मुनिकर्तृकोपदेशानन्तरकालिकं वृत्तान्तमाह एतैरित्यादिभिः । वाक्यविशारदो मुनिः एतैरुक्तैः रामकार्यसाधकैः अन्यैश्चैतदुपयोगिभिर्बहुभिर्वाक्यैर्मां प्रशस्य सत्कारपूर्वकमुक्त्वा अनुज्ञाप्य वृत्तान्तं बोधयितुं नियुज्य च स्वमालयमाश्रमं प्रविष्टो ऽभवदिति शेषः ॥ ४।६३।१ ॥
कन्दरादिति । पर्वतस्य कन्दरात् शनैः शनैर्विसर्पित्वा विसर्प्य निर्गत्य विन्ध्यशृङ्गं समारुह्य भवतः दिव्यलोकं प्राप्तस्य मुनेः प्रतिपालये वचनामिति शेषः ॥ ४।६३।२ ॥
अद्यत्व इति । अद्यत्वे अस्मिन् काले तस्य मुन्युपदिष्टकालस्य साग्रशतं किंचिदधिकशतसंख्याकं वर्षं गतम् अहं तु मुनेर्वचो हृदि कृत्वा देशकालप्रतीक्षो ऽस्मि । अत्र पूर्वोक्तानुरोधेन शतशब्दस्य अनन्तवाचकत्वं स्वीकृत्य किंचिदधिकाष्टवर्षसहस्राणीति भट्टैर्व्याख्यातम् ॥ ४।६३।३ ॥
महेति । महाप्रस्थानं पुनरावृत्तिरहितयात्रामासाद्य प्राप्य निशाकरे स्वर्गते सति बहुभिरनेकविधैः वितर्कैः रामकार्यसाधनविषयकविचारैर्वृतं मां संतापो मुनिवियोगजनतखेदो दहति ॥ ४।६३।४ ॥
उदितामिति । मरणे उदितां उत्थितां बुद्धिं मुनिवाक्यैः निवर्तये । अर्धं पृथक् । बुद्धिरिति । मम प्राणानां रक्षणे रक्षणार्थं मुनिना या बुद्धिर्मे मह्यं दत्ता सा तमोन्धकारदीप्ताग्निशिखेव मे दुःखमपनयते दूरीकरोति । अर्धद्वयमेकान्वयि ॥ ४।६३।५ ॥
बुध्यतेति । रावणस्य वीर्यं बुध्यता मया मैथिली त्वया कथं न त्रातेत्यादिभिर्वाग्भिः पुत्रो मया संतर्जितः । एतेन स्वपुत्रबलापेक्षया रावणबलस्याल्पत्वं व्यञ्जितम्, तेन भवद्भिर्न भेतव्यमिति सूचितम् ॥ ४।६३।६ ॥
स्वपश्चात्तापमाह तस्या इति । तस्याः सीताया विलपितं श्रुत्वा तौ रामलक्ष्मणौ सीतावियोजितौ श्रुत्वा सिद्धानां वचनादवगत्य मे दशरथस्नेहात् दशरथस्नेहं संस्मृत्य पुत्रेण मे प्रियं मैथिलीत्राणजनितप्रीतिः नोत्पादितमिति संतपामीति शेषः ॥ ४।६३।७ ॥
तस्येति । तदा तद्वचनकथनावसरे वनचारिणां समक्षं संहतैः संघीभूतैर्वा ऽमरैः सह एवं ब्रुवाणस्य संपातेः पक्षौ उत्पेततुः आरुरुहतुः ॥ ४।६३।८ ॥
स इति । अरुणच्छदैः आरुण्यावृतै रक्तैरित्यर्थः, उद्गतैः पक्षैः उपलक्षितां स्वां तनुं दृष्ट्वा अतुलं प्रहर्षं लेभे वानरान् अब्रवीच्च ॥ ४।६३।९ ॥
तद्वचनाकारमाह निशाकरस्येति । निशाकरस्य प्रसादात् दग्धौ पक्षौ पुनरुपस्थितौ यौवने वर्तमानस्य मम यः पराक्रम आसीत् तं बलं पौरुषं च अवगच्छामि प्राप्नोमि । अर्धचतुष्टयमेकान्वयि ॥ ४।६३।१०,११ ॥
सर्वथेति । अयं मम पक्षलाभः वो युष्माकं सिद्धिप्रत्ययकारकः सिद्धिविषयकविश्वाससंपादकः अतः सर्वथा यत्नः क्रियतां सीतामधिगमिष्यथ ॥ ४।६३।१२ ॥
इतीति । संपातिरिति हरीन् वानरानुक्त्वा खगमः पक्षिणो गतिं पूर्ववद्गमनं जिज्ञासुः सन् गिरेः शृङ्गात् उत्पपात उडुड्ये ॥ ४।६३।१३ ॥
तस्येति । तस्य संपातेः तद्वचनं श्रुत्वा प्रतिसंहृष्टमानसाः हरिशार्दूलाः विक्रमाभ्युदयोन्मुखाः विक्रमकारणीभूताभ्युदयविशिष्टाः बभूवुः ॥ ४।६३।१४ ॥
अथेति । प्रतिलब्धपौरुषाः सीतावृत्तान्तश्रवणेन प्राप्तस्वस्वबलाः पवनसमानविक्रमा वायुवेगाः अत एव जनकसुतापरिमार्गणोन्मुखाः प्लवङ्गवराः अभिजित् रामकर्तृकसर्वराक्षसविजयः अभिमुखः संमुखं प्रचलितो यां तां दक्षिणां दिशं ययुः ॥ ४।६३।१५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ४।६३ ॥