०६५ वानरैः सागरोल्लङ्घनभयम्

अङ्गदवचनश्रवणानन्तरकालिकं वानरकर्तृकस्वस्वपराक्रमवचनमुपक्रमते अथेति । अङ्गदवचः श्रुत्वा गजादयः सर्वे वानरर्षभाः गतौ गमने स्वस्वं समुत्साहं यथाक्रममूचुः । श्लोकद्वयमेकान्वयि ॥ ४।६५।१,२ ॥

गमनोक्तिक्रममाह आबभाष इत्यादिभिः । तत्र तेषु वानरेषु मध्ये दशयोजनं प्लवेयमेकवारोत्प्लुत्यादशयोजनं स्वभावतो गच्छामीत्यर्थः । गजः तन्नामा आबभाषे एवमुत्तरेष्वप्यर्थो बोध्यः ॥ ४।६५।३ ॥

योजनानां विंशतिं गमिष्यामीति गवाक्ष आह । शरभ इति । त्रिंशतं गमिष्यामीति शरभ आह त्रिंशतमित्यार्षमिति भट्टाः ॥ ४।६५।४ ॥

ऋषभ इति । ऋषभः चत्वारिंशत् उवाच ॥ ४।६५।५ ॥

वानरानिति । गन्धमादनः पञ्चाशत् अब्रवीत् ॥ ४।६५।६ ॥

मैन्द इति । मैन्दः षष्टिमाह ॥ ४।६५।७ ॥

तत इति । द्विविदः सप्ततिं प्रत्यभाषत ॥ ४।६५।८ ॥

सुषेण इति । सुषेणः “अशीतिं प्रतिजाने” इति प्रत्यभाषतेत्यनुकर्षः ॥ ४।६५।९ ॥

तेषामिति । कथयतां तेषां मध्ये वृद्धतमः जाम्बवान् तान् कथयतः सर्वान् अनुमान्य सत्कृत्य प्रत्यभाषत ॥ ४।६५।१० ॥

तत्प्रतिभाषणप्रकारमाह पूर्वमिति । येषामस्माकं कश्चित् यत्किंचित् परिमितः गतिपराक्रमः पूर्वमासीत् ते वयं वयसः पारं वृद्धत्वमित्यर्थः, अनुप्राप्ताः । एतेन इदानीं गतिपराक्रमस्य अल्पत्वं सूचितम् ॥ ४।६५।११ ॥

किमिति । एवमनेन प्रकारेण गते वयसि व्यतीते ऽपि यदर्थमुद्दिश्य कपिराजो रामश्च कृतनिश्चयौ तत्कार्यमुपेक्षितुमनादर्तुं न शक्यम् ॥ ४।६५।१२ ॥

सांप्रतमिति । सांप्रतं कालं संप्रतिकाले या गतिः गमनसामर्थ्यं तां निबोधत । बोध्यमेवाह योजनानां नवतिं गमिष्यामि ॥ ४।६५।१३ ॥

तानिति । तान् उक्तस्वगमनपरिमाणान् हरिश्रेष्ठान् जाम्बवानिदमब्रवीत् । तद्वचनाकारमाह गमने मे पराक्रमः एतावदेव नासीत् अधिक आसीत्, इत्यर्थः ॥ ४।६५।१४ ॥

तदाधिक्यमेवाह मयेति । पूर्वं वैरोचने विरोचनसुतानुष्ठिते यज्ञे त्रिविक्रमं शीघ्रं त्रिलोकीगमनवत् यथा भवति तथा क्रममाणः वर्धमानचरणेन सह गच्छन् प्रभविष्णुः सर्वत्र व्याप्तः सनातनो विष्णुः मया प्रदक्षिणीकृतः, एतेन स्वस्याप्रतिहतगमनवत्त्वं सूचितम् ॥ ४।६५।१५ ॥

स इति । यस्य मे अप्रतिमम् उपमारहितं तद्बलमासीत् सो ऽहमिदानीं वृद्धः अत एव प्लवने मन्दविक्रमो ऽस्मीति शेषः ॥ ४।६५।१६ ॥

संप्रतीति । संप्रति अस्मिन् काले स्वतो गमने एतावत्पूर्वोक्तमेव शक्यं सामर्थ्यमस्तीति शेषः, अतः एतावता अस्य सीतादर्शनरूपस्य कार्यस्य सिद्धिर्न भविष्यति ॥ ४।६५।१७ ॥

अथेति । अथानन्तरमुदारार्थं विपुलार्थकम् उत्तरं श्रेष्ठमिदं वचः महाकपिं जाम्बवन्तमनुमान्य अङ्गदो ऽब्रवीत् । ऋक्षाणामपि कपिजातिविशेषात् न सामानाधिकरण्यविरोधः । आकपिं कपिमभिव्याप्य महः पूजा यस्येत्यर्थो वा महांश्चासौ अकपिः कपिसदृशः ऋक्ष इत्यर्थः, तमिति वा ॥ ४।६५।१८ ॥

तद्वचनाकारमाह अहमिति । एतत्सागरसंबन्धि योजनानां शतमहं महत्प्रशंसनीयं यथा भवति तथा गमिष्यामि निवर्तने तु मे शक्तिः स्यात् न वा इति न निश्चितम् । एतेन स्वकर्तृकराक्षसकर्मकजये संशयो ध्वनितः समुद्रान्तरेषु मध्ये मध्ये गिरिद्वीपानां सत्त्वात् एतादृशभयङ्करराक्षसैरासेवितत्वाच्च नान्यदिग्गतवानराणामेवं विचार इत्यूह्यम् । किंचेदं स्वस्य वीर्याणां न्यूनत्वेन वर्णनं हनुमत्पराक्रमदर्शनविषयकोत्कटेच्छया बोध्यम् । अत एव “त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी” इति वक्ष्यमाणजाम्बवद्वाक्यं सानुकूलम् ॥ ४।६५।१९ ॥

तमिति । वाक्यकोविदो जाम्बवान् तमङ्गदमुवाच । तद्वचनाकारमाह हे हर्यृक्षसत्तम तव गमने शक्तिर्ज्ञायते अस्माभिरिति शेषः ॥ ४।६५।२० ॥

ज्ञानमेवाह काममिति । योजनानां शतसहस्रं शतं सहस्रं वा गन्तुं प्रतिनिवर्तितुं च कामं यथेच्छं भवान् शक्तः तथापि एषः भवन्मात्रोत्प्लवः विधिर्न उच्यते अस्माभिरिति शेषः ॥ ४।६५।२१ ॥

विध्यभावमेव द्योतयन्नाह नहीति । हे तात प्रेषयिता प्रेषणशीलः स्वामी प्रेष्यः कथंचन न अतः सर्वो ऽयं जन एव भवता प्रेष्यः ॥ ४।६५।२२ ॥

भवानिति । स्वामिभावे स्वामित्वे व्यवस्थितो भवान् अस्माकं कलत्रं रक्ष्यः किंच कं सुखं लाति ददाति तदेव त्रं रक्षाकर्तृं सुखदाता त्राता चेत्यथः, सामान्ये नपुंसकम् । एवं सैन्यस्य स्वामी सेनाधीशः कलत्रम् अर्थद्वयं पूर्ववत् । एषा गतिः महतां पन्थाः ॥ ४।६५।२३ ॥

अपीति । एतस्य सीतान्वेषणरूपस्य कार्यस्य भवानेव मूलं तस्माद्धेतोः भवान् कलत्रवत् सदा प्रतिपाल्यः । किंच कलत्रयोः सुखदानत्राणयोर्वत् स्थैर्यं यस्मिन् तत्संबोधनम् । वन्ध्यावद्बवयोरैक्यम् ॥ ४।६५।२४ ॥

मूलरक्षणं शिष्टा? प्रमाणयति मूलमिति । मूले द्रव्यादौ सति फलोदयाः प्रमोदादिफलप्रापकाः सर्वे गुणाः रूपादयः सिध्यन्ति अतः अर्थस्य कार्यस्य मूलं रक्ष्यमेषः कार्यविदां नयः नीतिः ॥ ४।६५।२५ ॥

निगमयति तदिति । बुद्धिविक्रमसंपन्नो गुर्वादिर्भवान् अस्य कार्यस्य साधनं साधयिता अत एव हेतुरस्तीति शेषः, अत एव भवन्तमाश्रित्य अर्थसाधने वयं समर्थाः । श्लोकद्वयमेकान्वयि ॥ ४।६५।२६,२७ ॥

उक्तेति । जाम्बवन्तमुत्तरं वाक्यमङ्गद उवाच ॥ ४।६५।२८ ॥

तद्वचनाकारमाह यदीति । यदि अहं न गमिष्यामि अन्यो वा नरपुङ्गवो वा न गमिष्यति तर्हि अस्माभिः पुनः प्रायोपवेशनं कार्यम् ॥ ४।६५।२९ ॥

तत्र हेतुमाह नहीति । हरिपतेः सुग्रीवस्य संदेशमकृत्वा असंसाध्य तत्र सुग्रीवसमीपे गत्वा प्राणानां परिरक्षणं न पश्ये पश्यामि ॥ ४।६५।३० ॥

तदेव भङ्ग्यन्तरेणाह स इति । हरिः सुग्रीवः प्रसादे कोपे च ईश्वरः समर्थः तस्य संदेशमतीत्य अकृत्वा गमने सति विनाशो भवेत् ॥ ४।६५।३१ ॥

तदिति । तत् तस्मात् हेतोः अस्य सीतादर्शनरूपस्य कार्यस्य अन्यथा असिद्धिर्यथा न भवति तथा दृष्टार्थः विज्ञातसकलपदार्थः अत एव गतिराश्रयो भवानेव तत् कर्तव्यं संचिन्तयितुमर्हति ॥ ४।६५।३२ ॥

स इति । अङ्गदेन प्रत्युक्तो जाम्बवान् अङ्गदं प्रोवाच ॥ ४।६५।३३ ॥

तद्वचनाकारमाह तस्येति । यस्ते कार्यं साधयिष्यति तमेनं हनुमन्तमेषो ऽहं संचोदयामि अतस्ते कार्यस्य किंचित् अङ्गं न परिहास्यते गमिष्यति नङ्क्ष्यतीत्यर्थः ॥ ४।६५।३४ ॥

तत इति । प्रतीतमतिविश्वस्तं प्लवतां वरिष्ठं हनुमन्तं हरिवीरो जाम्बवान् संचोदयामास ॥ ४।६५।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥ ४।६५ ॥