श्रुत्वेति । स्वामिसत्कारसंयुक्तं हनुमतो वाक्यं श्रुत्वा अङ्गदो ऽब्रवीत् ॥ ४।५५।१ ॥
तद्वचनाकारमाह– स्थैर्यमिति । सुग्रीवे स्थैर्यप्रभृतिः नोपपद्यते घटते ॥ ४।५५।२ ॥
तत्र हेतुं वदन्नाह भ्रातुरिति । धर्मेण धर्मबुद्ध्या मातरं ज्येष्ठस्य भ्रातुर्भार्यां जुगुप्सितं यथा भवति तथा यः स्वीकरोति । युद्धाय युद्धं कर्तुं गच्छतेति शेषः । भ्रात्रा अभिनियुक्तेन बिलमुखरक्षणाय नियोजितेन येन च बिलस्य मुखं पिहितं स सुग्रीवः धर्मं कथं जानीते । श्लोकद्वयमेकान्वयि ॥ ४।५५।३,४ ॥
सत्यादिति । सत्यात्सत्यमवलम्ब्य पाणिगृहीतः पाणिग्रहेण स्वीकृतः कृतकर्मा कृतोपकृतिः राघवः येन विस्मृतः सः सुग्रीवः कस्य सुकृतं स्मरेत् न कस्यापीत्यर्थः ॥ ४।५५।५ ॥
ननु विस्मृतिश्चेत् कथं वयं प्रेषिताः इत्यत आह लक्ष्मणस्येति । नाधर्मभयभीरुणा अधर्मभयभीतभिन्नेन येन सुग्रीवेण लक्ष्मणस्य भयेन हेतुना सीतां मार्गितुं स्वयमादिष्टास्तस्मिन् सुग्रीवे धर्मः कथं भवेत् ॥ ४।५५।६ ॥
तस्मिन्निति । स्मृतिभिन्ने धर्मशास्त्रोक्तधर्मरहिते किंच उपकृतिविषयकस्मरणरहिते अत एव पापादिविशिष्टे तस्मिन् सुग्रीवे आर्यः बुद्धिमत्वादिना श्रेष्ठस्तत्कुलीनः तत् कुलजातः को विशेषतो विश्वसेत् न को ऽपीत्यर्थः ॥ ४।५५।७ ॥
राज्य इति । सगुणो धर्मावान् विगुणः अधर्मवान् तद्विचारेण न किंचित्फलमित्यर्थः, सुग्रीवः पुत्रं जनिष्यमाणस्वतनयं राज्ये प्रतिष्ठाप्य प्रतिष्ठापयितुं विचार्य शत्रुकुलीनं मां कथं जीवयिष्यति ॥ ४।५५।८ ॥
भिन्नेति । भिन्ना विनष्टा शक्तिः अन्वेषणसामर्थ्यं यस्य सः अत एव भिन्नः दूरीकृतो मन्त्रः तदुपदिष्टकालो येन अत एव अपराद्धो ऽहं किष्किन्धां प्राप्य अनाथ इव कथं जीवेयम् ॥ ४।५५।९ ॥
उपांश्विति । सुग्रीवः राजकारणात् उपांशुदण्डेन अल्पवधोपायेन बन्धनेन सर्वकालं निरोधेन उपपादयेत् योजयेत् ॥ ४।५५।१० ॥
बन्धनादिति । बन्धनात् बन्धनजनितात् अवसादात् खेदात् प्रायोपवेशनमेव श्रेयः अतः सर्वे वानराः मामनुजानन्तु प्रायोपवेशनाय आज्ञापयन्तु गृहं गच्छन्तु च ॥ ४।५५।११ ॥
मत्कर्तृककिष्किन्धागमनाय न यतितव्यमिति बोधयन्नाह अहमिति । इह अस्मिन् समये मरणमेव श्रेयः अतः प्रायं प्रायोपवेशनमासिष्ये प्राप्स्यामि अतः किष्किन्धामहं न गमिष्यामि इति वः युष्माकमग्रे ऽहं प्रतिजानामि प्रतिज्ञां करोमि ॥ ४।५५।१२ ॥
अभीति । बलशालिनौ राघवौ अभिवादनपूर्वकं प्रणामपूर्वकं कुशलं वाच्यौ वानरेश्वरो वानरेश्रेष्ठः यवीयान् कनिष्ठो वृद्धो राजा सुग्रीवश्च अभिवादनपूर्वं कुशलं वाच्यः । मे मातरं राम् आश्वासयितुमर्हथ । सार्धश्लोकद्वयमेकान्वयि ॥ ४।५५।१३,१४ ॥
आश्वासने हेतुमाह प्रकृत्येति । प्रकृत्या स्वभावेन प्रियपुत्रा सानुक्रोशा दयावती तपस्विनी सा तारा विनष्टं मां श्रुत्वा जीवितं जीवनं हास्यति त्यक्ष्यति । एतेनाश्वासनस्य प्राणरक्षाहेतुत्वं सूचितम् । अर्धद्वयमेकान्वयि ॥ ४।५५।१५ ॥
एतावदिति । दुर्मुखः उदासीनवदनो ऽङ्गदः रुदन् वृद्धान् तान् एतावदुक्त्वा अभिवाद्य च भूमौ दर्भेषु विवेश ॥ ४।५५।१६ ॥
तस्येति । संविशतस्तस्याङ्गदस्य समीपे दुःखिताः अत एव रुदन्तो वानरर्षभाः नयनेभ्यः उष्णं वारि प्रमुमुचुः ॥ ४।५५।१७ ॥
सुग्रीवमिति । सुग्रीवं निन्दन्तः यस्य एक एव पुत्रः सो ऽपि मुमूर्षुरिति तस्यातीव दुर्भगत्वमिति वदन्तः वालिनं प्रशंसन्तः वाली अतीव भाग्यवान् युद्धे रामसंमुखे मृतः इति वदन्तः सर्वे वानराः अङ्गदं परिवार्य प्रायमासितुं व्यवसन् व्यवस्यन् ॥ ४।५५।१८ ॥
तदिति । प्लवगर्षभाः वालिपुत्रस्य तत् प्रायोपवेशनविषयकप्रतिज्ञाबोधकं वाक्यं विज्ञाय संस्मृत्य उदकमुपस्पृश्य समुपाविशन् ॥ ४।५५।१९ ॥
दक्षिणेति । उदक्तीरं समुद्रस्य उत्तरतटं समाश्रिताः दक्षिणाग्रेषु दर्भेषु संस्थिताः इति शेषः, मुमूर्षवो हरिश्रेष्ठाः एतत् प्रायोपवेशनं क्षमं युक्तमित्यूचुरिति शेषः ॥ ४।५५।२० ॥
रामस्येति । रामस्य वनवासादीन् वदतां हरीणां वानराणां भयं वक्ष्यमाणभीतिरागतं प्राप्तम् । अर्धचतुष्टयमेकान्वयि ॥ ४।५५।२१,२२ ॥
स इति । संविशद्भिः महाद्रिकूटप्रतिमैः महाशैलशृङ्गसदृशैः प्लवङ्गमैः सः वानरसमीपवतीं महीधरः नदद्भिर्जलदैरम्बरमाकाशमिव सन्नादितं निर्झरान्तरं निर्झरमध्यं यस्य सः बभूव ॥ ४।५५।२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ४।५५ ॥