति गिरिखण्डवन्ति वनानि मध्येन मध्यवर्तिमार्गेण जगाम, हनूमानिति शेषः ॥ ५।२।६ ॥
शैलानिति । शैलान् वनराजीः वनपङ्क्तीश्च हनूमान् अभिचक्राम विचचार ॥ ५।२।७ ॥
स इति । तस्मिन्नचले गिरिवर्यसमीपे तिष्ठन् स हनूमान् वनान्युपवनानि नगाग्रे गिरिवर्यशिखरे स्थितां लङ्कां च ददर्श ॥ ५।२।८ ॥
दर्शनमेव विशदयन्नाह सरलानित्यादिभिः । लक्ष्मीवान् कपिकुञ्जरो हनूमान् परिखाभिरलंकृतां लङ्कां तत्समीपं समासाद्य प्राप्य सरलान् ददर्श । तत्र मुचुलिन्दा जम्बीराः, आक्रीडाः क्रीडागिरयः इति कतकः उद्यानविशेषा एवेत्यन्ये । राज्ञामसाधारणान्युद्यानान्याक्रीडा इति तीर्थः । श्लोकषट्कमेकान्वयि ॥ ५।२।९१४ ॥
सीतेति । सीतापहरणात् सीतापहरणपूर्वकस्थानात् हेतोः रावणेन राक्षसैश्च सुरक्षितां काञ्चनेन प्राकारेण वृतां गृहैः उच्चाभिः पाण्डुराभिः सुधादिसंस्कृतात्वेन पाण्डुरवर्णविशिष्टाभिः प्रतोलीभिः रथ्याभिश्चाभिसंवृताम् अट्टालकशताकीर्णाम् अनन्ताट्टालकपूर्णां लतापङ्क्तिविराजितैः लतापङ्क्तिवत् शोभितैः तोरणैर्बहिर्द्वारैरुपलक्षितां लङ्कां देवपुरीं देव इव हनूमान् ददर्श । श्लोकचतुष्टयमेकान्वयि ॥ ५।२।१५१८ ॥
तदेव भङ्ग्यन्तरेणाह– गिरीति । आकाशगा आकाशादूर्ध्वं गो गमनं यस्याः तां पुरीमिव श्रीमान् हनुमान् लङ्कां ददर्श ॥ ५।२।१९ ॥
पालितामिति । आकाशे प्लवमानां गच्छन्तीमिव हनूमान् ददर्श ॥ ५।२।२० ॥
लङ्कां स्त्रीत्वेन प्रकल्पयन्नाह वप्रेति । वप्रः प्राकारो ऽन्तरवेदिका च जघने यस्याः विपुलाम्बुः सागरः वनानि चाम्बराणि यस्याः शतघ्न्यः शूलानि च केशा यस्याः अट्टालकाः वतंसाः कर्णभूषणानि यस्याः, विश्वकर्मणा निर्मितां मनसा ब्रह्मेच्छामात्रेण कृतामिव लङ्कां तदवयवीभूतमुत्तरद्वारमासाद्य प्राप्य वानरो हनूमान् चिन्तयामास । श्लोकद्वयमेकान्वयि ॥ ५।२।२१,२२ ॥
चिन्तामेव भङ्ग्यन्तरेणाह कैलासेति । कैलासनिलयप्रख्यं कैलासशृङ्गगृहसदृशम् अत एव अम्बरमाकाशमालिखन्तमिव भवनोत्तमैराकाशं ध्रियमाणमिव द्वारविशेषमिति शेषः, आशीविषैर्गुहामिव राक्षसैः संपूर्णां लङ्कां च तस्याः लङ्कया महतीं गुप्तिं च सागरं च घोरं रावणं च निरीक्ष्य वानरो हनूमान् चिन्तयामास । सार्धश्लोकद्वयमेकान्वयि ॥ ५।२।२३,२४ ॥
चिन्ताकारमाह आगत्येति । यतः सुरैरपि युद्धेन जेतुं लङ्का न शक्या अतो हरयः वानराः आगत्यापि निरर्थका भविष्यन्ति ॥ ५।२।२५ ॥
इमामिति । न विद्यते विषमः राक्षसस्वभावात् विरुद्धस्वभावो रक्षको यस्याः अत एव दुर्गां रावणपालितां लङ्कां राघवो ऽपि प्राप्य किं करिष्यति ॥ ५।२।२६ ॥
अवकाश इति । राक्षसेषु सामादीनां युद्धस्य च अवकाशावसरो न दृश्यते । एतेन तेषामविरोधित्वोपचितार्थत्वबलदर्पपराक्रमसंपन्नत्वदृढप्रकृतिकत्वानि सूचितानि ॥ ५।२।२७ ॥
युद्धस्यावकाशाभावे हेतुं वदन्नाह चतुर्णामिति । वालिपुत्रादीनां चतुर्णामेव गतिः । एतेन युद्धयोग्यसैन्यप्राप्तेरसंभवः सूचितः ॥ ५।२।२८ ॥
इदानीं चिन्तनस्य न प्रयोजनमित्याह यावदिति । वैदेही जीवति न वा इदानीं संशय एवेत्यर्थः, अतः यदि जीवति तदा जनकात्मजां दृष्ट्वा अन्वेषणेनावलोक्य वैदेहीं यावत् यदि जानामि जीवितात्वेन निश्चेष्यामि । तदा तत्र सीतासमीपे एव चिन्तयिष्यामि । वैदेहीत्यध्याहृतम्, जीवतीत्यावर्तते ॥ ५।२।२९ ॥
चिन्तान्तरमाह तत इति । ततो ऽनन्तरं गिरेः शृङ्गे स्थितो रामस्याभ्युदये रतो हनूमान् मुहूर्तं चिन्तयामास ॥ ५।२।३० ॥
चिन्ताकारमाह अनेनेति । अनेन स्वकीयेन रूपेण प्रवेष्टुं रक्षसां पुरी लङ्का न शक्या ॥ ५।२।३१ ॥
महौजस इति । जानकीं परिमार्गता मया राक्षसाः वञ्चनीया स्वस्वरूपगोपनेन प्रलम्भनीयाः ॥ ५।२।३२ ॥
लक्ष्येति । प्राप्तः कालः समयो यस्य तन्महत्कृत्यं साधयितुं लक्ष्यालक्ष्येण कार्यहेतुकानुमित्या लक्ष्येण रूपेण चक्षुषा अलक्ष्येण रूपेण रात्रौ मया प्रवेष्टुं लङ्कापुरी शक्येति शेषः ॥ ५।२।३३ ॥
चिन्तान्तरमाह तामिति । सुरासुरैः दुराधर्षां तादृशीं पुरीं दृष्ट्वा मुहुर्मुहुः विनिःश्वस्य हनूमान् चिन्तयामास ॥ ५।२।३४ ॥
तदाकारमाह केनेति । केनोपायेन रावणेन अदृष्टो ऽहं मैथिलीं पश्येयम् ॥ ५।२।३५ ॥
उक्तवञ्चनाया आवश्यकत्वमित्यभिप्रेत्याह नेति । रामस्य कार्यं न विनश्येत् अतः रहिते राक्षसासेवितस्थले विद्यमानाम् एकां जनकात्मजामेको ऽहं कथं पश्येयम् ॥ ५।२।३६ ॥
दूताधीनमेव राजकार्यमतो दूतेन अनवधानतया न भवितव्यमिति बोधयन्नाह भूता इति । भूताः सिद्धा अर्थाः राजकार्याणि विक्लवम् असमीक्ष्यकारिणं दूतमासाद्य प्राप्य देशकालविरोधिता उचितदेशकालयोर्विरोधं प्राप्ताः सन्तः सूर्योदये तम इव विनश्यन्ति ॥ ५।२।३७ ॥
कुत्सितदूतलाभे राजमन्त्रा अपि निरर्थकाः भवन्तीति बोधयन्नाह अर्थेति । पण्डितमानिनः पण्डितंमन्याः अविवेकिन इत्यर्थः, दूताः कार्याणि घातयन्ति अतः इह अविवेकिदूतप्राप्तौ अर्थानर्थान्तरे कर्तव्याकर्तव्यविषये निश्चितापि बुद्धिः न शोभते ॥ ५।२।३८ ॥
नेति । कार्यं सीतालाभः कथं न विनश्येत् अत एव वैक्लव्यं दूतदोषः कथं न भवेत् । मयि प्राप्नुयात् अत एव समुद्रस्य लङ्घनं वृथा कथं न भवेत् ॥ ५।२।३९ ॥
वैयर्थ्यसंभावनायां हेतुमाह मयीति । रक्षोभिर्मयि दृष्टे सति रावणानर्थं रावणविघातामिच्छतो रामस्येदं सीतालाभरूपकार्यं व्यर्थं भवेत् । एतेन रामदूतं मां ज्ञात्वा सीतामतिगुप्तां करिष्यतीति सूचितम् ॥ ५।२।४० ॥
स्वस्यालक्ष्यत्वे अनुपपत्तिमाह नहीति । राक्षसैः अविज्ञातेन जनेन राक्षसरूपेण अन्येन केनचिद्रूपेण वा क्वचित्स्थातुं नैव शक्यम् । एतेन लङ्कायाः राक्षसव्याप्यत्वं राक्षसानां चातिनिपुणत्वं बोधितम् ॥ ५।२।४१ ॥
वायुरिति । हि यतः अत्र लङ्कायां रक्षसाम् अविदितं किंचिन्न अतः नाज्ञातः राक्षसैरविदितः वायुरपि अत्र न चरेत् चरितुं शक्नुयात् इति मम मतिर्निश्चयः ॥ ५।२।४२ ॥
इहेति । स्वेन रूपेण संवृतः विशिष्टः सन् यदि तिष्ठामि तर्हि विनाशं क्षतादिकमुपयास्यामि अत एव भर्तुरर्थः हास्यति भर्तारं त्यक्ष्यति विनङ्क्ष्यतीत्यर्थः ॥ ५।२।४३ ॥
तदिति । तदुक्तहेतोः राघवस्यार्थसिद्धये स्वेन रूपेण ह्रस्वतां लघुरूपं गतः प्राप्तो ऽहं लङ्कामभिपतिष्यामि प्रवेक्ष्यामि । एतेन वायुतो ऽपि स्वसामर्थ्याधिक्यं व्यञ्जितम् ॥ ५।२।४४ ॥
रावणस्येति । रात्रौ रावणस्य पुरीं प्रविश्य सर्वं भवनं च प्रविश्य जनकात्मजां द्रक्ष्यामि ॥ ५।२।४५ ॥
इतीति । वैदेह्याः दर्शनोत्सुको ऽयं हनूमान् इति निश्चित्य सूर्यस्यास्तमस्तत्वम् आचकाङ्क्षे ॥ ५।२।४६ ॥
सूर्य इति । अद्भुतानि बह्वाश्चर्याणि पश्यति अद्भुतं दर्शनं यस्येति वा स मारुतिः स्वशरीरं संक्षिप्य तिरोधाय वृषदंशकमात्रः वृषाणां मूषकाणां दंशको मार्जारः तन्मात्रः तत्परिमाणो बभूव । “वपो गव्याखुधर्मयोः” इति हैमः ॥ ५।२।४७ ॥
प्रदोषेति । प्रदोषकाले तूर्णसुत्पत्य उत्प्लुत्य प्रविभक्ता महापथा राजमार्गाः यस्यां तां पुरीं प्रविवेश ॥ ५।२।४८ ॥
पुरीमिव वर्णयन्नाह– प्रासादेति । प्रासादमालाभिः विततां विस्तृतां काञ्चनसंनिभैः स्तम्भैः शातकुम्भनिभैर्जालैश्च उपलक्षितां गन्धर्वनगरोपमां गन्धर्वनगरसदृशीं यैर्यैः रक्षसां तानि भवनानि शुशुभिरे तैस्तैः सप्तभौमाष्टभौमैः सप्तभूमिकाष्टभूमिकैः स्फटिकसंकीर्णैः स्फटिकमणिरचितैः कार्तस्वरविभूषितैः सुवर्णखचितैः स्थलैरुपलक्षितां पुरीं ददर्श । हनूमान् इति शेषः । सार्धश्लोकद्वयमेकान्वयि ॥ ५।२।४९,५० ॥
काञ्चनानीति । रक्षसां संबन्धीनि काञ्चनानि विचित्राणि तोरणानि सर्वतः समलंकृतां लङ्कामुद्योतयामासुः ॥ ५।२।५१ ॥
अचिन्त्यामिति । अद्भुतः आकारो यस्यास्तामत एव अचिन्त्यामद्भुतनिर्माणादिना चिन्तयितुमशक्यां लङ्कां वैदेह्या दर्शनोत्सुको हनूमान् विषण्णः वृत्तान्तालाभादुदासीनचित्तः हृष्टः सुशकुनादिना हर्षयुक्तश्चासीत् ॥ ५।२।५२ ॥
स इति । पाण्डुराविद्धमालिनीं पाण्डुराणां पाण्डुरवर्णानाम् आविद्धानां परस्परं संमिलितानां विमानानां सप्तभूमिकप्रासादानां माला समूहो ऽस्ति अस्यां तां महार्हजाम्बूनदाः तन्मयाः जालतोरणाः यस्यां, यशस्विनीं स्वकीययशोवर्धिकां क्षपाचरैः राक्षसैः सुपालितां लङ्कां प्रविवेशेति शेषः ॥ ५।२।५३ ॥
चन्द्र इति । तारागणैः सह अनेकसहस्ररश्मिश्चन्द्रो ऽपि अस्य हनूमतः साचिव्यं साहाय्यं कुर्वन्निव ज्योत्स्नावितानेन चन्द्रिकासमूहेन मध्यगतः लङ्कामध्ये प्राप्तान् लोकान् राक्षसान् वितत्य व्याप्य विराजन् प्रकाशयन् सन् उत्तिष्ठते ॥ ५।२।५४ ॥
शङ्खेति । शङ्खप्रभमत एव क्षीरमृणालवर्णं व्यवभासमानं प्रकाशयन्तमुद्गच्छमानम् उदयमानं चन्द्रं सरसि पोप्लूयमानं हंसमिव ददर्श ॥ ५।२।५५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे द्वितीयः सर्गः ॥ ५।२ ॥