०५४ हनुमता-अङ्गदोपदेशः

अङ्गदं पर्ति हनुमदुक्तिं वर्णयितुं हनुमद्विचारमाह तथेत्यादिभिः । ताराधिपवर्चसि चन्द्रतेजःसदृशतेजोवति तारे तथा अङ्गदानुकूल्येन ब्रुवति सति अङ्गदेन राज्यं सुग्रीवकपिराजत्वं हृतमध इति हनुमान्मेने । एतेन तयोरुक्तिर्न समीचीनेति हनुमन्निश्चयः सूचितः । अतिबुद्धिमद्भिः सर्वं सुसाध्यमिति तस्य तात्पर्यम् ॥ ४।५४।१ ॥

बुद्धयेति । अष्टाङ्गया अष्टगुणयुक्तया बुद्ध्या युक्तं चतुर्बलैः समन्वितं चतुर्दशगुणं चतुर्दशसङ्ख्याकगुणविशिष्टं शुक्लपक्षादौ श्रिया वर्धमानं शशिनमिव तेजोबलपराक्रमैरापूर्यमाणं बुद्ध्या बृहस्पतिसमं शुक्रस्य वचः शुश्रूषमाणं पुदन्दरमिव तारस्य वचः शुश्रूषमाणं विक्रमे पितुः सदृशमङ्गदं मेने । श्लोकत्रयमेकान्वयि । बुद्धेरष्टगुणास्तु “शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।” चतुर्बलानि तु सामदानभेदनिग्रहरूपोपायाः । चतुर्दश गुणास्तु “देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता ॥ अविसंवादिता शौर्यं शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममर्षत्वमचापलम्” इति ॥ ४।५४।२४ ॥

भर्तुरिति । भर्तुः सुग्रीवस्य अर्थे प्रयोजनसाधने परिश्रान्तं जातश्रमं निवृत्तचित्तमित्यर्थः, अङ्गदम् अभिसंधातुं भर्तुरर्थे संयोजयितुं हनूमानारेभे ॥ ४।५४।५ ॥

स इति । स हनूमान् चतुर्णामुपायानां सामदानभेदनिग्रहरूपाणां तृतीयं भेदं वाक्यसंपदा युक्तियुक्तवचनसमूहेन उपवर्णयन् सर्वान् अङ्गदपक्षीयान् वानरान् भेदयामास । “हीनाश्रयो न कर्तव्यः कर्तव्यो महदाश्रयः” इत्यादिवचनैः अङ्गदसंमतेः पृथक् चकार ॥ ४।५४।६ ॥

तेष्विति । तेषु अङ्गदपक्षीयेषु भिन्नेषु सत्सु कोपोपायसमन्वितैः कोपोपायेन दण्डेन समन्वितैः युक्तैः अत एव विभीषणैः भयप्रापकैः । वाक्यैः अङ्गदमभीषयत् ॥ ४।५४।७ ॥

तत्प्रकारमाह त्वमिति । तारेय हे अङ्गद त्वं युद्धे पित्रा सदृश इति शेषः । अत एव समर्थतरः अत एव कपिराज्यं धारयितुं पिता इव त्वं समर्थः । तथापि नित्यमस्थिरचित्ताः चञ्चलमनसः कपयस्त्वया ऽ ऽज्ञाप्यं इह वासं पुत्रदारं विना न विषहिष्यन्ति करिष्यन्ति । श्लोकद्वयमेकान्वयि ॥ ४।५४।८,९ ॥

त्वामिति । यथा जाम्बवदादयस्त्वां सुग्रीवविरोधित्वेन ज्ञायमानं न अनुरञ्जेयुस्तथा अहं न इमे सर्वे वानराश्च न इत्यहं ते प्रत्यक्षं प्रवदामि अत एव सामदानादिभिर्दण्डेन च सुग्रीवादपकर्षितुं पृथक्कर्तुं न शक्याः । एतेन सुग्रीवस्यातिप्राबल्यं व्यञ्जितम् । श्लोकद्वयमेकान्वयि ॥ ४।५४।१०,११ ॥

ननु भवन्तः सुग्रीवमेवानुसरन्तो गच्छन्तु एक एवाहमत्र स्थास्यामीत्यत आह विगृह्येति । बलीयसा पुरुषेण सह विगृह्य वैरं संपाद्य दुर्बलेन आसनं स्थितिं कर्तुं न शक्यं तस्मात् आत्मरक्षाकरो दुर्बलो बलीयसा न विगृह्णीत इत्याहुराप्ता इति शेषः । कर्तुं शक्यमित्यध्याहृतम् । नेति बलीयसेति च आवर्तते ॥ ४।५४।१२ ॥

ननु बिले न कस्माच्चिद्भीतिरिति तत्रैव वत्स्यामीत्यत आह यामिति । यदेतत् बिलं स्मृतं तारेण ज्ञातमाहात्म्यम् अत एव यामिमां धात्रीं रक्षिकां मन्यसे तस्य विदारणं लक्ष्मणबाणानाम् ईषत्कार्यमीषत्करम्, परिश्रममन्तरा साध्यमित्यर्थः ॥ ४।५४।१३ ॥

स्वल्पमिति । पुरा पूर्वं मयकर्तृकबिलस्थितिसमये अशनिं क्षिपता मयासुरमुद्दिश्य त्यजता इन्द्रेण स्वल्पं द्वाराकृतिच्छिद्रमात्रं कृतं लक्ष्मणस्तु बाणैः पत्रपुटमिव भिन्द्यात् ॥ ४।५४।१४ ॥

लक्ष्मणस्येति । वज्राशनिसमस्पर्शः अत एव गिरीणामपि दारकास्तद्विधा अशनेरपि निर्मापकाः लक्ष्मणस्य नाराचाः बाणविशेषाः बहवः सन्ति ॥ ४।५४।१५ ॥

अवस्थानमिति । यदा अवस्थानं बिले स्थितिमासिष्यसि निश्चेष्यसि तदैव कृतनिश्चयाः त्वत्त्यागविषयकनिश्चयवन्तः सर्वे हरयः त्यक्ष्यन्ति त्वामिति शेषः ॥ ४।५४।१६ ॥

तत्र हेतुं वदन्नाह स्मरन्त इति । नित्योद्विग्नाः सुग्रीवादिभ्यो नित्यं भीताः बुभुक्षिताः अत एव खेदिताः पुत्रदाराणां स्मरन्तः सर्वे वानराः दुःखशय्याभिः शयितमिति शेषः । त्वां पृष्ठतः पृष्ठे करिष्यन्ति त्वां संत्यज्य सुग्रीवसमीपं गमिष्यन्तीत्यर्थः ॥ ४।५४।१७ ॥

स इति । हितकामैः सुहृद्भिर्बन्धुभिश्च हीनः अत एव भृशोद्विग्नस्त्वं स्यन्दमानात् उड्डीयमानात् तृणादपि लघुर्भविष्यसि ॥ ४।५४।१८ ॥

न चेति । अपवृत्तं रामकार्याद्विमुखं त्वां जिघांसन्तः लक्ष्मणसायकाः जातु कादाचित् न हिंस्युः न अवश्यं हिंस्युरित्यर्थः । एतेन इह त्वया नैव स्थातव्यमिति सूचितम् ॥ ४।५४।१९ ॥

ननु तत्र गमने सुग्रीवो हनिष्यत्यत आह–अस्माभिरिति । अस्माभिः सार्धं गतं विनीतवत् विनीतयुक्तमुपस्थितं त्वामानुपूर्व्यात् कालक्रमेण सुग्रीवो राज्ये स्थापयिष्यति ॥ ४।५४।२० ॥

धर्मराज इति । धर्मराजः सद्धर्मैः शोभमानः प्रीतिकामः दृढव्रतः अप्रच्युतसंकल्पः अत एव सत्यप्रतिज्ञः स सुग्रीवस्त्वां त्वां न नाशयेत् ॥ ४।५४।२१ ॥

प्रियेति । ते मातुः प्रियकामः सुग्रीवो ऽस्तीति शेषः । अत एव तदर्थं त्वन्मातृप्रीतिसिद्ध्यर्थम् अस्य सुग्रीवस्य जीवितं जीवनम् । तत्र हेतुः– तस्य सुग्रीवस्य अन्यदपत्यं नास्ति तस्माद्गम्यताम् ॥ ४।५४।२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायशिरोमणौ किष्किन्धाकाण्डे चतुष्पञ्चाशः सर्गः ॥ ४।५४ ॥