०६२ सम्पातिना स्वकथानिरूपणम्

संपातिवृत्तान्तनिवेदनान्तरकालिकं वृत्तान्तमाह एवमित्यादिभिः । मुनिश्रेष्ठमेवमुक्त्वा भृशदुःखितो ऽहमरुदम् । अथ मद्रोदनदर्शनानन्तरं मुहूर्तं ध्यात्वा भगवान् अतिसमर्थो मुनिरिदमब्रवीत् ॥ ४।६२।१ ॥

तद्वचनाकारमाह पक्षाविति । प्रपक्षौ तवात्यन्तस्वीकारविषयौ अन्यौ पक्षौ चक्षुषी च भविष्यतः प्राणादयश्च भविष्यन्ति भविष्यत इत्यस्य वचनविपरिणामेनान्यत्राप्यन्वयः ॥ ४।६२।२ ॥

तत्र गमकमाह पुराण इति । भविष्यं भविष्यत्कालिकं सुमहत् अत्यधिकं कार्यं मया श्रुतं श्रुत्वा च विदितं निश्चितं तपसा तपोबलेन दृष्टं साक्षात्कृतम् ॥ ४।६२।३ ॥

ननु किं तन्महत्कार्यमित्यत आह राजेत्यादिभिः । दशरथो नाम कश्चिद्राजा भविष्यति तस्य पुत्रः रामो भविष्यति ॥ ४।६२।४ ॥

अरण्यमिति । सत्यपराक्रमो रामः तस्मिन् वनगमनरूपे अर्थे नियुक्तः सन् अरण्यं गमिष्यति ॥ ४।६२।५ ॥

नैऋ़त इति । नैऋ़तो निऋ़तिकुलोद्भवः सुरदानवैरवध्यः रावणो नाम राक्षसेन्द्रः तस्य रामस्य भार्यां हरिष्यति ॥ ४।६२।६ ॥

सेति । कामैः अन्येच्छाविषयभूतैः भक्ष्यैर्भोज्यैश्च प्रलोभ्यन्ती रावणेन प्रलोभ्यमाना दुःखमग्रा सा रामभार्या न भोक्ष्यति भोक्ष्यते ॥ ४।६२।७ ॥

परमेति । वासव इन्द्रः ज्ञात्वा रावणदत्तं वैदेहीं न भुङ्क्ते इति विज्ञाय सुराणामपि यद्दुर्लभम् अमृतप्रख्यं यदन्नं तत्परमान्नं पायसं वैदेह्याः वैदेह्यै दास्यति ॥ ४।६२।८ ॥

तदिति । तत् इन्द्रप्रेषितमन्नं मैथिली प्राप्य इदमिन्द्रादागतमिति विज्ञाय अग्रम् अग्रभागमुद्धृत्य रामाय रामं तर्पयितुं भूतले निर्वपिष्यति दास्यति ॥ ४।६२।९ ॥

दानमन्त्रमाह यदीति । मे भर्ता लक्ष्मणश्च यदि जीवति इहैव प्राणधारणानुकूलव्यापारं करोति तर्हि इहैव तयोः इदमन्नं प्राप्नुयादिति शेषः, देवत्वं नित्यविहारवत्साकेतं गच्छतोर्वा इदमन्नं प्राप्नुयात् ॥ ४।६२।१० ॥

एष्यन्तीति । विहङ्गम हे संपाते प्रेषिताः रामदूताः प्लवङ्गमाः एष्यन्ति अतः तेभ्यः राममहिषी त्वया आख्येया बोधितव्या तत्र तस्मिन्काले त्वं स्वपक्षौ प्रतिपत्स्यसे प्राप्स्यसि अतः देशकालौ प्रतीक्षस्व ईदृशः पक्षादिहीनस्त्वं क्व गमिष्यसि ते गमनयोग्यो देशो नास्तीत्यर्थः । अतः सर्वथा त्वया न गन्तव्यम् । श्लोकद्वयमेकान्वयि ॥ ४।६२।११,१२ ॥

उत्सहेयमिति । यद्यपि त्वां सपक्षकं कर्तुम् अद्यैव उत्सहेयं तथापि न करोमीति शेषः । तत्र हेतुः इहस्थस्त्वं लोकानां हितं सीतावृत्तान्तबोधनरूपं कार्यं करिष्यसि । एतेन पक्षप्राप्तौ तव निश्चला स्थितिर्न भवितेति सूचितम् ॥ ४।६२।१३ ॥

त्वयेति । नृपपुत्रादीनां तत् हितं त्वया ऽपि कार्यं तेन संपातेः परमसज्जनत्वं सूचितम् ॥ ४।६२।१४ ॥

रामदर्शनस्य दुर्लभत्वं बोधयन्नाह इच्छामीति । रामलक्ष्मणौ द्रष्टुं यद्यप्यहमपीच्छामि तथापि प्राणान् चिरं धारयितुं नेच्छे अतः कलेवरं त्यक्ष्ये । दृष्टे साक्षात्कृते तत्त्वार्थदर्शने ब्रह्मवेदौ येन स महर्षिः एवमब्रवीत् । सार्धश्लोक एकान्वयी ॥ ४।६२।१५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ४।६२ ॥