०५९ सम्पातिना सीतावर्णनम्

संपातिप्रापणानन्तरकालिकवृत्तान्तमाह– तत इत्यादिभिः । अमृतास्वादम् अमृतास्वादसदृशास्वादविशिष्टं वदता स्थिरेण गृध्रराजेन भाषत वचो निशम्य श्रुत्वा हृष्टाः प्लवगोत्तमाः ततः पूर्वस्थितिदेशे अतिष्ठन्निति शेषः ॥ ४।५९।१ ॥

जाम्बवानिति । वानरश्रेष्ठः वानरेभ्यो ऽधिकवयस्कः जाम्बवान् भूतलात् उत्थाय संपातिसमीपं गत्वेत्यर्थः, गृध्रराजानं संपातिमब्रवीत् । समासान्तविधेरनित्यत्वात् टजभावः ॥ ४।५९।२ ॥

तद्वचनाकारमाह क्वेति । सीता क्व कस्मिन् स्थले अस्तीति शेषः, केन दृष्टा च हरणसमये इति शेषः, मैथिलीं को वा हरति अहरत्, तत्सर्वं भवान् आख्यातु वदतु । अत एव वनौकसामस्माकं गतिर्विश्रामभूमिर्भव । एतेन पूर्वसंपातिकथनसमये जाम्बवतः अतिशोकहेतुकानवधानता तद्वचने ऽप्रीतिर्वा सूचिता ॥ ४।५९।३ ॥

क इति । वज्रवेगनिपातिनाम् अतिवेगविशिष्ठवज्रवत्स्वयं निपतनशीलानां लक्ष्मणमुक्तानां दाशरथिबाणानां रामसंबन्धिशराणां विक्रमं को न चिन्तयति । एतेन तस्य विनाशो ऽवश्यं भवितेति सूचितं तेनापहर्तुः अज्ञानातिशयः सूचितः ॥ ४।५९।४ ॥

स इति । सं संपातिः प्रतिसंमुक्तान् त्यक्तप्रायोपवेशनात् सीताश्रुतिसमाहितान् सीतावृत्तान्तश्रवणाय एकाग्रचित्तान् वानरान् आश्वासयन् सन् पुनरब्रवीत् ॥ ४।५९।५ ॥

तद्वचनाकारमाह श्रूयतामिति । यथा येन प्रकारेण वैदेह्या हरणं श्रुतं तं प्रकारं येन ममाग्रे आख्यातं कथितं तं च यत्रायतलोचना सीता अस्ति तं देशं च इह इदानीं मे श्रूयताम् ॥ ४।५९।६ ॥

अहमिति । क्षीणौ अल्पौ प्राणपराक्रमौ यस्य सो ऽहं बहुयोजनम् आयते विस्तृते अस्मिन् गिरौ चिरात् बहुकालतो निपतितः ॥ ४।५९।७ ॥

तमिति । एवमनेन प्रकारेण तं पतितं मां नामतः प्रणामाय गतः प्राप्तः सुपार्श्वौ नाम पुत्रः आहारेण यथाकालं बिभर्ति ॥ ४।५९।८ ॥

आहारेणैव भरणे हेतुं वदन्नाह तीक्ष्णेति । गन्धर्वास्तीक्ष्णकामाः भवन्ति तेषु कामभोगाधिक्यमित्यर्थः । भुजङ्गमाः सर्वाः तीक्ष्णकोपाः तेषु कोपाधिक्यमित्यर्थः । मृगाणां तु भयं तीक्ष्णं तेषु भयाधिक्यमित्यर्थः । ततस्तथा वयं तीक्ष्ण क्षुधा अस्मासु क्षुधाया आधिक्यमित्यर्थः ॥ ४।५९।९ ॥

स इति । अहनि अहोनिमित्ते सूर्ये सति सूर्योदयकाले इत्यर्थः, गतः आहाराभिकाङ्क्षिणो मम पुत्रः अनामिषः आमिषरहितः सन् प्राप्तः मामिति शेषः ॥ ४।५९।१० ॥

स इति । आहारसंरोधात् आहारस्याप्राप्तेरित्यर्थः, पीडितः मया भर्त्सितः पुत्रः अनुमान्य मां संप्रार्थ्य यथातत्त्वं याथार्थ्यमनतिक्रम्य इदमब्रवीत् ॥ ४।५९।११ ॥

तद्वचनाकारमाह अहमिति । हे तात यथाकालं गमनकालमनतिक्रम्य आमिषार्थी खमाकाशमाप्लुतो ऽहं महेन्द्रस्य गिरेः द्वारं निर्गममार्गमावृत्य सुसमाश्रितः संस्थितः ॥ ४।५९।१२ ॥

तत्रेति । तत्र तस्मिन् समये सागरान्तरचारिणां सहस्राणां पन्थानं संनिरोद्धुम् अवाङ्मुखः एको ऽहं अध्यवसम् ॥ ४।५९।१३ ॥

तत्रेति । तत्र तस्मिन् समये सूर्योदयसमप्रभाम् उदयकालिकसूर्यप्रभासदृशप्रभाविशिष्टां स्त्रियमादाय गच्छन् भिन्नाञ्जनचयोपमः विलक्षणाञ्जनसमूहसदृशः कश्चिज्जनो मया दृष्टः ॥ ४।५९।१४ ॥

स इति । सः आमिषार्थी अहं स्त्रीपुरुषौ दृष्ट्वा अभ्यवहारार्थं त्वत्कर्तृकभोजनार्थं कृतनिश्चयः इमावेव हत्वा पितृकर्तृभोजनार्थं नेष्यामीति निश्चयवानित्यर्थः, अहं विनीतेन तेन पुरुषेण साम्ना सामरूपोपायेन पन्थानमनुयाचितो ऽभवमतः त्यक्तवानस्मीति शेषः ॥ ४।५९।१५ ॥

त्यागे हेतुमाह नेति । सामोपपन्नानां सामयुक्तानां प्रहर्ता हन्ता नीचेषु अपि जनेषु कश्चिन्न तद्विधः भवत्कुलजातसदृशः नेति किं वक्तव्यम् ॥ ४।५९।१६ ॥

स इति । तेजसा व्योम आकाशं संक्षिपन् व्याप्नुवन् इव सः गृहीतस्त्रीकः यातः अथानन्तरं खेचरैः भूतैः अभिगम्य प्राप्य सभाजितः प्रार्थ्यमानतत्त्यागेन प्रशंसितो ऽहमभवमिति शेषः ॥ ४।५९।१७ ॥

स भाजनप्रकारमाह– दिष्टयेति । हे तात सकलत्रः असौ योगतः स कथंचित् जीवति त्वया त्यक्त इत्यर्थः, इति दिष्ट्या भाग्यम्, अतस्ते स्वस्ति इति महर्षयो मामब्रुवन् ॥ ४।५९।१८ ॥

एवमिति । ततः तत्त्यागानन्तरं परमशोभनैः सिद्धैरहमेवमुक्तः सः मया त्यक्तस्तु रक्षसां राजा रावणः सिद्धैः प्रतिवेदितः बोधितश्च चकारेण या ह्रियमाणा सा सीता प्रतिवेदिता दुष्टत्यागप्रशंसया हरणेनैवास्य विनाशो भवितेति महर्षीणां ज्ञानं सूचितम् ॥ ४।५९।१९ ॥

पश्यन्निति । भ्रष्टाभरणकौशेयां रामलक्ष्मणयोर्नाम क्रोशन्तीं दाशरथेः रामस्य भार्यां पश्यन् अतिष्ठमिति शेषः । हे तात एषः कालात्ययः इति एतद्धेतुकः एतदर्थं वाक्यविदां वरः सुपार्श्वः मे समीपे प्रत्यवेदयत् । सार्धश्लोकद्वयमेकान्वयी ॥ ४।५९।२०,२१ ॥

तदिति । तत् रावणस्य कर्म श्रुत्वा ऽपि पराक्रमे मे बुद्धिः काचिन्नासीत् हि यतः अपक्षः पक्षरहितः पक्षी किंचित्कर्म कथं समारभेत् । अर्धद्वयमेकान्वयि ॥ ४।५९।२२ ॥

यदिति । वाग्बुद्धिगुणवर्तिना वचसा बुद्धिगुणेन समीचीनोपदेशादिना च वर्तनशीलेन मया यत्कर्तुं शक्यं तत् भवतां पौरुषाश्रयं पौरुषसाध्यं वक्ष्यामि । तत्र तत् श्रूयताम् ॥ ४।५९।२३ ॥

वागिति । दाशरथेः यत्कार्यं तन्ममैव अतः वाङ्मतिभ्यां सर्वेषां वः प्रियं करिष्यामि ॥ ४।५९।२४ ॥

तदिति । कपिराजेन प्रहिताः मतिश्रेष्ठाः भवन्तः देवैरपि दुरासदाः सन्तीति शेषः । विहिताः चालिताः रामलक्ष्मणबाणाः त्रयाणामपि लोकानां त्राणनिग्रहे कामं पर्याप्ताः समर्था इत्यर्थः । तत् तस्मात् हेतोः तेजोबलसमन्वितो यो दशग्रीवः तस्मिन् भवतां किंचिन्न दुष्करम् । श्लोकत्रयं संमिलितान्वयि ॥ ४।५९।२५२७ ॥

तदिति । हि यतः बुद्धिमन्तो जनाः कर्मसु न सज्जन्ते अलसाः भवन्ति । तत् ततः बुद्धिनिश्चयः बुद्धिजनितनिश्चयविशिष्टः सीतादर्शनोद्योग इत्यर्थः, क्रियताम् कालसङ्गेन कालविलम्बेन अलं न क्रियतामित्यर्थः ॥ ४।५९।२८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥ ४।५९ ॥