अङ्गदवचनश्रवणानन्तरकालिकं संपातिवचनं वर्णयन्नाह इतीति । वानरैः इति करुणं वाक्यमुक्तः अत एव सबाष्पः अश्रुसहितः गृध्रः प्रत्युवाच ॥ ४।५८।१ ॥
तद्वचनाकारमाह यवीयानित्यादिभिः । हे वानराः यं रावणेन हतं यूयमाख्यात स जटायुः यवीयान् कनिष्ठो मम भ्राता ॥ ४।५८।२ ॥
वृद्धेति । वृद्धभावात् वृद्धत्वप्राप्तेः हेतोः भ्रातुर्वैरविमोक्षणे रावणवधे इत्यर्थः, मे मम शक्तिर्नास्ति अत एव तत् अप्रियं शृण्वन्नप्यहं मर्षये सहे ॥ ४।५८।३ ॥
पक्षाभावे हेतुमाह पुरेत्यादिभिः । पुरा पूर्वं वृत्रवधे इन्द्रकर्तृकवृत्रासुरविघाते वृत्ते जाते सति जयैषिणौ स जटायुः अहं च जवेन वेगेन स्वः स्वर्गं गतौ इन्द्रजिगीषया प्राप्तौ आवृत्य तं जित्वा परावृत्य रश्मिमालिनं किरणरूपमालाविशिष्टं स्वर्ज्वलन्तं प्रकाशयन्तमादित्यमुपयातौ समीपं प्राप्तौ । तत्र जटायुः सूर्ये मध्यं प्राप्ते सति अवसीदति सति खेदं प्राप्नोत् । श्लोकद्वयमेकान्वयि ॥ ४।५८।४,५ ॥
तमिति । सूर्यरश्मिभिः अर्दितं पीडितं परमविह्वलं भ्रातरं जटायुषं दृष्ट्वा अहं पक्षाभ्यां छादयामास अतिशोकेन विक्षिप्तचित्तत्वात्परोक्षक्रियानिर्देशः ॥ ४।५८।६ ॥
निर्दग्धेति । निर्दग्धः पक्षो यस्य सो ऽहमस्मिन्विन्ध्ये पतितः अत एव वसन् सन् भ्रातुः प्रवृत्तिं वृत्तान्तं नोपलक्षये ॥ ४।५८।७ ॥
जटायुष इति । जटायुषो भ्रात्रा संपातिना एवमुक्तो ऽङ्गदः प्रत्युवाच ॥ ४।५८।८ ॥
तद्वचनाकारमाह जटायुष इति । ते गदितं कथितं मया श्रुतमतः जटायुषो भ्राता यदि त्वमसि यदि च रक्षसो रावणस्य निलयं जानासि तर्हि आख्याहि कथय ॥ ४।५८।९ ॥
अदीर्घेति । अदीर्घदर्शिनम् आगाम्यनर्थाविचारिणं रावणमन्तिके विद्यमानं यदि वा दूरे विद्यमानं यदि जानासि तर्हि शंस ॥ ४।५८।१० ॥
तत इति । ततः अङ्गदकृतप्रश्नानन्तरं जटायुषो ज्येष्ठो भ्राता आत्मानुरूपं वचनमब्रवीत् ॥ ४।५८।११ ॥
तदाकारमाह निर्दग्धेति । हे प्लवङ्गमाः निर्दग्धपक्षो ऽहं वाङ्मात्रेण रामस्य साह्यं साहाय्यं करिष्ये ॥ ४।५८।१२ ॥
जानामीति । वारुणादीन् लोकान् देवासुरविमर्दान् देवासुरकर्तृकयुद्धस्थानानि अमृतस्य मन्थनं च जानामि अतः यस्य मम जरया तेजो हृतं प्राणाश्च शिथिलास्तेनापि मया रामस्य तत् इदं सीताबोधनरूपं कार्यं तत् प्रथमं कर्तव्यम् । श्लोकद्वयमेकान्वयि ॥ ४।५८।१३,१४ ॥
तद्बोधनमेवाह तरुणीति । रूपसंपन्ना रामेत्यादि क्रोशन्ती भूषणानि अपविध्यन्ती गात्राणि विधुन्वती रावणेन ह्रियमाणा तरुणी मया दृष्टा । श्लोकद्वयमेकान्वयि ॥ ४।५८।१५,१६ ॥
सूर्येति । तस्याः ह्रियमाणायाः उत्तमं कौशेयं पट्टवस्त्रविशेषः शैलाग्रे नीलशैलशिखरे सूर्यप्रभेव अम्बेर आकाशे विद्युदिव असिते नीले राक्षसे यथा यथावद्भाति अभात् ॥ ४।५८।१७ ॥
तामिति । रामस्य परिकीर्तनाद्धेतोस्तां ह्रियमाणामहं सीतां मन्ये अतः तस्य रक्षसो निलयं कथयतो मे श्रूयताम् ॥ ४।५८।१८ ॥
पुत्र इति । विश्रवसः साक्षात् औरसः पुत्रः वैश्रवणस्य भ्राता रावणो नाम राक्षसः लङ्कामध्यास्ते ॥ ४।५८।१९ ॥
ननु लङ्का क्वास्तीत्यत आह इत इति । इतः अस्मात्स्थानात् शतयोजने पूर्णे सति तस्मिन्प्रसिद्धे समुद्रस्य द्वीपे काञ्चनवेदिकैः सुवर्णमयवेदिकाविशिष्टैर्जाम्बूनदमयैर्द्धारैश्च हेमवर्णैः प्रासादैश्च सुसमावृता अर्कवर्णेन प्राकारेण समन्विता च विश्वकर्मणा निर्मिता या लङ्कापुरीं तस्यां रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता वैदेही वसति । सार्धश्लोकत्रयमेकान्वयि ॥ ४।५८।२०२२ ॥
जनकस्येति । सागरेण समन्ततो गुप्तायां तस्यां लङ्कायां जनकस्यात्मजां द्रक्ष्यथ । अर्धद्वयमेकान्वयि ॥ ४।५८।२३ ॥
संप्राप्येति । शतयोजने संपूर्णे सति सागरस्यान्तं संप्राप्यं दक्षिणं कूलमासाद्य गत्वा ततस्तत्र रावणं द्रक्ष्यथ ॥ ४।५८।२४ ॥
तत्रेति । हे प्लवङ्गमाः त्वरिताः सन्तः क्षिप्रं विक्रमध्वम् । तत्र तस्यां लङ्कायां दृष्ट्वा सीतामिति शेषः, क्षिप्रं प्रत्यागमिष्यथ इति ज्ञानेन ज्ञानदृष्ट्या पश्यामि जानामि ॥ ४।५८।२५ ॥
अतिदूरवस्तुज्ञानोपपत्तये स्वजन्मनः प्राशस्त्यं बोधयन्नाह आद्य इति । आद्यः प्रथमः पन्थाः आकाशमार्गः कुलिङ्गानां ये अन्ये धान्यजीविनः पारावतादयः तेषां च द्वितीयः तत ऊर्ध्वभागस्थः बलिभोज्यानां काकादीनां ये च वृक्षफलाशनाः शुकादयस्तेषां च द्वितीयो मार्गः ॥ ४।५८।२६ ॥
भासा इति । तृतीयं तत ऊर्ध्वस्थमार्गं भासाः तदभिधपक्षिणः कुररैः सह क्रौञ्चाश्च गच्छन्ति चतुर्थं श्येनाः गच्छन्ति पञ्चमं गृध्रा गच्छन्ति ॥ ४।५८।२७ ॥
बलेति । षष्ठः पन्थास्तु बलवीर्योपपन्नानां हंसानाम् । वैनतेयगतिः विनतामुतमार्गस्तु परा ततो ऽप्युत्तरदेशवर्तिनी ॥ ४।५८।२८ ॥
ननु तव क्वा ऽन्तर्भाव इत्यत आह वैनतेयादिति । सर्वेषां नो ऽस्माकं जन्म वैनतेयात् विनतासुतारुणात् अस्तीति शेषः । अर्धं पृथक् ॥ ४।५८।२९ ॥
गर्हितमिति । येन पिशिताशिना रक्षसा गर्हितं कर्म सीतापहरणादिरूपं कृतं तत् रक्षः प्रतिकार्यं हिंसनीयं भवद्भिरिति शेषः । तेन तस्य हतस्य मे भ्रातुः वैरं कृतं छिन्नं भवेत् ॥ ४।५८।३० ॥
इहस्थ इति । इहस्थो ऽहं रावणं जानकीं च प्रपश्यामि । तत्र हेतुः यथा सौपर्णं चक्षुर्बलं च दिव्यं तथा अस्माकमपि दिव्यम् ॥ ४।५८।३१ ॥
तस्मादिति । तस्माद्दिव्यनेत्रत्वात् हेतोः निसर्गेण स्वाभाविकेन आहारवीर्येण युक्ता वयं साग्रात् किंचदधिकात्किञ्चिदधिकम् आयोजनशतात् योजनशतमभिव्याप्य वयं नित्यशः पश्याम पश्यामः ॥ ४।५८।३२ ॥
नेत्रस्यापि दिव्यत्वे प्रयोजनमाह अस्माकमिति । निसर्गेण जातिस्वभावेन दूरतः दूरतो ऽवलोकितवस्तुना अस्माकं वृत्तिर्विहिता विधिनेति शेषः । प्रसङ्गादन्यवृत्तिमप्याह– चरणयोधिनां कुक्कुटानां वृत्तिः वृक्षमूलेषु आवासवृक्षमूललभ्येषु विहिता ॥ ४।५८।३३ ॥
प्रकृतमाह उपाय इति । लवणाम्भसो लङ्घने कश्चिदुपायो दृश्यतामत एव वैदेहीमुपलभ्य समृद्धार्थाः सन्तो गमिष्यथ ॥ ४।५८।३४ ॥
समुद्रमिति । स्वर्गतस्य भ्रातुः उदकं प्रदास्यामि अतः वरुणालयं समुद्रं भवद्भिर्नेतुं प्राप्तुमात्मानमिति शेषः, इच्छामि ॥ ४।५८।३५ ॥
तत इति । ततः संपातिवचनश्रवणानन्तरं प्रवृत्तिमुपलभ्य हृष्टाः महौजसो वानराः निर्दग्धपक्षं संपातिं नदनदीपतेस्तं प्रसिद्धं देशं नीत्वा ततः संपातिसंपदितकृत्यानन्तरं पतगेश्वरं संपातिं तमावासदेशं पुनः प्रापयित्वा प्रापय्य बभूवुः स्थिता इति शेषः । श्लोकद्वयमेकान्वयि ॥ ४।५८।३६,३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ४।५८ ॥