०६४ वानरैः सागरतीरगमनम्

वानराणां वृत्तान्तमाह आख्याता इत्यादिभिः । गृध्रराजेन आख्याताः उक्तसीतावृत्तान्ताः अत एव प्रीतिसंयुक्ताः सङ्गताः संघीभूताः प्लवङ्गमाः समुत्प्लुत्य विनेदुः हर्षसूचकस्वजातीयशब्दं चक्रुः ॥ ४।६४।१ ॥

सम्पातेरिति । रावणस्य क्षयं विनाशगृहोभयविशिष्टं संपातेर्वचनं श्रुत्वा सीतादर्शनकाङ्क्षिणो हरयः सागरमाजग्मुः ॥ ४।६४।२ ॥

अभीति । तत्प्रसिद्धं देशं समुद्रतीरमभिगम्य महतो लोकस्यालोककारणीभूतस्य सूर्यचन्द्रादेः कृत्स्नं प्रतिबिम्बं यत्रावस्थितमेव तं समुद्रं भीमविक्रमाः वानराः ददृशुः इव एवार्थे ॥ ४।६४।३ ॥

दक्षिणस्येति । दक्षिणस्य समुद्रस्य उत्तरां दिशमासाद्य प्राप्य ततस्तत्र संनिवेशमुपवेशनस्थानं हरिवीराः चक्रुः ॥ ४।६४।४ ॥

प्रसुप्तमिति । क्वचित्तरङ्गाभावस्थले प्रसुप्तं निश्चलत्वात् प्रसुप्तसदृशम् अन्यत्र अल्पतरङ्गस्थले क्रीडन्तमिव क्वचिन्महातरङ्गस्थलं पर्वतमात्रैः गिरिपरिमितैः जलराशिभिरावृतं दानवेन्द्रैः संकुलम् अत एव रोमहर्षकरं सागरमिति शेषः, कपिकुञ्जराः दृष्ट्वा विषेदुः विषादं प्रापुः । श्लोकद्वयमेकान्वयि ॥ ४।६४।५,६ ॥

आकाशमिति । वानराः आकाशमिव दुष्पारं दानवेन्द्रादिरूपविघ्नवत्त्वेन तरितुमशक्यं सागरं प्रेक्ष्य विषेदुः कार्यं सीतान्वेषणं कथं सिध्येदिति शेषः, इति ब्रुवन् अब्रुवंश्च ॥ ४।६४।७ ॥

विषण्णामिति । वाहिनीं वानरसेनां सागरस्य निरीक्षणात् विषण्णां दृष्ट्वा भयार्तान् हरीन् यूथपांश्च हरिसत्तमो ऽङ्गद आश्वासयामास ॥ ४।६४।८ ॥

आश्वासनप्रकारमाह नेति । विषादः दोषवत्तरः अतिदोषवान् भवतीति शेषः, अत एव बालं क्रुद्धमुरग इव विषादः पुरुषं हन्ति अतः विषादे मनो न कार्यम् ॥ ४।६४।९ ॥

य इति । विक्रमे पराक्रमसमये यो विषादं प्रसहते आश्रयते तेजसा हीनस्य तस्य पुरुषार्थो न सिध्यति ॥ ४।६४।१० ॥

तस्यामिति । रात्र्यां व्यतीतायां सत्यां हरिवृद्धैर्वानरैः सह अङ्गदः समागम्य मन्त्रं सर्वसंमतिम् अमन्त्रयत् अकरोत् ॥ ४।६४।११ ॥

सेति । वासवमिन्द्रं परिवार्यं मरुतां देवानां स्थितः वाहिनी सेनेव वानराणां ध्वजिनी सेना अङ्गदं परिवार्य बभौ ॥ ४।६४।१२ ॥

क इति । वालितनयात् अन्यत्र अन्यः हनूमतश्चान्यत्रान्यः को ऽन्यस्तां विविधरचनया संस्थितां वानरीं सेनां स्तम्भयितुं शक्तः समर्थो न भवेत् ॥ ४।६४।१३ ॥

संमतिकरणप्रकारं वर्णयन्नाह तत इति । ततः ससैन्यसर्ववानरसङ्गमनानन्तरं हरिवृद्धान् तत्सैन्यं च अनुमान्य सत्कृत्य अर्थवद्वाक्यम् अङ्गदो ऽब्रवीत् ॥ ४।६४।१४ ॥

तद्वचनाकारमाह क इत्यादिभिः । को महातेजाः सागरं लङ्घयिष्यति, अत एव सुग्रीवं सत्यसंधं करिष्यति ॥ ४।६४।१५ ॥

तदेव भङ्ग्यन्तरेणाह क इति । कः प्लवङ्गमः योजनशतं सागरं लङ्घयेत्, अत एव इमान् यूथपान् महाभयात् राजभीतेः को मोचयेत् ॥ ४।६४।१६ ॥

कस्येति । कस्य प्रसादात् कृपातः सिद्धार्थाः प्राप्तसीतादर्शनाः अत एव सुखिनः वयम् इतो निवृत्ताः सन्तः दारादीन् पश्येम ॥ ४।६४।१७ ॥

कस्येति । कस्य प्रसादात् रामादीन् अभिगच्छेम ॥ ४।६४।१८ ॥

यदीति । सागरप्लवने वो युष्माकं मध्ये यदि कश्चित्समर्थः तर्हि अभयदक्षिणां ददातु सागरं तरिष्यामीति वदत्वित्यर्थः ॥ ४।६४।१९ ॥

अङ्गदस्येति । अङ्गदस्य वचः श्रुत्वा कश्चिद्वानरः किंचिन्नाब्रवीत्, अत एव सर्वा हरिवाहिनी सेना स्तिमिता निश्चलैवाभवत् । इव एवार्थे ॥ ४।६४।२० ॥

पुनरिति । हरिसत्तमो ऽङ्गदः हरीन् पुनः प्राह । तद्वचनाकारमाह सर्वे भवन्तः दृढः पराभवितुमशक्यः विक्रमो येषाम् अत एव बलवतां श्रेष्ठाः अत एव पूजिताः सर्वैः सत्कृताः व्यपदेश्यकुले जाताः कलङ्करहितवंशे उत्पन्नाः यूयं स्थेति शेषः, अत एव वो युष्माकं मध्ये कस्यचित् कदाचिदपि गमने सङ्गः प्रतिबन्धो न भवेत्, अतः हे प्लवगर्षभाः यस्य वानरस्य या शक्तिस्तां ब्रुवध्वं ब्रूध्वम् । सार्धश्लोकद्वयमेकान्वयि ॥ ४।६४।२१,२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ४।६४ ॥