प्रहर्षणप्रकारमाह तमित्यादिभिः । शतयोजनं शतयोजनपरिमितं समुद्रं क्रमितुमुल्लङ्घितुं जृम्भमाणं वर्धमानमित्यर्थः । वेगेनापूर्यमाणं तं प्रसिद्धं महाबलं हनूमन्तं दृष्ट्वा शोकमुत्सृज्य प्रहर्षेण समन्विता वानराः विनेदुः तुष्ठुवुश्च । श्लोकद्वयमेकान्वयि ॥ ४।६७।१,२ ॥
प्रहृष्टा इति । ते वानराः कृतोत्साहं त्रिलोकविक्रमणविषयकोत्साहविशिष्टं नारायणं प्रजा इव समन्ततो वीक्ष्यन्ते हनूमन्तमिति शेषः ॥ ४।६७।३ ॥
संस्तूयमान इति । संस्तूयमानो वानरैरिति शेषः । हनूमान् लाङ्गूलं हर्षात् समाविध्य प्रस्तार्य बलं स्वमहापराक्रममुपेयिवान् सस्मार ॥ ४।६७।४ ॥
तस्येति । तेजसा आपूर्यमाणस्य चर्यमानस्य तस्य हनुमतो रूपं स्वरूपमनुत्तममत्युत्तममासीत् ॥ ४।६७।५ ॥
यथेति । विवृते विस्तीर्णे गिरिगह्वरे यथा सिंहो विजृम्भते गात्रविनामं करोति तथा मारुतस्यौरसः पुत्रः संप्रति जृम्भते ॥ ४।६७।६ ॥
अशोभतेति । तस्य हनूमतः विधूमः पावक इव दीप्तं मुखम् अम्बरीपोपमं सूर्यसदृशं यथा भवति तथा अशोभत । अम्बरीषशब्दार्थस्तु अम्बरिणामाकाशवतां नक्षत्रगणानामीषः तेजसा पराभूतत्वं यस्मादिति अम्बरिणः सर्वलेकान् आकाशचारिणो वा ईषति स्वतेजसा प्राप्नोतीति वा ॥ ४।६७।७ ॥
हरीणामिति । हरीणां मध्यात् उत्थितो हनूमान् हरीन् अभिवाद्य प्रणम्येदमब्रवीत् ॥ ४।६७।८ ॥
अरुजन्निति । पर्वताग्राणि अरुजन् अन्यः विदारयन् न निलीयते इत्यनिलः नित्य इत्यर्थः, यो वाः तस्यौरसः पुत्रो ऽहं प्लवनेन धर्मेण तत्समो ऽस्मि । श्लोकद्वयमेकान्वयि ॥ ४।६७।९,१० ॥
उत्सहेयमिति । अम्बरमाकाशमालिखनमिव विस्तीर्णं सहस्रशो मेरुम् असङ्गेन विश्रमाय किंचित्स्पर्शराहित्येन परिगन्तुं लङ्घयितुम् उत्सहेयम् ॥ ४।६७।११ ॥
बाह्विति । बाहुवेगेन प्रणुन्नेन चालितेन सागरेण लोकं समाप्लावयितुमहमुत्सहे ॥ ४।६७।१२ ॥
ममेति । समुत्थिता महाग्राहाः यस्मिन् स समुद्रः ममोरुजङ्घवेगेन समुत्थितः त्यक्तमर्यादो भविष्यति ॥ ४।६७।१३ ॥
पन्नगेति । पक्षिसेविते आकाशे पतन्तं पन्नगाशनं पन्नगभक्षकं वैनतेयं सहस्रशो वारं परिगन्तुं शक्तो ऽहमस्मीति शेषः, यावत्कालेन यावद्देशं तेनैकवारमुत्पत्यते तावत्कालेन तावद्देशं सहस्रशो वारमुत्पतितुं समर्थो ऽस्मीत्यर्थः ॥ ४।६७।१४ ॥
उदयादिति । हे प्लवगर्षभाः महता प्रवेगेनोपलक्षितो ऽहमुदयात् उदयाचलात्प्रस्थितं रश्मिमालिनं ज्वलन्तं मध्याह्नवर्तिनमित्यर्थः, आदित्यं गन्तुं गत्वा स्प्रष्टुं समुत्सहे ततः स्पर्शानन्तरं भूमिमागत्येत्ति शेषः, असंस्पृष्ट्वा विश्रमार्थं भूमिस्पर्शमलब्ध्वा अनस्तमितं श्रमाभाववत् यथा भवति तथा आदित्यमागन्तुं प्राप्नुमुत्सहे । सविशेषणमादित्यमुभयान्वयि । श्लोकद्वयमेकान्वयि ॥ ४।६७।१५,१६ ॥
उत्सहेयमिति । आकाशगोचरान् अतिक्रान्तुमित्सहे । सागरान् शोषयिष्यामि शोषयितुमुत्सहे शोषणपूर्वकोत्साहो धात्वर्थः । एवमुत्तरत्रापि तत्तद्धात्वर्थपूर्वक उत्साहो ऽर्थः । अत एव न शोषादिप्रतिज्ञावाक्यत्वमेतस्य ॥ ४।६७।१७ ॥
पर्वतानिति । उरुवेगेन महार्णवं प्लवमानो ऽहं हरिष्यामि पारं प्राप्स्यामि ॥ ४।६७।१८ ॥
लतानामिति । लतादीनां पुष्पं विहायसा आकाशेन प्लवमानं मामनुयास्यति प्राप्स्यति पुष्पादीनि ग्रहीष्यामीत्यर्थः, अत एव अम्बरे आकाशे मम पन्थाः स्वातेः पन्थाः छायापथ एव भविष्यति गृहीतफलपुष्पादीनां छायापथगतनक्षत्रगणतुल्यतया उपमानोपमेयभावः । सार्धश्लोक एकान्वयी ॥ ४।६७।१९ ॥
चरन्तमिति । हे वानराः । आकाशं चरन्तं प्रस्थितवन्तम् उत्पतिष्यन्तम् उर्ध्वं गच्छन्तं निपतन्तं समुद्रपारदेशं प्राप्नुवन्तं मां सर्वभूतानि द्रक्ष्यन्ति । अर्धद्वयमेकान्वयि ॥ ४।६७।२० ॥
महेति । अम्बरमाकाशं ग्रसमानमिव मां द्रक्ष्यध्वं द्रक्ष्यध्वे ॥ ४।६७।२१ ॥
विधमिष्यामीति । सागरं शोषयिष्यामि ॥ ४।६७।२२ ॥
वैनतेयस्येति । शक्तिः प्लवनसामर्थ्यं वैनतेयादित्रयस्यैव अतः सुपर्णराजानं मारुतं वा ऋते विना प्लुतं मां यत्प्राणिमात्रमनुव्रजेत् तद्भूतमुत्पन्नं न प्रपश्यामि । सार्धश्लोक एकान्वयी ॥ ४।६७।२३,२४ ॥
निमेषेति । निरालम्बनं शून्यमम्बरं घनात् उत्थिता विद्युदिव निमेषान्तरमात्रेण निपतिष्यामि व्याप्स्यामीत्यर्थः ॥ ४।६७।२५ ॥
भविष्यतीति । तदा बलिराज्यप्राप्तिसमये त्रीन् विक्रमान् लोकान् प्रक्रममाणस्य विष्णोः रूपमिव मे रूपं भविष्यति ॥ ४।६७।२६ ॥
बुद्ध्येति । अहं वैदेहीं द्रक्ष्यामि इति बुद्ध्यानिश्चयात्मकान्तःकरणवृत्त्याहं प्रपश्यामि निश्चिनोमि । तत्र हेतुः– तथा निश्चयजनिका मे मनश्चेष्टा मनसो ऽतीवप्रसादो ऽस्तीत्यर्थः, अतः प्रमोदध्वम् ॥ ४।६७।२७ ॥
मारुतस्येति । योजनानामयुतमहं गमिष्यामि इति मे मतिर्निश्चयः ॥ ४।६७।२८ ॥
वासवस्येति । वासवादेः हस्तात् तत्प्रसिद्धममृतमिह आनये आनयनसमर्थो ऽस्मि ॥ ४।६७।२९ ॥
लङ्कां समुत्क्षिष्यामि गच्छेयमिति मे मतिर्निश्चयः । अर्धं पृथक् तमिति । तत्र तस्मिन्समये प्रहृष्टाः हरयस्तं हनूमन्तं विस्मिताः सन्तः समुदैक्षन्त ॥ ४।६७।३० ॥
तदिति । अस्य हनुमतो वचनं श्रुत्वा जाम्बवान् उवाच ॥ ४।६७।३१ ॥
तद्वचनाकारमाह वीरेति । हे वी ज्ञातीनामस्माकं शोकस्त्वया प्रणाशितः ॥ ४।६७।३२ ॥
तवेति । कल्याणरुचयः कल्याणसंपादकशोभाविशिष्टाः समाहिताः एकाग्रचित्ताः समागताः कपिमुख्यास्तव अर्थसिद्ध्यर्थं मङ्गलानि करिष्यन्ति ॥ ४।६७।३३ ॥
ऋषीणामिति । ऋष्यादिप्रसादादिना त्वं महार्णवं प्लव ॥ ४।६७।३४ ॥
स्थास्याम इति । त्वद्गतानि गमनानि वनौकसां जीवनानि अतः यावत्तवागमनं तावत् एकपादेन स्थास्यामः ॥ ४।६७।३५ ॥
तत इति । ततः जाम्बवद्वचनश्रवणानन्तरं हरिशार्दूलो हनुमान् वनौकस उवाच । तद्वचनाकारमाह प्लवने सति मे वेगं को ऽपि न धारयिष्यति निवारयितुं समर्थो न भविष्यतीत्यर्थः ॥ ४।६७।३६ ॥
एतानीति । धातुनिष्पन्दशोभिषु धातुसमूहशोभावत्सु येषु महेन्द्रशिखरेषु अहं गमिष्यामि तानि एतानि शिलासंकटशालिनः शिलासमूहविशिष्टस्य अस्य नगस्य महेन्द्रस्य गिरेः महान्ति शिखराणि स्थिराणि पुष्टाणि अतः इतः प्लवतो मम वेगमेतानि शिखरानि धारयिष्यन्ति । अर्धषट्कमेकान्वयि ॥ ४।६७।३७३९ ॥
तत इति । मारुतप्रख्यः पवनसदृशो ऽरिमर्दनो हनूमान् पुष्पैर्वृतं सलिलोत्पीडैर्निर्झरैः संकुलं व्याप्तं नगश्रेष्ठं महेन्द्रमारुरोह । अर्धषट्कमेकान्वयि ॥ ४।६७।४०४२ ॥
महद्भिरिति । उच्छ्रितः उर्ध्वं प्राप्तो हनूमान् महेन्द्रस्य शृङ्गैर्विचचार । शृङ्गेष्वेवोत्प्लुत्योप्लुत्य गच्छतीत्यर्थः ॥ ५।६७।४३ ॥
बाहुभ्यामिति । महात्मना तेन हनुमता बाहुभ्यां पीडितो महाशैलः सिंहाभिहतो मत्तो द्विपो गज इव ररास अतिभीतस्ववर्तिसिंहादिनादेन नादितो ऽभूदित्यर्थः ॥ ४।६७।४४ ॥
मुमोचेति । विप्रकीर्णाः प्रक्षिप्ताः शिलोच्चयाः पाषाणसमूहा यस्य स महेन्द्राचलः सलिलोत्पीडान् निर्झरान् मुमोच निर्झरा द्रुतं पेतुरित्यर्थः ॥ ४।६७।४५ ॥
नागेति । पानसंसर्गेण मादकरससंबन्धेन कर्कशैः उत्कटचित्तैः गन्धर्वमिथुनैः विहङ्गैश्च विद्याधरगणैश्च त्यज्यमानो महासानुर्यस्य सः शैलशृङ्गशिलानामुत्पातः पतनं यस्मात् स महागिरिरभूत् । अर्धचतुष्यमेकान्वयि ॥ ४।६७।४६,४७ ॥
निश्वसद्भिरिति । तदा तस्मिन् काले धरणीधरः स महेन्द्रः निश्वसद्भिः भीत्या निश्वासं प्राप्नुवद्भिः अत एव अर्धनिस्सृतैः कथमिदं जातमिति दर्शनाय निस्सारितोर्ध्वभागैः भुजगैः सपताकः पताकाभिः सहित इव आभाति ॥ ४।६७।४८ ॥
ऋषिभिरिति । त्राससंभ्रान्तैः त्रासहेतुभिरुद्विग्नैः ऋषिभिस्त्यज्यमानः शिश्लोच्चयः पर्वतः महति कान्तारे सार्थहीनो ऽध्वग इव सीदन्नास्त इति शेषः ॥ ४।६७।४९ ॥
स इति । वेगे समाहितः दृढीकृतः आत्मा मनो यस्य स वेगवान् महानुभावः अतिप्रभावविशिष्टो हनूमान् मनः समाधाय लङ्कां मनसा जगाम प्राप ॥ ४।६७।५० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ ४।६७ ॥
रामानुग्रहजन्येयं किष्किन्धाविवृत्तिः परा ।
समाप्तिमगमत् श्रीमान् रामायणशिरोमणिः ॥
इति श्रीवाल्मीकिरामायणे विवृतित्रयसनाथं किष्किन्धाकाण्डं समाप्तम् ।