हनुमन्तं प्रति जाम्बवतो वचनमेवाह अनेकेत्यादिभिः । अनेकशतसाहस्रीं हरिवाहिनीं वानरसेनामेवं विषण्णां दुःखितां जाम्बवान् समुदीक्ष्य दृष्ट्वा हनूमन्तमथ मङ्गलमब्रवीत् ॥ ४।६६।१ ॥
तद्वचनाकारमाह वीरेत्यादिभिः । हे वीर हनूमन् एकान्तमाश्रित्य तूष्णीं स्थित इति शेषः । वानरलोकस्य कल्याणं किं किमर्थं त्वं न जल्पसि कल्याणमित्यध्याहृतम् ॥ ४।६६।२ ॥
नन्वहं न तद्योग्य इत्यत आह हनुमन्निति । हे हनुमन् त्वं तेज आदिना सुग्रीवादीनां समः सदृशो ऽसि ॥ ४।६६।३ ॥
अरिष्टनेमिन इति । गरुत्मान् इति विख्यातः सर्वपक्षिणामुत्तमः महाबलः अतिबलवान् महाबलः स्वपक्षाभ्यां त्रिलोक्या आच्छादनसमर्थः पक्षी सागरे भुजङ्गान् महासर्पान् उद्धरन् बहुशो ऽनेकवारं यो वैनतेयो मया दृष्टः तस्य पक्षयोर्यद्बलं तत् तव भुजवीर्यबलं भुजवीर्यबलसदृशं, तेन हेतुना ते विक्रमस्तेजश्च न अपहीयते केनापि दूरीक्रियते । श्लोकत्रयमेकान्वयि ॥ ४।६६।४६ ॥
बलमिति । सर्वभूतेषु सर्वजनबलादिषु मध्ये तव बलादि विशिष्टमधिकमस्तीति शेषः, अतः आत्मानं स्वस्वरूपं किं किमर्थं न सज्जसे स्मरसि ॥ ४।६६।७ ॥
ननु कथं ममैवं बलादिप्राप्तिरित्यत आह अप्सरा इत्यादिभिः । विख्याता प्रसिद्धा अप्सरसां श्रेष्ठा या पुञ्जिकस्थला अप्सरा सा अञ्जनेति परिख्याता सती केसरिणो हरेर्वानरस्य पत्नी अभवदिति शेषः । अप्सरा अप्सरसामित्यत्रैकत्वं संहिता चात एव निर्देशात् ॥ ४।६६।८ ॥
ननु अप्सरःश्रेष्ठा वानरस्य पत्नी कथमभवदित्यत आह विख्यातेति । रूपेण अप्रतिमा असदृशी अप्सरः श्रेष्ठा अभिशापात् शापवशात् कपित्वे कपिजातौ जाता ऽपीति शेषः, कामरूपिणी कथंचित् तदृषिप्रसादवशात् कामरूपधारणसमर्था अभूत् ॥ ४।६६।९ ॥
दुहितेति । कुञ्जरस्य तदभिधस्य वानरेन्द्रस्य दुहिता विचित्रमाल्याभरणा क्षौमधारिणी पट्टवस्त्रविशेषधारणशीला अञ्जना कदाचित्कस्मिंश्चित्समये प्रावृडम्बुदसंन्निभे प्रावृट्कालिकमेघसदृशे पर्वतस्याग्रे मानुषं विग्रहं देहं कृत्वा अचरत् । श्लोकद्वयमेकान्वयि ॥ ४।६६।१०,११ ॥
तस्या इति । पर्वतस्याग्रे स्थितायास्तस्याः अञ्जनायाः पीतरक्तदशं पीतरक्ताः दशाः प्रान्तभागा यस्य तत् वस्त्रं मारुतः शनैरपाहरत् स्थानादचालयत् ॥ ४।६६।१२ ॥
स इति । सः चालितवस्त्रः पवनः वृत्तौ सुसंहतौ अत्यन्तं संश्लिष्टौ तस्याः ऊरू सहितौ परस्परसंलग्नौ पीनौ स्तनौ च सुजातमाननं मुखं च ददर्श ॥ ४।६६।१३ ॥
तामिति । आयतश्रोणीं दीर्घश्रोणीविशिष्टां तामञ्जनां बलात् दृष्ट्वैव पवनः काममोहितो ऽभवदिति शेषः ॥ ४।६६।१४ ॥
स इति । मन्मथेन आविष्टं सर्वमङ्गं यस्य अत एव गतः अञ्जनायां संसक्तः आत्मा मनो यस्य स पवनः अनिन्दितां तामञ्जनां भुजाभ्यां पर्यष्वजत ॥ ४।६६।१५ ॥
सेति । तत्र तस्मिन्समये सुवृत्ता शोभनवृत्तविशिष्टा अत एव संभ्रान्ता दुष्कृतकर्मणा उद्विग्नचित्ता सा आञ्जना इदं प्रसिद्धमेकपत्नीव्रतम् एकः पतिर्यस्याः तस्याः मम व्रतं पुरुषान्तरासंस्पर्शनरूपसंकल्पं नाशयितुं विध्वंसितुं क इच्छतीति वाक्यमब्रवीत् ॥ ४।६६।१६ ॥
अञ्जनाया इति । मारुतः प्रत्यभाषत । तद्वचनाकारमाह हे सुश्रोणि त्वामहं न हिंसामि हिनस्मि अधर्माश्रयत्वेन हिंसितप्रायां न करोमीत्यर्थः, अतस्ते मनसो भयं मा भूत् ॥ ४।६६।१७ ॥
तत्र गमकमाह मनसेति । यद्यस्मात् त्वां परिष्वज्य मनसा गतः भोगकर्तृत्वेन प्राप्तः अतः वीर्यवान् बुद्धिसंपन्नः निखिलवृत्तान्तज्ञस्तव पुत्रो भविष्यति । मनसेत्युक्त्या व्रतभङ्गाभावो ध्वनितः ॥ ४।६६।१८ ॥
महेति । महासत्त्वादिविशिष्टस्तव सुतः लङ्घनादौ मया समो भविष्यति ॥ ४।६६।१९ ॥
एवमिति । एवमुक्त्वा अत एव तुष्टा ते जननी गुहायां त्वां प्रजज्ञे जनयामास ॥ ४।६६।२० ॥
अभ्युत्थितमिति । ततः उत्पत्त्यनन्तरं महावने अभ्युत्थितं प्रकाशितं सूर्यं दृष्ट्वा फलमिदमिति बुद्ध्या जिघृक्षुर्बालस्त्वम् उत्पत्य उत्प्लुत्य दिवम् अभ्युत्थितो गतः ॥ ४।६६।२१ ॥
शतानीति । अथानन्तरं योजनानां शतानि त्रीणि “अङ्खानां वामतो गतिः” इति न्यायेन शताधिकत्रिसहस्राणि गत्वा तस्य सूर्यस्य तेजसा निर्धूतः आक्रान्तो ऽपि त्वं विषादं खेदं न गतः । शतानि त्रीणि इत्यस्य त्रिशतपरत्वेन व्याख्याने तु बहुयोजनसाहस्राम् इत्युत्तरकाण्डे वक्ष्यमाणं विरुध्येत । अनेकशतयोजनानाम् उपलक्षणमिति भूषणोक्तिस्तु न युक्ता त्रीणि इत्यस्य वैयर्थ्यापत्तेः ॥ ४।६६।२२ ॥
तत्रेति । तत्र तेजोनिर्धूतत्वे ऽपि तूर्णं शीघ्रं त्वमन्तरिक्षमुपगतः अत एव कोपविष्टेन चेतसा उपलक्षितेन इन्द्रेण ते तुभ्यं वज्रं क्षिप्तम् ॥ ४।६६।२३ ॥
तदेति । तदा वज्रसंयोगसमये वामो हनुः तव वक्रौकदेशः अभज्यत ततस्तस्माद्धेतोः ते नामथेयं हनुमान् इति कीर्तितम् ॥ ४।६६।२४ ॥
तत इति । ततो ऽनन्तरं त्वां निहतं दृष्ट्वा भृशसंक्रुद्धः प्रभञ्जनो वायुः त्रैलोक्ये न ववौ चचाल, स्वशक्तीः समाकृष्य एकत्रैव तस्थावित्यर्थः ॥ ४।६६।२५ ॥
संभ्रान्ता इति । त्रैलोक्ये क्षुभिते वायुसंचाराभावात् क्षोभं प्राप्ते सति भुवनेश्वराः ब्रह्मप्रभृतयः संक्रुद्धं मारुतं प्रसादयन्ति प्रासादयन्त ॥ ४।६६।२६ ॥
प्रसादिति इति । पवने प्रसादिते सति समरे अशस्त्रवध्यतां शस्त्रवध्यत्वाभावं वरं ब्रह्मा तुभ्यं ददौ ॥ ४।६६।२७ ॥
वज्रस्येति । वज्रस्य निपातेनापि विरुजं रुजारहितं त्वां समीक्ष्य प्रीतात्मा सहस्रनेत्रः तव मरणं स्वच्छन्दतः स्वाधीनतया स्यात् इत्युत्तमं वरं ददौ । सार्धः श्लोक एकान्वयी ॥ ४।६६।२८ ॥
स इति । त्वं केसरिणः क्षेत्रजः पुत्रः मारुतस्य औरसः पुत्रः अत एव तेजसा अपिना पराक्रमादिना च तत्समः वायुसदृशो ऽसीति शेषः । अर्धद्वयमेकान्वयि ॥ ४।६६।२९ ॥
त्वमिति । दाक्ष्यविक्रमसंपन्नः अत एव अपरः कपिराजः सुग्रीव इव वायुसुतस्त्वं प्लवने अपिना पराक्रमादौ च तत्समो ऽसीति शेषः, वयं तु अद्य गतप्राणाः अतः सांप्रतमिदानीं नो ऽस्मान् भवान् त्रातु । सार्धश्लोक एकान्वयी ॥ ४।६६।३०,३१ ॥
ननु त्वमपि विख्यातपौरुषो ऽसीति मामेव किमर्थं प्रोत्साहयसीत्यत आह त्रिविक्रम इति । त्रिविक्रमे त्रिषु लोकेषु विक्रमे वामनचरणगमने सति सशैलवनकानना पृथिवी त्रिलोकीभूमिः त्रिःसप्तकृत्वः एकविंशतिवारं प्रदक्षिणं परिक्रान्ता तदा परिक्रमणसमये याभिः अमृतं निष्पन्नं ताः ओषधयः देवशासनात् संचिताः तदा नो ऽस्माकं महद्बलमासीत् । श्लोकद्वयमेकान्वयि ॥ ४।६६।३२,३३ ॥
स इति । सः प्रसिद्धबलो ऽहमिदानीं वृद्धः अत एव परिहीनपराक्रमो ऽस्मीति शेषः, अत एव सांप्रतं कालमस्मिन् समये अस्माकं मध्ये भवानेव सर्वगुणान्वितः अस्तीति शेषः ॥ ४।६६।३४ ॥
तदिति । विक्रान्तः अतिविक्रमविशिष्टः अत एव प्लवतामुत्तमः यतस्त्वमसि तत्तस्मात् विजृम्यस्व उत्प्लवस्व हि यतः वानरवाहिनी त्वद्वीर्यं द्रष्टुकामा ऽस्तीति शेषः । एतेन पूर्वं स्वस्वपराक्रमाणां न्यूनतया वर्णनं त्वत्पराक्रमदर्शनार्थमेवेति ध्वनितम् ॥ ४।६६।३५ ॥
उत्तिष्ठेति । हे हरिशार्दूल त्वमुत्तिष्ठ महार्णवं लङ्घयस्व च हि यतः तव गतिः समुद्रमुत्प्लुत्य गमनं सर्वभूतानां परा रक्षिका ॥ ४।६६।३६ ॥
विषण्णा इति । ये हरयो विषण्णाः तान् किं किमर्थमुपेक्षसे उपेक्षणं न युक्तमित्यर्थः, अतः त्रीन्विक्रमान् कर्ता विष्णुरिव त्वं विक्रमस्व ॥ ४।६६।३७ ॥
तत इति । ततो ऽनन्तरं कपीनामृषभेण जाम्बवता चोदितः प्रेरितः अत एव प्रतीतवेगः स्मृतस्ववेगादिः हनूमान् हरिवाहिनीं प्रहर्षयन् सन् आत्मनो महद्विशालं रूपं चकार ॥ ४।६६।३८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ४।६६ ॥