०५७ अङ्गदेन स्वकष्टनिरूपणम्

संपातिवचनश्रवणानन्तरकालिकमङ्गदादिवृत्तान्तमाह– शोकादित्यादिभिः । शोकात् भ्रातृवधश्रवणजनितपश्चात्तापात् भ्रष्टस्वरमपि संपातिवचनं श्रुत्वा तस्य संपातेः कर्मणा भक्षणोद्देश्यकवचनक्रियया शङ्किताः वानरयूथपास्तद्वाक्यं नैव श्रद्दधुः ॥ ४।५७।१ ॥

ते इति । प्रायमुपविष्टास्ते प्लवङ्गमाः गृध्रं दृष्ट्वा सर्वान् नो ऽस्मान् भक्षयिष्यति अयं गृध्र इति शेषः, इति रौद्रां बुद्धिं चक्रुः ॥ ४।५७।२ ॥

सर्वथेति । प्रायमासीनान् नो ऽस्मान् यदि भक्षयिष्यति तर्हि इतः अस्माद्भक्षणात् सिद्धिं रामकार्यसाधनहेतुकमरणजनितसंसिद्धिं गताः वयं सर्वथा सर्वप्रकारेण कृतकृत्याः भविष्यामः । एतां बुद्धिं सर्वे हरियूथपाः चक्रुः । सार्धश्लोक एकान्वयी ॥ ४।५७।३ ॥

अवतार्येति । तदा निश्चयकाले गिरिशृङ्गादवतार्य अङ्गदो गृध्रमाह । अर्धं पृथक् ॥ ४।५७।४ ॥

तद्वचनाकारमाह– बभूवेत्यादिभिः । ऋक्षरजो नाम वानरेन्द्रः मम आर्यः पितामहो बभूव । तस्यात्मजौ पुत्रौ घनबलौ महापराक्रमौ सुग्रीवो वाली चोभौ बभूवतुरिति शेषः । विश्रुतकर्मा वाली मम पिता अभूत् । श्लोकद्वयमेकान्वयि ॥ ४।५७।५,६ ॥

आत्मानं बोधयित्वा स्वागमनकारणीभूतं रामं बोधयन्नाह राजेति । कृत्स्नस्य निखिलस्य जगतो ब्राह्मण्डस्य राजा इक्ष्वाकूणां कुले जात इति शेषः, दाशरथिः दशरथपुत्रः पितुर्निदेशनिरतो रामः लक्ष्मणेन वैदेह्या च सह दण्डकावने प्रविष्टः । श्लोकद्वयमेकान्वयि ॥ ४।५७।७,८ ॥

तस्येति । तस्य रामस्य भार्या रावणेन जनस्थानात् हृता । अर्धं पृथक् रामस्येति । रामस्य पितुर्दशरथस्य मित्रं जटायुर्नाम गृध्रराट् ह्रियमाणां सीतां ददर्श । अर्धद्वयमेकान्वयि ॥ ४।५७।९ ॥

रावणमिति । रावणं विरथं कृत्वा मेथिलीं च स्थापयित्वा परिश्रान्तः वृद्धो जटायुः रावणेन हतः ॥ ४।५७।१० ॥

एवमिति । रावणेन हतः पश्चात् रामेण संस्कृतः कृतप्रमीतक्रियः गृध्रः उत्तमां गतिं जगाम ॥ ४।५७।११ ॥

तत इति । ततो ऽनन्तरं राघवः मम पितृव्येण सुग्रीवेण सख्यं चकार । सः कृतसख्यो रामो मम पितरमवधीत् ॥ ४।५७।१२ ॥

ममेति । रामो वालिनं निहत्य मम पित्रा निरुद्धो यः सुग्रीवस्तमभिषेचयत् अभ्यषेचयत् ॥ ४।५७।१३ ॥

स इति । तेन रामेण राज्ये स्थापितो ऽत एव वानरमुख्यानां राजा यः सुग्रीवस्तेन वयं प्रस्थापिताः ॥ ४।५७।१४ ॥

एवमिति । एवमनेन प्रकारेण रामप्रयुक्ताः रामेण नियोजिताः अत एव मार्गमाणाः वयं रात्रौ सूर्यप्रभामिव वैदेहीं नाधिगच्छामः ॥ ४।५७।१५ ॥

ते इति । ते अन्वेषणे नियुक्ताः वयं दण्डकारण्यं विचित्य विवृतमपि हितं धरण्याः बिलमज्ञानाद्धतोः प्रविष्टाः ॥ ४।५७।१६ ॥

मयस्येति । मयस्य मायाविहितं मायया रचितं बिलं विचिन्वतामस्माकं यः समयो राज्ञा कृतः स मासः तत्र बिले व्यतीतः ॥ ४।५७।१७ ॥

ते इति । कपिराजस्य वचनकारिणो वयं सर्वे कृतां कपिराजेन संकेतितां संस्थां मर्यादाम् अतिक्रान्ताः अत एव प्रायमुपासिताः ॥ ४।५७।१८ ॥

उपायान्तराभावे हेतुमाह ऋद्ध इति । सलक्ष्मणे सुग्रीवे काकुत्स्थे रामे च क्रुद्धे सति तत्र गतानां नो ऽस्माकं जीवितं नास्ति ॥ ४।५७।१९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ४।५७ ॥