॥ सुन्दरकाण्डम् ॥
॥ रामायणशिरोमणिः ॥
स्वस्ति श्रीमनुवंशवर्धनपरं सर्वेश्वरैः संस्तुतं
श्रीरामं सह लक्ष्मणं सुरतरुप्रख्यं सदा मारुतिम् ।
सीताध्यानपरायणं सुरनुतं ज्ञानप्रदं सत्कृतं
रामेणाखिलराजराजितपदा वन्दे ऽप्यभीष्टप्रदम् ॥ १ ॥
वन्दे त्रिवेणीं निखिलार्थवेणीं
वन्दे प्रयागं सुविशालयागम् ।
वन्दे महान्तं गुरुप्रार्यभान्तं
वन्दे गणेशं सुखसर्वदेशम् ॥ २ ॥
वाल्मीकेश्चरणौ नत्वा तदीय रचिते परे ।
सुन्दरे विवृतिं कुर्मो रामायणशिरोमणिम् ॥ ३ ॥
यस्य सान्निध्यमात्रेण ब्रह्मत्वं प्राप्यते जनैः ।
तं वन्दे सर्वदातारं त्रिवेणीतटमुत्तमम् ॥ ४ ॥
सीतारामसमारम्भां शुकाचार्यादिमध्यगाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५ ॥
जाम्बवत्कर्तकसागरतरणोद्देश्यकप्रोत्साहनानन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः । ततः स्ववीर्यस्मरणानन्तरं सीतायाः पदं स्थितिप्रदेशमन्वेष्टुं चारणैर्देवजातिविशेषैः आचिरते अतिसंचारविशिष्टे पथि आकाशमार्गे प्राप्तुमिति शेषः, इयेष ववाञ्छ ॥ ५।१।१ ॥
दुष्करमिति । दुष्करमन्यैः कर्तुमशक्यम् अत एव निर्गतः प्रतिद्वन्द्वः द्वितीयः कर्ता विघ्नो वा यस्य तत्कर्म चिकीर्षन् समुदग्रं सम्यग् उन्नतं शिरोग्रीवं यस्य स हनूमान् गवाम्पतिः महावृषभ इव आबभौ ॥ ५।१।२ ॥
अथेति । सलिलकल्पेषु राशीभूतत्वेन सागरजलसदृशेषु वैदूर्यवर्णेषु वैदूर्यवर्णसदृशवर्णविशिष्टेषु शाद्वलेषु गिरिकोमलतृणेषु यथासुखम् अथ समङ्गलं महाबलो हनूमान् द्विजान् पक्षिणः वित्रासयन् उरसा पादपान् हरन् विदारयन् मृगांश्च निघ्नन् प्रवृद्धः केसरी सिंह इव विचचार । श्लोकद्वयमेकान्वयि ॥ ५।१।३,४ ॥
नीलेति । नीललोहिताः अरुणत्वश्यामत्वोभयाक्रान्ताः पद्मवर्णाः पद्मरागाः सितासिताः कल्माषाः सर्वे मणिविशेषाः तैः स्वभावसिद्धैर्गिरिस्वभावनिष्पन्नैः विमलैर्धातुभिश्च समलंकृतं कामरूपिभिः यक्षादिभिराविष्टं यत् तस्मिन् नागवरायुते तस्य गिरिवर्यस्य तले तिष्ठन् सन् कपिवरो हनूमान् हृदे नागो गज इव आबभौ । श्लोकत्रयमेकान्वयि ॥ ५।१।५७ ॥
स इति । सूर्यादिभ्यो ऽञ्जलिं कृत्वा स हनूमान् गमने मतिं बुद्धिं चकार ॥ ५।१।८ ॥
अञ्जलिमिति । दक्षिणः सर्वकार्यकुशलो हनूमान् आत्मयोनये स्वप्रादुर्भूतिकारणाय पवनायाञ्जलिं कृत्वा ववृधे ॥ ५।१।९ ॥
प्लवगेति । प्लवगप्रवरैः दृष्टो ऽवलोकितो हनूमान् पर्वसु समुद्र इव ववृधे ॥ ५।१।१० ॥
निष्प्रमाणेति । निष्प्रमाणमियत्तारहितं शरीरं यस्य सः अर्णवं सलिलं लिलङ्घयिषुः हनूमान् चरणाभ्यां पर्वतं पीडयामास ॥ ५।१।११ ॥
स इति । कपिपीडितः अचलः स महेन्द्रः चचाल अत एव पुष्पिताग्राणां तरूणां पुष्पम् अशातयत् अपातयदित्यर्थः ॥ ५।१।१२ ॥
तेनेति । सुगन्धिना शोभनगन्धविशिष्टेन पादपमुक्तेन तरुभ्यः पतितेन पुष्पौघेन संवृतः महेन्द्रः पुष्पमयः संजनितः प्रचुरपुष्पवानिव बभौ ॥ ५।१।१३ ॥
तेनेति । उत्तमवीर्येण हनुमता पीड्यमानः स महेन्द्रः मदमत्तो द्विप इव सलिलं संप्रसुस्राव ॥ ५।१।१४ ॥
पीड्यमान इति । बलिना हनुमता पीड्यमानो महेन्द्रः काञ्चनाञ्चनराजतीः काञ्चनादिमयीः रीतीः रेखाः निर्वर्तयामास प्रकाशयामास ॥ ५।१।१५ ॥
मुमोचेति । शैलः समनशिशलाः मनश्शिलासहिताः शिलाः मुमोच । तत्र दृष्टान्तः, मध्यमेन मध्यभागेन अर्चिषा ज्वालया जुष्टः संयुक्तः अनलः धूमराजीः धूमपङ्क्तीरिव ॥ ५।१।१६ ॥
हरिणेति । हरिणा हनूमता पीड्यमानेन पीडितेन पर्वतेन पीड्यमानानि गुहाविष्टानि सत्त्वानि प्राणिनः विकृतैः स्वरैर्विनेदुः ॥ ५।१।१७ ॥
स इति । शैलपीडानिमित्तजः शैलपीडारूपनिमित्ताज्जनितः स प्रसिद्धः महान् सत्त्वसंन्नादः पृथिव्यादीनि पूरयामास ॥ ५।१।१८ ॥
शिरोभिरिति । व्यक्तानि स्वस्तिकलक्षणानि फणास्थितनीलरेखारूपचिह्नानि येषु तैः पृथुभिः स्थूलैः शिरोभिः पावकं वमन्तो नागाः दशनैर्दैंष्ट्राभिः शिलाः ददंशुः ॥ ५।१।१९ ॥
ता इति । सविषैर्विषसहितैस्तैर्नागैर्दष्टा महाशिलाः पावकोद्दीप्ता इव जज्वलुः सहस्रधा बिभिदुश्च ॥ ५।१।२० ॥
यानीति । विषघ्नानि यानि औषधजालानि औषधसमूहाः यस्मिन् पर्वतजातानि तान्यपि नागानां विषं शमितुं न शेकुः ॥ ५।१।२१ ॥
भिद्यते इति । अयं गिरिः भूतैर्भुवि पृथिव्याम् उतैर्व्याप्तैर्देवविशेषैः भिद्यते इति मत्वा त्रस्तास्तपस्विनः विद्याधराश्च तस्माद्गिरेः उत्पेतुः ॥ ५।१।२२ ॥
पानेति । पानभूमिगतं पानभूमौ प्राप्तं हैमं सुवर्णमयम् आसवभाजनं मद्यपात्रं पात्राणि तद्भिन्नभाजनानि च करकांश्च लेह्यादीनि च आर्षभाणि ऋषभचर्मपिनद्धानि चर्माणि फलकानि कनकत्सरून् स्वर्णमयमुष्टिविशिष्टान् खड्गांश्च हित्वा कृताः प्रकटिताः कण्ठगुणाः स्वरविशेषा यैस्ते पुष्कराक्षाः पद्मदलायतनेत्राः क्षीबाः मत्ताः विद्याधरा इति शेषः, गगनं प्रतिपेदिरे प्रापुः । श्लोकत्रयमेकान्वयि ॥ ५।१।२३२५ ॥
हारेति । हारादिधराः स्त्रियः रमणैर्विद्याधरैः सह आकाशे तस्थुः । तत्र पारिहार्यशब्दः श्रेष्ठवाचीति कतकः, वलयवाचीति तीर्थः ॥ ५।१।२६ ॥
दर्शयन्त इति । महाविद्यां महाविद्याजनितनिरवलम्बनस्थितिरूपां स्वशक्तिं दर्शयन्तः सहिता मिलिता विद्याधरमहर्षयः आकाशे तस्थुः पर्वतं वीक्षाञ्चक्रुर्विशेषेण ददृशुश्च । अम्बरे स्थितानामृष्यादीनां शब्दं शुश्रुवुश्च । श्लोकद्वयमेकान्वयि ॥ ५।१।२७,२८ ॥
तच्छब्दाकारमाह एष इति । दुष्करम् अन्यैः कर्तुमशक्यं कर्म चिकीर्षन् कर्तुमिच्छन् महावेगो हनुमान् समुद्रं तितीर्षति प्लोतुमिच्छति समुद्रस्य पारं प्राप्तुमिच्छति च । श्लोकद्वयमेकान्वयि ॥ ५।१।२९,३० ॥
इतीति । विद्याधरास्तपस्विनाम् ऋष्यादीनामिति वाचः श्रुत्वा पर्वते तं हनुमन्तं ददृशुः ॥ ५।१।३१ ॥
दुधुवे इति । स हनूमान् रोमाणि दुधुवे चकम्पे किंचिच्चचाल च महान् तोयदो मेघ इव ननाद च ॥ ५।१।३२ ॥
आनुपूर्व्यादिति । आनुपूर्व्यात्क्रमशः वृत्तं वर्तुलं लोमभिश्चितं निबिडं तत्प्रसिद्धं लाङ्गूलमुत्पतिष्यन्सन् पक्षिराज उरगमिव चिक्षेप ॥ ५।१।३३ ॥
तस्येति । आविद्धं प्रवृद्धमतिवेगस्य तस्य हनूमतः पृष्ठतः पश्चाद्भागे विद्यमानं लाङ्गूलं गरुडेन ह्रियमाणो महोरग इव ददृशे ॥ ५।१।३४ ॥
बाहू इति । कपिः बाहू संस्तम्बयामास दृढीचकार । कट्यामाससाद प्राप अतिसंकुचितशरीरो बभूव चेत्यर्थः, चरणौ संचुकोच आचुक्रुञ्च ॥ ५।१।३५ ॥
संहृत्येति । वीर्यवान् स हनूमान् भुजौ संहृत्य अंसप्रदेशे प्रापय्य शिरोधरां ग्रीवां संहृत्य कण्ठदेशे प्रापय्य तेजःप्रभृतीनि आविवेश सस्मार ॥ ५।१।३६ ॥
मार्गमिति । मार्गमालोकयन् आलोकयितुम् ऊर्ध्वं प्रणिहितेक्षणः ऊर्ध्वकृतदृष्टिर्हनूमान् आकाशमवलोकयन् सन् हृदये प्राणान् रुरुधे ॥ ५।१।३७ ॥
पद्भ्यामिति । उत्पतिष्यन् स हनुमान् पद्भ्यां दृढमवस्थानं स्थितिविशेषं कृत्वा कर्णौ निकुच्य संकुच्य वानरान् इदं वचनमब्रवीत् । सार्धश्लोक एकान्वयी ॥ ५।१।३८ ॥
तद्वचनाकारमाह– यथेत्यादिभिः । राघवेण निर्मुक्तः श्वसनविक्रमः पवनवेगः शरः यथा गच्छेत् तद्वत् लङ्कां गमिष्यामि ॥ ५।१।३९ ॥
नहीति । लङ्कायां यदि न पश्यामि तदा अनेनैव वेगेन सुरालयं स्वर्गं गमिष्यामि ॥ ५।१।४० ॥
यदीति । कृतश्रमो ऽहं यदि त्रिदिवे सीतां न द्रक्ष्यामि तदा राक्षसराजानं रावणं बद्धा आनयिष्यामि आनेष्यामि । एतेन बद्धः सन् सीतावृत्तान्तं कथयिष्यत्येवेति सूचितम्, समासान्तबिधेरनित्यत्वाट्टजभावः ॥ ५।१।४१ ॥
तदेव भङ्ग्यन्तरेणाह सर्वथेति । सीतया सीतादर्शनेन सर्वथा कृतकार्यः सो ऽहं ह प्रसिद्धमेष्यामि वा अथवा तद्दर्शनालाभे सरावणां लङ्कामानमिष्यामि आनेष्यामि वा ॥ ५।१।४२ ॥
एवमिति । अविचारयन् उत्पतनं किंचिदपि श्रमजनकमित्यगणयन् हनूमान्वानरान् एवमुक्त्वा उत्पपात । अथ अतः आत्मानं सुपर्णं शोभितपक्षवन्तं पक्षिराजमिव मेने । सार्धश्लोक एकान्वयी ॥ ५।१।४३ ॥
समिति । वेगात्समुत्पतति सति नगरोहिणः शैलस्थतरवः विटपान् स्वशाखाः संहृत्य वेगात्समुत्पेतुः । अर्धद्वयमेकान्वयि ॥ ५।१।४४ ॥
स इति । मत्ताः कोयष्टिका येषु तान् । कोयष्टिकोयष्टिभौ पर्यायौ ॥ ५।१।४५ ॥
ऊर्विति । ऊर्वौर्वेगेन उत्थिता वृक्षा दीर्घमध्वानं प्रस्थितं स्वबन्धुं बान्धवा इव मुहूर्तं कपिमन्वयुः अनुजग्मुः ॥ ५।१।४६ ॥
तमिति । ऊरुवेगोन्मथिता अन्ये केचन पादपाः सैन्याः महीपतिमिव हनूमन्तमनुजग्मुः । सैन्यशब्दो ऽर्धर्चादिः ॥ ५।१।४७ ॥
सुपुष्पितेति । पादपैरन्वितः कपिः अद्भुतदर्शनो बभूव ॥ ५।१।४८ ॥
सारवन्त इति । सारवन्तो गुरुत्ववन्तो ये वृक्षाः ते महेन्द्रस्य भयान् वरुणालये पर्वता इव लवणाम्भसि न्यमज्जन् । सारवन्त इत्यनेन लघूनां परिभ्रमणमेवेति सूचितम् । “सारो बले स्थिरांशे च” इति कोशः ॥ ५।१।४९ ॥
स इति । साङ्कुरकोरकैः अङ्कुरकोरकसहितैः कुसुमैः स्वानुयायितरुसंबन्धिपुष्पैः कीर्णः आकीर्णः कपिः खद्योतैः पर्वत इव शुशुभे । अत्राङ्कुरः कलिकात्वम्, कोरको विकसितत्वम् ॥ ५।१।५० ॥
विमुक्ता इति । तस्य हनुमतो वेगेन विमुक्ता विमोचिता वियोजिता इत्यर्थः, द्रुमाः पुष्पाणि मुक्त्वा सलिले व्यवशीर्यन्त । तत्र दृष्टान्तः निवृत्ताः प्रस्थितं बन्धुमनुपायागताः सुहृदो यथा ॥ ५।१।५१ ॥
लघुत्वेनेति । कपिवायुसमीरितं पुष्पं यतो लघुत्वेनोपपन्नं युक्तं तत् तस्माद्धेतोः विचित्रं साहित्यरहितमित्यर्थः सागर अपतत् ॥ ५।१।५२ ॥
पुष्पौघेणेति । पुष्पैघेण पुष्पसमूहैः विद्युद्गणविभूषितः उद्यन्मेघ इव बभौ ॥ ५।१।५३ ॥
तस्येति । तस्य हनुमतः वेगसमुद्भूतैः वेगेन पतितैः पुष्पैरुपलक्षितं तोयमुदिताभिस्ताराभिरुपलक्षितमम्बरमिव अदृश्यत ॥ ५।१।५४ ॥
तस्येति । अम्बरगतौ प्रसारितौ तस्य हनुमतो बाहु पर्वताग्राद्विनिष्क्रान्तौ विनिर्गतौ पञ्चास्यौ पन्नगाविव ददृशाते ॥ ५।१।५५ ॥
पिबन्निति । महाकपिः हनूमान् सोर्मिजालम् उर्मिसमूहसहितं महार्णवम् आकाशं च पिपासुः पातुमिच्छुरिव ददृशे, ऊर्ध्वसुखत्वे आकाशं पिपासुरिव अधोमुखत्वे महार्णवं पिपासुरिव प्रतीयत इत्यर्थः ॥ ५।१।५६ ॥
तस्येति । वायुमार्गानुसारिणः वायुमार्गेणानुगमनशीलस्य तस्य हनुमतः विद्युत्प्रभाकारे विद्युत्प्रभासदृशप्रभोत्पादके नयने पर्वतस्थौ अनलौ दावानलाविव प्रकाशेते ॥ ५।१।५७ ॥
पिङ्ग इति । पिङ्गाक्षाणां वानराणां मुख्यस्य हनुमतः परि चतुर्दिक्षु मण्डलं प्रभा ययोस्ते चक्षुषी स्थितौ एकत्र विद्यमानौ चन्द्रसूर्याविव संप्रकाशेते ॥ ५।१।५८ ॥
मुखमिति । ताम्रया नासिकया युक्तं ताम्रमरुणं तस्य मुखं संध्यया समभिस्पृष्टं संयुक्तं सूर्यमण्डलं यथा स्यात् तथा आबभौ ॥ ५।१।५९ ॥
लाङ्गूलमिति । समाविद्धम् उन्नतीकृतमुच्छ्रितं शक्रध्वजमिव शोभते ॥ ५।१।६० ॥
लाङ्गूलेति । लाङ्गूलचक्रः चक्राकारलाङ्गूलविशिष्टः शुक्लदंष्ट्रो हनुमान् परिवेषी मण्डलवान् भास्कर इव व्यरोचत ॥ ५।१।६१ ॥
स्फिगिति । अभिताम्रेण अत्यरुणेन स्फिग्देशेन कट्यधोभागेनोपलक्षितः स हनुमान् दारितेन विदारितेन गैरिकधातुनोपलक्षितो गिरिरिव रराज ॥ ५।१।६२ ॥
तस्येति । सागरं प्लवमानस्य तस्य हनुमतः, कच्छान्तरगतः कच्छमध्ये प्राप्तो वायुः जीमूतो मेघ इव गर्जति जगर्ज । जीमूते इति सप्तम्यन्तमिति कतक इति भट्टाः । तत्रारुचिबीजं तु विनिगमनाविरहः ॥ ५।१।६३ ॥
खे इति । उत्तरान्तात् उत्तरोर्ध्वंदिक्प्रदेशाद्विनिःसृता सानुबन्धा पुच्छाकृतितेजोविशेषयुक्ता उल्का यथा खे आकाशे निपतति गच्छति तथा सः लाङ्गूलविशिष्टः कपिकुञ्जरो हनुमान् दृश्यते ॥ ५।१।६४ ॥
पतदिति । व्यायतो ऽतिदीर्घः पतत्पतङ्गसंकाशः प्रचलत्सूर्यसदृशः कपिः सलाङ्गलो हनुमान् बध्यमानया गजशरीरसंबद्धया कक्ष्यया गजबन्धनेनोपलक्षितः प्रवृद्धो महान्मातङ्ग इव शुशुभे ॥ ५।१।६५ ॥
उपरिष्टादिति । उपरिष्टात् उपरि विद्यमानेन शरीरेण सागरे अवगाढया सागरजलसंलग्नया छायया च उपलक्षितः कपिः मारुताविष्टा शीघ्रनिर्गमायोपरिबद्धमारुतावरोधनकर्तृवस्त्रविशेषहेतुकवायुयुक्ता नौरिवासीत् ॥ ५।१।६६ ॥
यं यमिति । स हनूमान् समुद्रस्य यं यं देशं जगाम स देशस्तस्य हनुमतो वेगेन सोन्मादः अपस्मारादिरोगसहित इव लक्ष्यते । आपूर्णन् बहुफेनः अतिशब्दवानभवदित्यर्थः ॥ ५।१।६७ ॥
सागरस्येति । शैलवर्ष्मणां पर्वताकाराणां सागरस्य ऊर्मिजालानाम् उरसा उरोवेगेन अभिघ्नन् सन् महावेगः स हनूमान् पुप्लुवे । ऊर्मिजालानामित्यत्र कर्मणः शेषत्वविवक्षया षष्ठी ॥ ५।१।६८ ॥
कपीति । निर्गतः प्रादुर्भूतः बलवान् कपिवातः प्रचलितकपिशरीरहेतुकवायुः मेघवातः मण्डलप्राप्तो वायुश्च सागरं भृशं कम्पयामासतुः ॥ ५।१।६९ ॥
विकर्षन्निति । बृहन्ति अतिस्थूलानि ऊर्मिजालानि विकर्षन् सहैव नयन् सन् रोदसी द्यावापृथिव्यौ लवणाम्भसि विकिरन् प्रक्षिपन्निव कपिशार्दूलः पुप्लुवे ॥ ५।१।७० ॥
मेर्विति । महावेगो हनूमान् सुमहार्णवे उद्गतान् प्रादुर्भूतान् मेरुमन्दरसंकाशान् तरङ्गान् गणयन् संख्यातान् कुर्वन् इव अत्यक्रामत् निरगच्छत् ॥ ५।१।७१ ॥
तस्येति । तस्य हनुमतो वेगेन समुद्घुष्टम् ऊर्द्धं प्रक्षिप्तम् अत एव सजलदं जलदेन सह स्थितम् अम्बरस्थजलम् आततं विस्तृतं शारदाभ्रमिव विबभ्राजे ॥ ५।१।७२ ॥
तिमीति । वस्त्रापकर्षणेन शरीरिणां मनुष्यादीनां शरीराणीव विवृता जलरूपप्रावरणरहितास्तिम्यादयो दृश्यन्ते ॥ ५।१।७३ ॥
क्रममाणमिति । सागरङ्गमाः भुजगाः व्योम्नि क्रममाणं तं कपिशार्दूलं सुपर्णमिव मेनिरे ॥ ५।१।७४ ॥
दशेति । दशयोजनविस्तीर्णा दशयोजनपरिमितविस्तारविशिष्टा त्रिंशद्योजनमायता दीर्घा वानरसिंहस्य छाया जवे वेगे सति चारुतरा अतिरमणीया अभवत् ॥ ५।१।७५ ॥
श्वेतेति । लवणाम्भसि पतिता वायुपुत्रानुगामिनी तस्य वायुपुत्रस्य छाया श्वेताभ्रघनराजीव श्वेताभ्रासंलग्ना घनराजी मेघपङ्क्तिरिव शुशुभे ॥ ५।१।७६ ॥
शुशुभे इति । महातेजाः स हनूमान् निरालम्बे वायुमार्गे पक्षवान् पर्वत इव शुशुभे ॥ ५।१।७७ ॥
येनेति । येन मार्गेण असौ कपिकुञ्जरो याति तेन मार्गेण अवर्णः सहसा शीघ्रं द्रोणीव कृतः हर्म्यादौ जलनिर्गमनाय काष्ठयन्त्रे इव प्रापित इत्यर्थः ॥ ५।१।७८ ॥
आपात इति । पक्षिसंघानाम् आपाते आपतनमार्गे पक्षिराज इव व्रजन् हनूमान् मेघजालानि प्रकर्षन् सहैव नयन् सन् मारुत इव बभूवेति शेषः ॥ ५।१।७९ ॥
पाण्डुरेति । कपिना आकृष्यमाणानि पाण्डुरत्वादिवर्णविशिष्टानि महाभ्राणि चकाशिरे ॥ ५।१।८० ॥
प्रविशन्निति । अभ्रजालानि प्रवेशादि कुर्वन् अत एव प्रच्छन्नः प्रकाशश्च कपिश्चन्द्रमा इव दृश्यते ॥ ५।१।८१ ॥
प्लवमानमिति । प्लवमानं तं हनुमन्तं दृष्ट्वा देवगन्धर्वदानवाः पुष्पवर्षाणि ववृषुः ॥ ५।१।८२ ॥
ततापेति । सूर्यः रामकार्यार्थसिद्धये प्लवन्तम् अत एव हितं वानरेश्वरं न तपाप तदा वायुः सिषेवे ॥ ५।१।८३ ॥
ऋषय इति । वनौकसमेनं हनूमन्तमृषयस्तुष्टुवुः प्रशंसन्तो देवगन्धर्वाः जगुश्च ॥ ५।१।८४ ॥
नागा इति । विगतक्लमम् अन्यासाध्यव्यापारवत्त्वे ऽपि क्लमरहितं कपिवरं प्रेक्ष्य नागादयस्तुष्टुवुः ॥ ५।१।८५ ॥
तस्मिन्निति । हनूमति प्लवमाने सति इक्ष्वाकुकुलमानार्थी इक्ष्वाकुकुलस्य स्वजन्मकारणीभूतस्य मानं सत्कारमर्थयते तच्छीलः सागरश्चिन्तयामास ॥ ५।१।८६ ॥
तच्चिन्तास्वरूपमाह साहाय्यमिति । हनूमतः साहाय्यं यदि नाहं करिष्यामि तर्हि विवक्षतां कुत्सितजननिन्दां वक्तुमिच्छतां जनानां सर्ववाच्यः सर्वात्मना वक्तव्यः निन्दनीय इत्यर्थः, भविष्यामि ॥ ५।१।८७ ॥
तत्र हेतुं वदन्नाह अहमिति । इक्ष्वाकुनाथेन सगरेणाहं विवर्धितः तत्तस्माद्धेतोः अवसादितुं श्रमं प्राप्तुम् अयम् इक्ष्वाकुसचिवः नार्हति ॥ ५।१।८८ ॥
तथेति । यथा ऽयं कपिः विश्रमेत तथा मया विधातव्यं मयि मद्विहितविश्रान्तिस्थाने विश्रान्तः निवर्तितश्रमः अत एव सुखी स हनुमान् शेषं मार्गम् अतितरिष्यति ॥ ५।१।८९ ॥
इतीति । समुद्रः इति साध्वीं मतिं कृत्वा अम्भसि जले छन्नं हिरण्यनाभं सुवर्णप्रधानं तन्मयमित्यर्थः, मैनाकमुवाच । “नाभिः प्रधाने कस्तूर्याम्” इति कोशः ॥ ५।१।९० ॥
तद्वचनाकारमाह त्वमिति । पातालनिलयानां मार्गनिरोधाय परिघः परिघत्वेन परिकल्पितस्त्वं देवराज्ञा देवराजेन संन्निवेशितः निर्गमबिले संस्थापितः ॥ ५।१।९१ ॥
तदेव भङ्ग्यन्तरेणाह त्वमिति । ज्ञातवीर्याणाम् एषां पुनरप्युत्पतिष्यताम् असुरसंघानां पातालस्य द्वारमावृत्य तिष्ठसि ॥ ५।१।९२ ॥
तिर्यगिति । हे शैल तिर्ययादिषु वर्धितुं ते शक्तिरस्तीति शेषः । तस्मात् त्वां संचोदयामि अतस्त्वमुत्तिष्ठ ॥ ५।१।९३ ॥
तत्प्रयोजनमाह स इति । खमाकाशमाप्लुतः प्राप्तः स प्रसिद्धः एष हनूमान् त्वामुपर्येति तवोपरिदेशं प्राप्नोति अतः प्लवगेन्द्रस्य श्रमं समीक्ष्य उत्थातुमर्हसि । सार्धश्लोक एकान्वयी ॥ ५।१।९४,९५ ॥
हिरण्येति । मैनाकः लवणाम्भसः वचनमिति शेषः, निशम्य श्रुत्वा जलात् तूर्णमुत्पपात ॥ ५।१।९६ ॥
उत्पतनप्रकारमाह स इति । स मैनाकः सागरजलं भित्त्वा अत्युच्छ्रितो बभूव । तत्र दृष्टान्तः जलधरं मेघं भित्त्वा दिवाकरो यथा ॥ ५।१।९७ ॥
स इति । सागरेण नियोजितः स मैनाकः मूहूर्तेन शृङ्गाणि दर्शयामास ॥ ५।१।९८ ॥
शातगुम्भैरिति । सकिंनरमहोरगैः किन्नरमहोरगसहितैः शातकुम्भमयैः सुवर्णप्रचुरैः आदित्योदयसंङ्काशैः आदित्योदयेन प्रकाशमानैः उदयकालिकादित्यसदृशैर्वा अम्बरमुल्लिखद्भिरिव शृङ्गैर्मेनाकः शुशुभे इति शेषः ॥ ५।१।९९ ॥
तस्येति । समुत्थितैः तस्य शृङ्गैः शस्त्रसंकाशं श्यामत्वेन खड्गसदृशमाकाशं काञ्चनप्रभम् अभवत् ॥ ५।१।१०० ॥
जातेति । गिरिसत्तमः स मैनाकः जातरूपमयैः सुवर्णप्रचुरैः अत एव महाप्रभैः अत एव भ्राजमानैः अतिशोभितैः शृङ्गैः स्वशिखरैः आदित्यशतसंकाशो ऽभवत् ॥ ५।१।१०१ ॥
तमिति । असङ्गेन विलम्बराहित्येन लवणतोयस्य मध्ये उत्थितं मैनाकं विघ्नो ऽयमिति निश्चितः निश्चितवान् हनुमानासीदिति शेषः ॥ ५।१।१०२ ॥
स इति । स हनुमान् उच्छ्रितमुत्थितं तं मैनाकं जीमूतं मारुत इव उरसा पातयामास ॥ ५।१।१०३ ॥
स इति । तेन हनुमता आसादितः विद्धः पर्वतोत्तमः स मैनाकः हरैर्हनुमतो वेगं बुद्ध्वा जहर्ष ननाद च ॥ ५।१।१०४ ॥
तमिति । मानुषं रूपं धारयन् आत्मनः शिखरे शृङ्गे स्थितः आकाशे समुपस्थितः प्राप्तः प्रीतः पर्वतो मैनाकः आकाशगतं कपिं तं हनूमन्तं वाक्यमब्रवीत् । सार्धश्लोक एकान्वयी ॥ ५।१।१०५ ॥
तद्वचनाकारमाह दुष्कृतमिति । हे वानरोत्तम त्वमिदं दुष्कृतं कर्म कृतवान् अतः मम शृङ्गेषु निपत्य यथासुखं विश्रम्य गम्यताम् ॥ ५।१।१०६ ॥
ननु कथं तवैतद्बुद्धिर्जातेत्यत आह राघवस्येति । राघवस्य कुले जातैः सगरैरुदधिः परिवर्धितः अतः सागरः सगरपरिवर्धित उदधिः रामहिते युक्तं त्वां प्रत्यर्चयति । तत्र हेतुः कृते उपकृते प्रत्युपकारः कर्तव्यमेष सनातनो धर्मः, सामान्ये नपुंसकम् । सार्धश्लोकः संमिलितान्वयी ॥ ५।१।१०७,१०८ ॥
ननु तेन तव किमित्यत आह स इति । तत्प्रतिकारार्थी तस्योपकृतस्य प्रतिकारं प्रत्युपकारमर्थयते तच्छीलः स सागरः त्वत्तः सन्मानं सत्कारमर्हति अत एव त्वन्निमित्तमनेन सागरेण बहुमानादहं प्रचोदितः त्वद्विश्रमणार्थं प्रेरितो ऽस्मि ॥ ५।१।१०९ ॥
तिष्ठेति । त्वं मयि तिष्ठ विश्रम्य गम्यतां च । अर्धं पृथक् । तदेव भङ्गयन्तेरणाह योजनमिति । योजनानां शतं प्रक्रमितुमिति शेषः । खमाप्लुत एष भवान् मम सानुषु विश्रान्तः सन् शेषमध्वानं प्रक्रमताम् । अर्धद्वयमेकान्वयि ॥ ५।१।११० ॥
तदिति । तदुक्तहेतोः तदुत्तममिदं कन्दमूलफलमास्वाद्य विश्रान्तः सन् गमिष्यासि ॥ ५।१।१११ ॥
अस्माकमिति । हे कपिमुख्य यतः यस्त्वं महागुणानां स्वामिसेवानुकूलानां परिग्रहः परिगृहीता अत एव त्रिषु लोकेषु विख्यातः अतः तेन त्वया सह अस्माकमपि संबन्धो ऽस्ति ॥ ५।१।११२ ॥
वेगवन्त इति । हे मारुतात्मज वेगवन्तः प्लवन्तो ये प्लवङ्गाः तेषां मुख्यतमं त्वामहं मन्ये ॥ ५।१।११३ ॥
त्वं तु ममातीव पूज्य इति बोधयितुमाह अतिथिरिति । धर्मं जिज्ञासमानेन ज्ञातुमिच्छता विजानता च प्राकृतो ऽपि अतिथिः पूजार्हः पूजनीयः, यादृशः प्राकृतविलक्षणो भवान् पूजार्ह इति किं वक्तव्यम् ॥ ५।१।११४ ॥
त्वमिति । मारुतस्य त्वं पुत्रः अत एव वेगेन तस्यैव सदृशो ऽसीति शेषः ॥ ५।१।११५ ॥
पूजित इति । त्वयि पूजिते सति मारुतः पूजां प्राप्नोति तस्मात्त्वं पूजनीय एव । ननु मारुतपूजया तव किमित्यत आह– अत्र मारुतपूजायां कारणं शृणु ॥ ५।१।११६ ॥
कारणमेवाह पूर्वमित्यादिभिः । कृतयुगे पूर्वमुत्पत्तिसमये पर्वताः पक्षिणः पक्षविशिष्टाः अभवन् ते पर्वताः वेगिनो गरुडा इव सर्वा दिशः जग्मुः ॥ ५।१।११७ ॥
तत इति । ततः सर्वदिग्गमनानन्तरम् ऋषिभिः सह देवसंघाः भूतानि अन्ये प्राणिनश्च तेषां पर्वतानां पतनशङ्कया भयं जग्मुः ॥ ५।१।११८ ॥
तत इति । ततः भीतिप्राप्त्यनन्तरं शतक्रतुः ततस्तेषां शतसहस्रशः पर्वतानां पक्षान् चिच्छेद ॥ ५।१।११९ ॥
स इति । सः शातितपक्षो देवराट् क्रुद्धः सन् मामुपागतः प्राप्तः अत एव महात्मना श्वसनेन वायुना क्षिप्तः अत्यूर्ध्वं प्रापितः ततः इन्द्रगमनानन्तरम् अस्मिन् लवणतोये प्रक्षिप्तः अत एव तव पित्रा गुप्तः पक्षसमग्रो यस्य अत एव अभिरक्षितो ऽहमस्मीति शेषः । श्लोकद्वयमेकान्वयि ॥ ५।१।१२०,१२१ ॥
तत इति । ततः उक्तहेतोः त्वया सह मम एष संबन्धः अत एव महागुणस्त्वं मम मान्यो ऽसि अत एव त्वां मानयामि पूजयामि ॥ ५।१।१२२ ॥
अस्मिन्निति । सागरस्य मम च एवमुक्तप्रकारेण कार्ये स्वपितृकर्तृकोपकारे गते ज्ञाते सति प्रीतिमनास्त्वं प्रीतिं कर्तुमर्हसि ॥ ५।१।१२३ ॥
श्रममिति । श्रमं मोक्षय दूरीकुरु पूजां गृहाण च मम प्रीतिं च गृहाण जानीहि अहं तु मान्यस्य तव दर्शनात् प्रीतो ऽस्मि ॥ ५।१।१२४ ॥
एवमिति । एवमुक्तः मैनाकेन प्रार्थितः कपिश्रेष्ठः तमब्रवीत् । तद्वचनाकारमाह त्वया आतिथ्यं कृतं परितोषकवचनेनैव सत्कारः कृत इत्यर्थः, अत एव प्रीतो ऽस्मि अत एव एषः विश्रान्त्यकारणादिजनितो मन्युर्दैन्यमपनीयताम् ॥ ५।१।१२५ ॥
ननु स्थित्यादि किमर्थं न क्रियते इत्यत आह त्वरत इति । मे कालः त्वरते मां त्वरयति यतः अहो दिनमतिवर्तते । एतेन दिन एव लङ्का गन्तव्येति सूचितम् । हेत्वन्तरमाह इह अस्मिन् अन्तरा सागरतरणमध्ये मया न स्थातव्यम् इति प्रतिज्ञा दत्ता कृता, वानरसमीपे इति शेषः ॥ ५।१।१२६ ॥
इतीति । हरिपुंगवः इत्युक्त्वा पाणिना शैलमालभ्य संस्पृश्य आकाशमाविश्य प्रहसन्निव जगाम । इव एवार्थे ॥ ५।१।१२७ ॥
स इति । पर्वतसमुद्राभ्यां बहुमानात्पूजितः अवेक्षितः उपपन्नाभिः योग्याभिः आशीर्भिः अभिनन्दितश्च स हनुमान् दूरमूर्ध्वमाप्लुत्य अत एव शैलमहार्णवौ स्वसत्कारार्थमागतगिरिसागरौ हित्वा पितुर्वायोः पन्थानमासाद्य प्राप्य । अथ जगाम मङ्गलगमनं चकार । श्लोकद्वयमेकान्वयि ॥ ५।१।१२८,१२९ ॥
भूय इति । भूयो ऽधिकाम् ऊर्ध्वगतिं प्राप्य गिरिं तं नराकृतिसमुद्रं च अवलोकयन् निरालम्बः वायुसूनुर्जगाम ॥ ५।१।१३० ॥
तदिति । सुदुष्करम् अन्यैः कर्तुमशक्यं द्वितीयम् । उत्प्लवनापेक्षया द्वित्वसंख्यापूरकं विश्रान्त्यकरणरूपं कर्म दृष्ट्वा सुरादयः प्रशशंसुः ॥ ५।१।१३१ ॥
देवता इति । सुनाभस्य अतिशोभनमध्यभागस्य तस्य मैनाकस्य कर्मणा विश्रान्तदानप्रार्थनादिरूपक्रियया तत्रस्थाः हनुमत्कर्मदर्शनाय तत्र स्थिताः देवता वासवश्च हृष्टा अभवन् ॥ ५।१।१३२ ॥
उवाचेति । परितोषात् हनुमत्परितोषणात् हेतोः शचीपतिः गद्गदं स्खलद्वाग्विशिष्टं वच उवाच ॥ ५।१।१३३ ॥
तद्वचनाकारमाह– हिरण्येति । हे शैलेन्द्र अहं परितुष्टो ऽस्मि अतः ते तुभ्यम् अभयं मत्कर्तृकपक्षच्छेदशङ्काहेतुकभयाभावं प्रयच्छामि ददामि अतः यथासुखं गच्छ विचर ॥ ५।१।१३४ ॥
अभयप्रदाने हेतुमाह– साह्यमिति । निर्भयस्य सुग्रीवादन्यतो भयरहितस्य वानरसमूहस्य भये सुग्रीवाद्भीतौ प्राप्तौ सति योजनशतं क्रमतो गच्छतो विश्रान्तस्य श्रमाभाववतो हनूमतः साह्यं त्वया कृतम् ॥ ५।१।१३५ ॥
रामस्येति । यः कपिः रामस्य हितायैव याति तस्य सत्क्रियां शक्त्या कुर्वता त्वया दृढमत्यन्तं तोषितो ऽस्मि ॥ ५।१।१३६ ॥
स इति । स मैनाकः परितुष्टं शतक्रतुं दृष्ट्वा विपुलं तत्प्रहर्षमलभत् ॥ ५।१।१३७ ॥
स इति । दत्तो वरो यस्मै स शैलः अवस्थितो बभूव, हनूमान् सुमुहूर्तेन सागरं व्यतिचक्राम च ॥ ५।१।१३८ ॥
तत इति । ततः हनुमत्प्लवनसमये नागमातरं सुरसां देवादयो ऽब्रुवन् ॥ ५।१।१३९ ॥
तद्वचनाकारमाह अयमिति । वातात्मजो ऽयं हनुमान् सागरं परिप्लवते तस्य हनुमतः विघ्नं प्लवनविघातं राक्षसं रूपम् आस्थाय कृत्वा नभस्पृशं वक्त्रं मुखं च कृत्वा मुहूर्तमाचर कुरु । श्लोकद्वयमेकान्वयि ॥ ५।१।१४०,१४१ ॥
तत्प्रयोजनमाह– बलमिति । पराक्रमं शत्रुविघातकं भूयो अधिकम् अस्य बलं ज्ञानेन्द्रिययोः सामर्थ्यं ज्ञातुमिच्छामहे । ननु विघ्नाचरणेन तज्ज्ञानं कथं भविष्यतीत्यत आह उपायेन त्वां विजेष्यति विषादं गमिष्यति वा । एतेन विजयविषादाभ्यां क्रमेण बलाबलयोर्ज्ञानं भविष्यत्येवेति सूचितम् ॥ ५।१।१४२ ॥
एवमिति । दैवतैः एवमुक्ता अभिसत्कृता समुद्रमध्ये विद्यमाना सुरसा विकृतं छिन्ननासिकत्वाद्यनेकविकारविशिष्टम् अत एव विरूपं शुभरूपाद्विरुद्धम् अत एव सर्वस्य भयावहं भीतिप्रापकं राक्षसं वपुः बिभ्रती सती प्लवमानं हनूमन्तम् आवृत्य इदमुवाच । श्लोकद्वयमेकान्वयि ॥ ५।१।१४३,१४४ ॥
तद्वचनाकारमाह ममेति । ईश्वरैः मम भक्ष्यः त्वं प्रदिष्टः अतस्त्वां भक्षयिष्यामि अतः ममाननं प्रविश ॥ ५।१।१४५ ॥
ननु अनपराधिनो मम भक्षणं किमर्थमिच्छसीत्यत आह वर इति । एष समागतमात्रभक्षणरूपः वरः धात्रा मम मह्यं पुरा दत्तः इत्युक्त्वेति शेषः, विपुलं विस्तीर्णं मुखं व्यादाय मारुतेः पुरः अग्रे स्थिता बभूवेति शेषः ॥ ५।१।१४६ ॥
एवमिति । सुरसया एवमुक्तः प्रहृष्टवदनो हनूमान् अब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह राम इत्यादिभिः । रामो नाम दाशरथिः लक्ष्मणेन वैदेह्या च सह दण्डकावनं प्रविष्टः । अर्धद्वयमेकान्वयि ॥ ५।१।१४७,१४८ ॥
अन्येति । अन्यकार्यविषक्तस्य देवादिकार्यसाधनाशक्तस्य अत एव राक्षसैर्बद्धवैरस्य तस्य वनं प्रविष्टस्य रामस्य भार्या रावणेन हृता ॥ ५।१।१४९ ॥
तस्या इति । तस्याः सीतायाः सकाशं समीपमहं गमिष्ये अतः रामस्य विषये देशे वस्तुं शीलमस्याः सा त्वं रामस्य साह्यं साहाय्यं कर्तुमर्हसि । एतेन मां न भक्षयेति सूचितम् ॥ ५।१।१५० ॥
पक्षान्तरमाह अथवेति । अथवा भक्षणस्यावश्यकत्वे मैथिलीं रामं च दृष्ट्वा ते वक्रमागमिष्यामि इति ते तवाग्रे सत्यं प्रतिशृणोमि प्रतिजानामि ॥ ५।१।१५१ ॥
एवमिति । हनुमता एवमुक्ता सुरसा मां कश्चित् नातिवर्तेत एषः मम वरः ब्रह्मणा दत्त इति शेषः । एतेन त्वां भक्षयिष्याम्येवेति सूचितम् ॥ ५।१।१५२ ॥
तमिति । प्रयान्तं हनूमन्तं समुद्वीक्ष्य हनूमतो बलं जिज्ञासमाना सुरसा अब्रवीत् ॥ ५।१।१५३ ॥
तद्वचनाकारमाह निविश्येति । एषः मुखप्रवेशनरूपः वरः धात्रा मम दत्तः अतः मे वदनं मुखं निविश्य त्वया गन्तव्यमित्युक्त्वेति शेषः, सत्वरा वेगवती सा सुरसा वक्त्रं व्यादाय मारुतेः पुरः अग्रे स्थिता बभूवेति शेषः । सार्धश्लोक एकान्वयी ॥ ५।१।१५४ ॥
एवमिति । सुरसया एवमुक्तः वानरपुङ्गवो हनुमान् येन यादृशेन मां विसहिष्यसि ग्रसिष्यसि तादृशं वक्त्रं कुरु इत्यब्रवीत् । अर्धद्वयमेकान्वयि ॥ ५।१।१५५ ॥
इतीति । दशयोजनमायतां दशयोजनविस्तृतमुखां सुरसां हनूमान् इत्युक्त्वा दशयोजनविस्तारो ऽभवत् । तदा तस्मिन्काले दशयोजनमायतं मेघसंकाशं तं हनूमन्तं दृष्ट्वा सुरसा ऽपि विंशद्योजनमायतम् आस्यं मुखं चकार । ततः सुरसाया विंशद्योजनविस्तृतमुखदर्शनानन्तरं क्रुद्धो हनुमांस्तु त्रिंशद्योजनमायतो बभूवेति शेषः । सार्धश्लोकद्वयमेकान्वयि ॥ ५।१।१५६१५८ ॥
चकारेति । सुरसा तथा तेन प्रकारेण चत्वारिंशदुच्छ्रितं चत्वारिंशद्योजनपरिमितं वक्त्रं चकार । हनूमांस्तु पञ्चाशद्योजनोच्छ्रितो बभूव ॥ ५।१।१५९ ॥
चकारेति । सुरसा षष्टिं योजनमुच्छ्रितं चकार । तदेव हनूमान् सप्ततिं योजनोच्छ्रितो बभूवेति शेषः ॥ ५।१।१६० ॥
चकारेति । अशीतिं योजनोच्छ्रितं सुरसा चकार । हनूमान् नवतिं योजनोच्छ्रितः । अशीतिमित्यस्य नवतिमित्यस्य च बहिर्भूतत्वे ऽप्यन्वय आर्षः ॥ ५।१।१६१ ॥
चकारेति । सुरसा शतयोजनमायतं चकार । तस्मिन् मुहूर्ते जीमूतो मेघ इव हनुमान् अङ्गुष्ठमात्रको बभूव । सार्धश्लोक एकान्वयी ॥ ५।१।१६२ ॥
स इति । अङ्गुष्ठमात्रकशरीरो हनुमान् तद्वक्त्रं सुरसामुखमभिपद्य प्राप्य निष्पत्य वक्त्रान्निर्गम्य च अन्तरिक्षे स्थितः सन् इदमब्रवीत् । अर्धद्वयमेकान्वयि ॥ ५।१।१६३ ॥
तद्वचनाकारमाह प्रविष्ट इति । हे दाक्षायणि ते वक्त्रमहं प्रविष्टो ऽस्मि अतः तव वरः सत्य आसीत् अतः यत्र वैदेही तत्र गमिष्ये ते नमो ऽस्तु ॥ ५।१।१६४ ॥
तमिति । राहुमुखात् चन्द्रमिव वदनान्मुक्तं तं दृष्ट्वा स्वेन रूपेणोपलक्षिता सुरसा वानरमब्रवीत् ॥ ५।१।१६५ ॥
तद्वचनाकारमाह अर्थेति । यथासुखं गच्छ राघवेण सह वैदेहीं समानय संगमयस्व ॥ ५।१।१६६ ॥
तदिति । तत् पूर्वोक्तकर्मद्वयात् तृतीयं कर्म सुरसामुखान्निर्गमक्रियां दृष्ट्वा हरिं हनूमन्तं साधु साध्विति प्रशशंसुः ॥ ५।१।१६७ ॥
स इति । स हनूमाननाधृष्यं वरुणालयं सागरं तत्समीपम् अभ्येत्य प्राप्य आकाशमाविश्य जगाम ॥ ५।१।१६८ ॥
मार्गं वर्णयन्नाह सेवित इत्यादिभिः । वारिधाराभिः सेविते युक्ते पतगैः पक्षिविशेषैः निषेविते कैशिकानां गाननृत्यादिविद्यानामाचार्यैस्तुम्बुरादिगन्धर्वैश्च चरिते ऐरावतैः ऋजुदीर्घेन्द्रचार्पैर्गजविशेषैर्वा निषेविते ॥ ५।१।१६९ ॥
संपतद्भिर्गच्छद्भिः सिंहादिभिः समलंकृते ॥ ५।१।१७० ॥
वज्राशनिसमः स्पर्शो येषां तैः पावकैः पञ्चाग्निभिरिव स्वर्गजिद्भिः अधिष्ठिते अत एव शोभिते ॥ ५।१।१७१ ॥
अत्यन्तं हव्यं वहता चित्रभानुना वह्निविशेषेण सेविते ॥ ५।१।१७२ ॥
विविक्ते विलक्षणे विश्वे जगदाश्रयीभूते विशाले वा ॥ ५।१।१७३ ॥
जीवलोकस्य विताने वितानसदृशे ॥ ५।१।१७४ ॥
वायुमार्गे मारुतिर्हनुमान् गरुत्मान् गरुड इव जगाम । सप्तकमेकान्वयि ॥ ५।१।१७५ ॥
हनूमानिति । हनूमान् मेघजालानि मारुत इव प्राकर्षत् अत एव महाभ्राणि चकाशिरे ॥ ५।१।१७६ ॥
प्रविशन्निति । अभ्रजालानि पुनः पुनः प्रविशन्निष्पतंश्च सन् हनूमान् प्रावृषि प्रावृट्कालिकमेघ इन्दुरिवाभाति ॥ ५।१।१७७ ॥
प्रदृश्यमान इति । सर्वत्र सर्वैः प्रदृश्यमानो हनूमान् निरालम्बमम्बरं पक्षयुक्तो ऽद्रिराडिव भेजे ॥ ५।१।१७८ ॥
प्लवमान इति । प्लवमानं तं हनूमन्तं दृष्ट्वा प्रवृद्धा बलादिना ऽतिवृद्धिं प्राप्ता सिंहिका नाम राक्षसी चिन्तयामास ॥ ५।१।१७९ ॥
चिन्ताप्रकारमाह अद्येति । इदं महासत्त्वं चिरस्य बहुकालात् मम वशमागतम् अतः दीर्घस्य कालस्य बहुकालपर्यन्तम् आशिता कृतभोजना ऽहं भविष्यामि ॥ ५।१।१८० ॥
इतीति । इति संचिन्त्य अस्य हनूमतः छायां समाक्षिपत् अगृह्णात् छायायां गृह्यमाणायां वानरश्चिन्तयामास ॥ ५।१।१८१ ॥
चिन्ताप्रकारमाह समिति । प्रतिलोमेन विपरीतेन वातेन सागरे महानौरिव समाक्षिप्तः केनचित् गृहीतो ऽहं सहसा पङ्गूकृतपराक्रमो ऽस्मि ॥ ५।१।१८२ ॥
तिर्यगिति । तिर्यगादौ वीक्षमाणः कपिः लवणाम्भसि महासत्त्वं ददर्श ॥ ५।१।१८३ ॥
तामिति । विकृताननां तां सिंहिकां दृष्ट्वा चिन्तयामास । अर्धं पृथक् ॥ ५।१।१८४ ॥
चिन्ताप्रकारमाह कपीति । अद्भुतदर्शनं छायाग्राहि सत्त्वं प्राणी कपिराज्ञा यथा यथावत् आख्यातं तदिदमेव अत्र संशयो न । समासान्तविधेरनित्यत्वाट्टजभावः ॥ ५।१।१८५ ॥
स इति । अर्थतत्त्वेन अर्थस्य सुग्रीवोपदिष्टच्छायाग्रहणरूपवस्तुनः तत्त्वेन याथार्थ्येन तां सिंहिकां बुद्वा प्रावृषि बलाहको मेघ इव स हनूमान् व्यवर्धत ॥ ५।१।१८६ ॥
तस्येति । महाकपेः वर्धमानं कायमुद्वीक्ष्य सा सिंहिका पातालाम्बरसंनिभं पातालाम्बरयोरन्तरालतुल्यं वक्त्रं प्रसारयामास ॥ ५।१।१८७ ॥
घनेति । घनराजी मेघपङ्क्तिरिव गर्जती सिंहिका वानरं समभिद्रवत्, आगमशास्त्रस्यानित्यत्वादडभावः । ततो ऽनन्तरं कायमात्रं सिंहिकाशरीरपरिमितं सुमहत् स्वग्रसनयोग्यमित्यर्थः, तस्याः मुखं मर्माणि भेदनाय मर्मस्थलानि च स हनूमान् ददर्श । सार्धश्लोक एकान्वयी ॥ ५।१।१८८ ॥
स इति । स हनूमान् तस्याः सिंहिकायाः वक्त्रे आत्मानं स्वशरीरं संक्षिप्य सूक्ष्मं कृत्वा निपपात ॥ ५।१।१८९ ॥
अस्य इति । राहुणा ग्रस्यमानं पूर्णचन्द्रमिव तस्या आस्ये मुखे निमज्जन्तं हनूमन्तं सिद्धचारणा ददृशुः ॥ ५।१।१९० ॥
तत इति । ततः प्रवेशानन्तरं मनस्संपातवत् मनोगमनवत् विक्रमो गमनं यस्य स हनूमान् तीक्ष्णैर्नखैस्तस्या मर्माणि उत्कृत्य शैथिल्यसंपादनार्थं किंचित् भित्त्वा उत्पपात मुखद्वारा तच्छरीरान्निर्जगाम ॥ ५।१।१९१ ॥
तामिति । दिष्ट्या देवादीनां भाग्योदयेन धृत्या स्वधैर्येण च दाक्षिण्येन अतिनिपुणतया च तां सिंहिकां निपात्य शैथिल्यप्रापणपूर्वकं पातयित्वा आत्मवान् अतिप्रयत्नवान् कपिप्रवीरः स हनुमान् पुनर्ववृधे ॥ ५।१।१९२ ॥
हृतेति । हनुमता हृतं विवेकराहित्यं प्रापितं हृत् हृदयं यस्याः सा अत एव विधुरा गर्वेभ्यो वियुक्ता सा सिंहिका अम्भसि सागरजले पपात । तत्र हेतुः तस्या निपातने स्वयंभुवा ब्रह्मणा हनुमान् एव सृष्टः निर्मितः ॥ ५।१।१९३ ॥
तामिति । सिंहिकां हतां ताडितां वीक्ष्य आकाशचारीणि भूतानि तं हनूमन्तमूचुः ॥ ५।१।१९४ ॥
तद्वचनाकारमाह भीममिति । भीमं भयङ्करं सत्वं यत्त्वया हतं गर्वविध्वंसपूर्वकं ताडितं तन्महत्कर्म कृतम् । अतः अभिप्रेतमिच्छाविषयीभूतमर्थम् अरिष्टं निर्बाधं यथा भवति तथा साधय । अत्र सिंहिकायाः प्राणवियोगपरत्वेन व्याख्यानं हेयमेव परमधर्मज्ञहनुमतो ऽत्र स्त्रीप्राणावियोगकर्तृत्वस्यासंभवात् अत एव सुरसावधाभावः सङ्गच्छते । अत एव वक्ष्यमाणलङ्काकर्मकप्रहारसमये स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृत इत्युक्तिः संगच्छते । अत एव न सन्दर्भाशुद्धिरिति दिक् ॥ ५।१।१९५ ॥
यस्येति । यथा तव एतानि धृत्यादीनि चत्वारि सन्ति तथा यस्य सन्ति स कर्मसु क्रियासु न सीदति न दुःखं प्राप्नोति ॥ ५।१।१९६ ॥
स इति । पूज्यः सर्वेषां पूजनीयः अत एव तैः आकाशचारिभिः संपूजितः अत एव प्रतिपन्नं निश्चितं प्रयोजनं सीतादर्शनं येन, प्रतिपन्नं सिद्धं यस्येति वा स हनूमान् पन्नगाशनवत् आकाशमाविश्य जगाम ॥ ५।१।१९७ ॥
प्राप्तेति । प्राप्तः भूयिष्ठो बहुः पारो येन स हनूमान् योजनानां शतस्यान्ते विद्यमानां वनराजीं ददर्श ॥ ५।१।१९८ ॥
ददर्शेति । शाखामृगश्रेष्ठो हनूमान् पतन् गच्छन् सन्नेव विविधद्रुमभूषितं द्वीपं मलयोपवनानि च सागरं च सागरस्य अनूपान् देशांश्च सागरस्य पत्नीनां नदीनां मुखानि सङ्गमस्थलानि विलोकयन् सन् ददर्श । अर्धचतुष्टयमेकान्वयि ॥ ५।१।१९९,२०० ॥
स इति । स हनूमान् आकाशं निरुन्धन्तमिव महामेघसंकाशम् आत्मानं स्वदेहं समीक्ष्य मतिं चिन्तां चकार ॥ ५।१।२०१ ॥
चिन्तास्वरूपमाह कायेति । मम कायवृद्धिं प्रवेगं च दृष्ट्वैव मयि कौतूहलम् आश्चर्यं कुर्युरिति महामतिर्हनुमान् मेने ॥ ५।१।२०२ ॥
तत इति । ततो विचारानन्तरं महीधरसंनिभं शरीरं संक्षिप्य अल्पत्वं प्रापय्य प्रकृतिं स्वाकृतिं पुनरापेदे । तत्र दृष्टान्तः वीतमोहः विगतरागः आत्मवान् योगी शरीरं संक्षिप्य तिरस्कृत्य प्रकृतिं नित्यानन्दस्वभावमिव ॥ ५।१।२०३ ॥
तदेव भङ्यन्तरेणाह तदिति । तत्प्रवृद्धं रूपम् अतिसंक्षिप्य त्रीन् क्रमान् लोकान् विक्रम्य परिमाय बलिवीर्यहरः बलेर्वीर्यस्य ध्वंसकः हरिर्वामन इव प्रकृतौ स्थितः ॥ ५।१।२०४ ॥
स इति । चारुनानाविधरूपधारी तत्तत्स्वरूपः समीक्षितः ज्ञातः आत्मा अन्वेषणयत्नो येन अत एव समवेक्षितः निश्चितः अर्थः सीताप्राप्तिर्येन स महाभ्रकूटप्रतिमः महामेघसमूहसदृशो महात्मा हनूमान् परैरशक्यं तरितुमिति शेषः, परं समुद्रतीरं समासाद्य प्राप्य ततः समुद्रतीरात् लम्बस्य लम्बाभिधस्य गिरेः समृद्धे फलपुष्पादिभिः प्रवृद्धे सकेतकोद्दालकनारिकेले केतकादिसहिते विचित्रकूटे विचित्राणि कूटानि शिखराणि यस्मिंस्तस्मिन् कूटे प्रधानशिखरे निपपात । श्लोकद्वयमेकान्वयि ॥ ५।१।२०५,२०६ ॥
तत इति । समुद्रतीरं समुद्रतीरवर्तिनीं गिरिवर्यमूर्ध्नि विद्यमानां लङ्कां समीक्ष्य अवलोक्य संप्राप्य मनसा गत्वा रूपं स्वदेहं विधूय तिरोधाय कपिर्हनूमान् तस्मिन् गिरिवर्याभिधे पर्वते मृगद्विजान् मृगपक्षिणः व्यथयन् सन् ततः लम्बगिरिपर्वतात् निपपात ॥ ५।१।२०७ ॥
उपसंहरन्नाह स इति । दानवपन्नगैः आयुतं व्याप्तं सागरं निष्क्रम्य उल्लङ्ग्य महोदधेस्तीरे निपत्य संप्राप्य अमरावतीमिव विद्यमानां लङ्कां ददर्श ॥ ५।१।२०८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे प्रथमः सर्गः ॥ ५।१ ॥