भयमागतमित्युक्तम्, तत्स्वरूपं वर्णयितुमाह उपेति । यस्मिन् गिरिस्थले सर्वे हरयः प्रायमुपविष्टाः तं देशं गृध्रराजः संपातिः उपचक्रमे जगाम ॥ ४।५६।१ ॥
संपातिरिति । जटायुषः भ्राता नाम्ना संपातिः संपातिनामेत्यर्थः, विन्ध्यस्य कन्दरात् अभिनिष्क्रम्य हरीन्दृष्ट्वा हृष्टात्मा सन् गिरमब्रवीत् नाम प्रसिद्धमेतत् । श्लोकद्वयमेकान्वयि ॥ ४।५६।२,३ ॥
तद्वचनाकारमाह विधिरिति । विधानेन पूर्वार्जितकर्मानुसारेण विधिः क्रियाफलं यथा नरमनुवर्तते प्राप्नोति तथा विहितः पूर्वार्जितकर्मणा निष्पादितः अयं भक्ष्यः मह्यमुपागतः अतः परम्पराणां क्रमेणाभिविष्टानां वानराणां मृतं मृतं वानरमहं भक्षिष्ये । एतद्वचः प्लवङ्गमान् निरीक्ष्य पक्षी संपातिरब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ४।५६।४,५ ॥
तस्येति । भक्ष्यलब्धस्य लब्धं भक्ष्यं येन तस्य संपातेर्वचनं श्रुत्वा परमायस्तो ऽतिखिन्नो ऽङ्गदः हनूमन्तमब्रवीत् ॥ ४।५६।६ ॥
तद्वचनाकारमाह पश्येति । वैवस्वतो विवस्वत्पुत्रोपमः गृध्रापदेशेन गृध्रव्याजेन वानराणां विपत्तये इमं देशं साक्षादनुप्राप्तः ॥ ४।५६।७ ॥
रामस्येति । यैः रामस्य कार्यं न कृतं राजशासनं मासाभ्यन्तरे समागन्तव्यमिति सुग्रीवकृतनियोगश्च न कृतं तेषां हरीणामज्ञाता पूर्वमलक्षितेयं विपत्तिः आगता ॥ ४।५६।८ ॥
एतत्कर्तृकास्मद्भक्षणे ऽस्माभिर्न शोचनीयमित्याह– वैदेह्या इति द्वाभ्याम् । वैदेह्याः प्रियकामेन जटायुषा यत् कर्मं कृतं तत् वो युष्माकमशेषतः श्रुतम् ॥ ४।५६।९ ॥
तथेति । तिर्यग्योनिगतानि जटायुःप्रभृतीनि प्राणांस्त्यक्त्वा ऽपि यथा रामस्य प्रियं कुर्वन्ति तथा वयं करिष्याम इति शेषः ॥ ४।५६।१० ॥
तदेव भङ्गयन्तरेणाह अन्योन्यमिति । स्नेहकारुण्ययन्त्रिताः स्नेहकारुण्ययोर्वशं प्राप्ताः शिष्टाः अन्योन्यमुपकुर्वन्ति ततो हेतोस्तस्य रामस्योपकारार्थमात्मना स्वस्वप्रयत्नेन आत्मानं देहं त्यजत ॥ ४।५६।११ ॥
ननु मरणमात्रेण कथं रामप्रीतिर्भवितेत्यत आह प्रियमिति । धर्मज्ञेन जटायुषा रामस्य प्रियं प्रीतिः कृतं संपादितं मरणेनैवेति शेषः । एवं राघवस्यार्थे कान्ताराणि दुर्गमपथान् प्रपन्नाः प्राप्ता ये वयं मैथिलीं न पश्याम ते वयं परिश्रान्ताः अत एव त्यक्तजीविताः सन्तः रामप्रीतिं निष्पादयिष्याम इति शेषः । सार्धश्लोकः एकान्वयी ॥ ४।५६।१२ ॥
स इति । रणे रावणेन हतः अत एव परमां गतिमुत्तमस्थानं गतो गृध्रराजो जटायुः सुग्रीवभयान्मुक्तः अत एव सुखी आस्ते इति शेषः । सुग्रीवभयान्मुक्त इत्यनेन गृध्रादीनामपि सुग्रीवं एव राजेति सूचिम् ॥ ४।५६।१३ ॥
जटायुष इति । जटायुषो दशरथस्य च विनाशेन वैदेह्या हरणेन च हरयो वयं संशयं रामस्य शीघ्रं सुखयोगो ऽस्ति न वेति संदेहं गताः प्राप्ताः ॥ ४।५६।१४ ॥
रामेति । रामलक्ष्मणयोररण्ये वासादि विकृतमस्मत्प्रायोपवेशादि च केकय्या वरदानेनैव कृतमवेहीति शेषः । अर्धचतुष्टयमेकान्वयि ॥ ४।५६।१५,१६ ॥
तदिति । अनुकीर्तितं वानरैः कथितम् असुखं दुःखरूपं तद्वचो निरीक्ष्य श्रुत्वा भुवि पतितान् वानरांश्च निरीक्ष्य भृशचकितमतिर्गृध्रराजः संपातिः कृपणं वचः उदाहृतवान् ॥ ४।५६।१७ ॥
तदेव भङ्ग्यन्तरेणाह तदिति । तथा तेन प्रकारेण अङ्गदस्य मुखोद्गतं तद्वाक्यं श्रुत्वा गृध्रो ऽब्रवीत् ॥ ४।५६।१८ ॥
तद्वचनाकारमाह को ऽयमिति । मे मनः कम्पयन्निव मे भ्रातुर्जटायुषो वधं गिरा वाच्यवृत्त्या को ऽयं घोषयति वदति ॥ ४।५६।१९ ॥
कथमिति । राक्षसगृध्रयोर्युद्धं कथमासीत् । अर्धं पृथक् ॥ ४।५६।२० ॥
नामेति । भ्रातुरिदं जटायुरिति नामधेयं चिरस्य बहुकालतः श्रुतम् अतो भवद्भिः गिरिदुर्गादवतारितुमात्मानमिति शेषः, इच्छेयम् एतेन स्वस्य स्वत उत्तरणासामर्थ्यं व्यञ्जितम् ॥ ४।५६।२१ ॥
यवीयस इति । अतिदीर्घस्य कालस्यापगमे सतीति शेषः, यवीयसः कनिष्ठभ्रातुः कीर्तनात् अहं परितुष्टो ऽस्मि । अर्धं पृथक् । तदिति । जनस्थाननिवासिनो भ्रातुः विनाशं विनाशप्रकारं श्रोतुमिच्छामि । अर्थद्वयमेकान्वयि ॥ ४।५६।२२ ॥
तस्येति । यस्य रामः पुत्रः स मम भ्रातुः सखा दशरथः कथं लोकान्तरं गत इति शेषः ॥ ४।५६।२३ ॥
ननु त्वमेव कुतो नोत्तरसीत्यत आह– सूर्येति । सूर्यांशुना दग्धः पक्षो यस्य तत्त्वात् हेतोः विसर्पितुं चलितुं न शक्नोमि अतः पर्वतादवतर्तुमवतरितुमिच्छेयं भवद्भिरिति शेषः ॥ ४।५६।२४,२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥ ४।५६ ॥