वानरान्प्रति संपातिवचनान्तरं वर्णयितुमाह तत इति । कृतमुदकमुदकक्रिया येन तं स्नातं रम्ये गिरौ स्थितं गृध्रं समन्ततः परिवार्य हरियूथपा उपविष्टाः संस्थिता अभवन्निति शेषः ॥ ४।६०।१ ॥
तमिति । हरिभिर्वृतमुपासीनमङ्गदं जनितः उत्पादितः प्रत्ययः अङ्गदादिषु विश्वासो येन स संपातिः पुनरब्रवीत् ॥ ४।६०।२ ॥
तद्वचनाकारमाह कृत्वेति । हे हरयः मैथिलीं यथा जानामि तथा तथ्यं संकीर्तयिष्यामि । अतः निःशब्दं शब्दनिवृत्तिं कृत्वा एकाग्राः सन्तो मम मत्तः शृण्वन्तु ॥ ४।६०।३ ॥
तत्संकीर्तनाकारमाह अस्येत्यादिभिः । सूर्यतापपरीताङ्गः सूर्यकिरणतापयुक्तः अत एव सूर्यरश्मिभिर्निर्दग्धो ऽहमस्य विन्ध्यस्य शिखरे पतितो ऽस्मि ॥ ४।६०।४ ॥
लब्धेति । षण्मासादूर्ध्वलब्धसंज्ञः विवशः स्ववशरहितो ऽहं विह्वलन्नेव दिशो वीक्षमाणश्च सन् किञ्चन नाभिजानामि ॥ ४।६०।५ ॥
तत इति । ततो ऽनन्तरं सागरादीन् वीक्ष्य मतिर्विवेक आगता ॥ ४।६०।६ ॥
तदाकारमाह हृष्टेति । कन्दरा एव उदरं यस्य स एव कूटवानिति कर्मधारयः । अयं विन्ध्यः इति निश्चितः मयेति शेषः ॥ ४।६०।७ ॥
आसीदिति । यस्मिन् निशाकरो नाम ऋषिः उग्रतपाः अभवत् तदिदं पुण्यमाश्रमं सुरैरपि सुपूजितमासीत् । दीर्घं आर्षः, असिद्धत्वाभावज्ञापनाद्वा, आगमशास्त्रस्यानित्यत्वादडभावो वा ॥ ४।६०।८ ॥
अष्टाविति । निशाकरे स्वर्गते सति अस्मिन् गिरौ तेन ऋषिणा विना वसतो मम अष्टौ वर्षसहस्राणि व्यतीतानीति शेषः ॥ ४।६०।९ ॥
मुनिसंगमप्रकारं बोधयितुं पूर्ववृत्तमाह अवतीर्येत्यादिभिः । विषमाद्विन्ध्याग्रादवतीर्य वसुमतीं पृथ्वीं पुनरागतो ऽस्मीति शेषः ॥ ४।६०।१० ॥
तमिति । स ऋषिः जटायुषा मया च बहुशो ऽधिगतः पूर्वं प्राप्तः अतः दुःखेनाभ्यागतो ऽहं तमृषिं द्रष्टुकामा समवलोकनेच्छुरस्मि आसम् ॥ ४।६०।११ ॥
तदाश्रमचिह्नान्याह तस्येति । आश्रमपदस्य श्रमनिवर्तकस्थानस्य अभ्याशे निकटे वाता ववुः अपुष्पितः अफलो वा कश्चिद्रृक्षो न दृश्यते ॥ ४।६०।१२ ॥
उपेत्येति । निशाकरं द्रष्टुकामो ऽहमाश्रममुपेत्य वृक्षमूलमुपाश्रितः सन् प्रतीक्षे प्रत्यैक्षे ॥ ४।६०।१३ ॥
अथेति । कृताभिषेकं कृतस्नानम् उदद्मुखमुपावृतमागच्छन्तं दूरस्थमृषिं पश्यामि अपश्यम् ॥ ४।६०।१४ ॥
तमिति । तमागच्छन्तमृषिं प्राणिनो दातारमिव ऋक्षादयः परिवार्य उपगच्छन्ति ॥ ४।६०।१५ ॥
तत इति । ततो ऽनन्तरं प्राप्तं स्वाश्रम इति शेषः । ऋषिं ज्ञात्वा राजनि प्रविष्टे अन्तःपुरं गते सति सामात्यकम् अमात्यसहितं बलं सैन्यमिव तानि सत्त्वानि ययुः ॥ ४।६०।१६ ॥
ऋषिरिति । ऋषिस्तु मां दृष्ट्वा तुष्टः पुनराश्रमं प्रविष्टश्च मुहुर्तमात्रात् ततः आश्रमात् निर्गम्य कार्यं मम हिंसनहेतुमपृच्छत ॥ ४।६०।१७ ॥
तत्प्रश्नाकारमाह सौम्येति । हे सौम्य ते तव रोम्णां वैकल्यतामभावं दृष्ट्वा नावगम्यते प्रत्यभिज्ञायते भवानिति शेषः । वैकल्यताकारणमनुमिनोति इमौ तव पक्षौ अग्निदग्धौ अग्निदग्धाविव अत एव शरीरके अल्पशरीरे विद्यमानाः प्राणाश्चकारेण विक्रमादयो ऽपि अग्निदग्धप्रायाः ॥ ४।६०।१८ ॥
यथाकथंचित् तं ज्ञात्वा आह गृध्राविति । जवे वेगे मातरिश्वसमौ वायुसदृशौ गृध्राणां राजानौ भ्रातरौ मे मम दृष्टपूर्वौ द्वौ गृध्रौ मानुषं रूपमास्थाय गृहीत्वा मम चरणौ गृह्णीताम् । हे संपाते यस्य तव जटायुरनुजः स ज्येष्ठस्त्वम् अवितो मया ज्ञातः । श्लोकद्वयमेकान्वयि ॥ ४।६०।१९,२० ॥
किमिति । किं ते व्याधिसमुत्थानं केनचित् दण्डो वा ऽयं धृतः । ननु द्वयमपि नास्तीत्यत आह तव पक्षयोः पतनं कथम् इति पृच्छतो मे सर्वं कारणजातमाख्याहि ॥ ४।६०।२१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षष्टितमः सर्गः ॥ ४।६० ॥