०६१ सम्पातिना स्वकथानिरूपणम्

मुनिकर्तृकप्रश्नानन्तरकालिकं वृत्तान्तमाह तत इत्यादिभिः । ततः ऋषिकृतप्रश्नश्रवणानन्तरं दुष्करम् अन्यैः कर्तुमशक्यं तत् इन्द्रकर्तृकपराभवरूपं दारुणं कर्म सूर्यानुगमनं च मुनेः समीपे आचचक्षे ॥ ४।६१।१ ॥

तत्कथनप्रकारमाह– भगवन्नित्यादिभिः । भगवन् हे मुने व्रणयुक्तत्वात् इन्द्रयुद्धे तत् वज्रकृतव्रणवत्त्वाद्धेतोः परिश्रान्तः प्राप्तखेदः अत एव लज्जया आकुलेन्द्रियो ऽहं वचनं परिभाषितुमत्यन्तं वक्तुं न शक्नोमि । अत्यन्तं वक्तुं न शक्नोमीत्यनेन किंचद्ब्रवीमीति सूचितम् ॥ ४।६१।२ ॥

तद्वचनाकारमाह अहमिति । गर्वमोहितौ इन्द्रजयजनितगर्वविशिष्टौ अहं जटायुश्च संघर्षात् परस्पराभिभवेच्छातः पराक्रमं स्वस्वबलं जिज्ञासन्तौ सन्तौ अस्तं महागिरिं रविः यावत् स्यात् यायात् तावदेव अनुयातव्यः आवाभ्यां प्राप्यः इति पणं कैलासशिखरे मुनिनामग्रतः बद्धा दूरादाकाशं पतितौ गतौ । श्लोकद्वयमेकान्वयि ॥ ४।६१।३,४ ॥

अथेति । अथ गमनानन्तरं युगपत् एककालावच्छेदेन प्राप्तौ आकाशं गतौ आवां महीतले विद्यमानानि पृथक् पृथक् नगराणि चक्रप्रमाणानि अपश्याव ॥ ४।६१।५ ॥

क्वचिदिति । क्वचित् वादित्रघोषादिः शुश्रूम इति शेषः । क्वचित् रक्तवाससः बह्वीः अङ्गनाः पश्यावः ॥ ४।६१।६ ॥

तूर्णमिति । आकाशम् आकाशपथादधोदेशं तूर्णम् उत्पत्य उल्लङ्घ्य आदित्यपदम् आस्थितौ आवां शाद्वलसंवृतं शाद्वलैर्बालतृणैः संवृतमाच्छादितमिव वनम् आलोकयावः, महातरवः दूर्वादलवद्दृश्यन्ते इत्यर्थः ॥ ४।६१।७ ॥

उपलैरिति । शिलोच्चयैः पर्वतैः संछन्ना भूः उपलैः सूक्ष्मप्रस्तरैरिव संच्छन्ना दृश्यते आपगाभिर्नदीभिः संवीता आच्छादिता वसुन्धरा सूत्रैरिव संवीता दृश्यते ॥ ४।६१।८ ॥

हिमवानिति । हिमवदादयः जलाशये नागा गजा इव भूतले संप्रकाशन्ते ॥ ४।६१।९ ॥

तीव्र इति । तदा तादृशदर्शनसमये स्वेदाद्यासीत् ततस्तस्माद्धेतोः मोहो मूर्छा च समाविशत् ॥ ४।६१।१० ॥

नेति । याम्यादिर्दिग् न ज्ञायत अत एव नियतः नियमेन स्थितो ऽपि लोकः युगान्ते अग्निना दग्धः अत एव हतः निवृत्त इव ज्ञायते ॥ ४।६१।११ ॥

मन इति । चक्षुःसंश्रयं नेत्ररूपमाश्रयं प्राप्य मे मनः भूयो हतं चक्षुषा सह शैथिल्यं प्राप्तमित्यर्थः, अतः महता यत्नेन मनः चक्षुषी च संधाय सूर्योन्मुखे कृत्वा महता यत्नेन भास्करः प्रतिलोकितः भास्करः नौ आवयोः पृथ्वीप्रमाणेन तुल्यः प्रतिभाति । श्लोकद्वयमेकान्वयि ॥ ४।६१।१२,१३ ॥

जटायुरिति । जटायुर्मामनापृच्छ्य अपृष्ट्वा महीं पपात । तन्निपतन्तं जटायुषमहं दृष्ट्वा आकाशात् सूर्यसमीपवर्तिगगनात् आत्मानं स्वशरीरं मुक्तवान् अहमप्यपतमित्यर्थः ॥ ४।६१।१४ ॥

ननु जटायुः कथं न दग्ध इत्यत आह पक्षाभ्यामिति । मया पक्षाभ्यां गुप्तः जटायुर्न प्रदह्यत प्रादह्यत । प्रमादात् अनवधानतया तत्र सूर्यसमीपे निर्दग्धः वायुपथात् पतन्नहं जनस्थाने निपतितं जटायुषमाशङ्के कथंचित् अजानाम् । सार्धश्लोक एकान्वयी ॥ ४।६१।१५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ४।६१ ॥